ब्रह्मखण्डः - अध्यायः १४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच
कथयस्व महाप्राज्ञ ब्राह्मणस्य कृपार्णव
माहात्म्यं सर्ववर्णानां श्रेष्ठस्य कृपया च मे ॥१॥
सूत उवाच
ब्राह्मणः सर्ववर्णानां गुरुरेव द्विजोत्तम
सर्वामराश्रयो ज्ञेयः साक्षान्नारायणः प्रभुः ॥२॥
कुर्यात्प्रणामं यो विप्रं हरिबुद्ध्या तु भूसुरम्
भक्त्या तस्य द्विजश्रेष्ठ वर्द्धते संपदादिकम् ॥३॥
न नमेद्ब्राह्मणं दृष्ट्वा हेलयापि च गर्वितः
छेदनं तु तस्य शिरः कर्तुमिच्छेत्सदा हरिः ॥४॥
कृतापराधं विप्रं ये द्विषंति पापबुद्धयः
हरिं द्विषंति ते ज्ञेया निरयं यांति दारुणम् ॥५॥
यः कर्तुं प्रार्थनां विप्रं पश्येत्क्रोधेन चागतम्
कृतांतश्चक्षुषोस्तस्य तप्तसूचीं ददाति वै ॥६॥
कुरुते भूसुरं मूढो भर्त्सनं यो नराधमः
यमदूता मुखे तस्य तप्तलोहं ददंति च ॥७॥
येषां निकेतने भुंक्ते क्ष्मासुरो वै तपोधनः
सुपर्वाणैः स्वयं कृष्णो भुंक्ते तेषां निकेतने ॥८॥
नश्यंति सर्वपापानि द्विजहत्यादिकानि च
कणमात्रं भजेद्यस्तु विप्रांघ्रिसलिलं नरः ॥९॥
यो नरश्चरणौधौतं कुर्याद्धस्तेन भक्तितः
द्विजातेर्वच्मि सत्यं ते स मुक्तः सर्वपातकैः ॥१०॥
पुत्रहीना च या नारी मृतवत्सा च यांगना
सपुत्रा जीववत्सा सा द्विजपद्मांघ्रिसेवनात् ॥११॥
ब्रह्मांडे यानि तीर्थानि तानि तीर्थानि सागरे
उदधौ यानि तीर्थानि तिष्ठंति द्विजपादयोः
द्विजांघ्रिसलिलैर्नित्यं सेचितं यस्य मस्तकम् ॥१२॥
स स्नातः सर्वतीर्थेषु स मुक्तः सर्वपातकैः
शृणु शौनक वक्ष्यामि माहात्म्यं पापनाशनम् ॥१३॥
विप्रपादोदकस्याहमितिहासं तपोधन
आसीत्पुरा द्विजश्रेष्ठ वैश्यवृत्तिपरायणः ॥१४॥
शूद्रो भीमो द्वापरे च ब्रह्महत्यासहस्रकृत्
निष्ठुरः सर्वदा तुष्टः समहान्वैश्यया पुनः ॥१५॥
शूद्राचारपरिभ्रष्टो भीमोऽसौ गुरुतल्पगः
प्रत्येकं वच्मि किं तस्य दस्योः संख्या न विद्यते ॥१६॥
पापानां मुनिशार्दूल भीमस्य दुष्टचेतसः
एकदा स गतः कश्चिद्ब्राह्मणस्य निवेशनम् ॥१७॥
गत्वा तं तस्य गेहात्तु द्रव्यं नेतुं मनो दधे
तत्रोवास ब्राह्मणस्य बहिर्द्वारसमीपतः ॥१८॥
दैन्ययुक्तं वचः प्राह क्ष्मासुरं स तपोधनम्
भो स्वामिन्शृणु मे वाक्यं दयालुरिव मन्यते ॥१९॥
क्षुधार्तोऽहं देहि चान्नं प्राणा यास्यंति मे द्रुतम् ॥२०॥
ब्राह्मण उवाच
क्षुधार्त्त शृणु मे कश्चिद्वाक्यं कर्तुं न विद्यते
पाकं मे तंडुलानि त्वं नीत्वा भुंक्ष्व यथासुखम् ॥२१॥
नास्ति मे जनको माता नास्ति सूनुः सहोदरः
नास्ति जाया मातृबंधुर्मृताः सर्वे विहाय माम् ॥२२॥
तिष्ठाम्येको गृहेऽकर्मा भाग्यहीनोतिथे हरिः
एको मे वसतौ चास्ति न जाने तद्विना किल ॥२३॥
भीम उवाच
मम कश्चिद्द्विजश्रेष्ठ नास्ति सेवां तवापि च
शूद्रोऽहं निलये जात्या कृत्वा स्थास्यामि ते सदा ॥२४॥
सूत उवाच
इति तस्य वचः श्रुत्वा सानंदः क्ष्मासुरस्तदा
पाकं विधाय तूर्णं स ददावन्नं तपोधन ॥२५॥
सोऽपि हर्षसमायुक्तस्तस्थौ तत्र द्विजालये
सेवां कुर्वन्स्नेहयुक्तां भूसुरस्य मनोहराम् ॥२६॥
अद्य श्वो वा हनिष्यामि द्रव्यमस्य ममापि च
नेतुं यदा करिष्यामि नेष्यामि नात्र संशयः ॥२७॥
परामृश्य च हृद्यंतः कृत्वा तस्य क्रियां वदेत्
पादधौतादिकं चासौ शिरसा गतपातकः ॥२८॥
आचम्यांघ्रिजलं दध्रेच्छद्मना प्रतिदिनं द्विजः
एकदा हारकः कश्चिद्द्रव्यं नेतुं समागतः ॥२९॥
उत्पाट्य रात्रावररं गतोऽसौ तद्गृहांतरम्
दृष्ट्वा भीमं प्रहारार्थं दंडहस्तः समागतः ॥३०॥
हारको मस्तकं तस्य छित्त्वा तूर्णं पलायितः
अथ तस्य भटा विष्णोः शंखचक्रगदाधराः ॥३१॥
समायातास्तथा नेतुं भीमं तं वीतकिल्बिषम्
स्यंदनं चागतं दिव्यं राजहंसयुतं द्विज ॥३२॥
तत्रारूढो ययौ विष्णोर्भवनं दुर्लभं किल
माहात्म्यं भूमिदेवस्य मया ते तत्प्रकीर्तितम्
शृणुयाद्यो नरो भक्त्या तस्य पातकनाशनम् ॥३३॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे सूतशौनकसंवादे ब्राह्मणमाहात्म्यं
नाम चतुर्दशोऽध्यायः ॥१४॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP