ब्रह्मखण्डः - अध्यायः ५
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
शौनक उवाच-
कथयस्व महाप्राज्ञ पुत्रहीनो जनो भवेत्
कर्मणा केन वै सूत पुत्रो भवति केन च ॥१॥
सूत उवाच-
एतत्पृष्टः पुरा ब्रह्मा नारदेन महात्मना
स यदाह तदा तं च शृणुष्व मुनिपुंगव ॥२॥
नारद उवाच-
पितामह महाप्राज्ञ सर्वतत्त्वार्थपारग
अपुत्रो वै भवेन्मर्त्यः कर्मणा केन पद्मज ॥३॥
वंध्या स्त्री वा भवेत्केन वृजिनेन ममाग्रतः
कथय शृण्वतो वै मे सर्वप्राणिहिते रत ॥४॥
दुहिता जायते केन कर्मणा वा नपुंसकः
मृतवत्सो भवेत्केन मृतवत्सातिदुःखिता
केन पुण्येन भो ब्रह्मन्पुनः पुत्रो भवेद्वद ॥५॥
ब्रह्मोवाच-
कथयामि समासेन सावधानेन तच्छ्रणु
वृत्तांतं पृच्छसि त्वं वै शृण्वतां विस्मयप्रदम् ॥६॥
पूर्वजन्मनि यो मर्त्यो वर्तनं ब्राह्मणस्य च
हरेद्वा हारयेदत्र पुत्रहीनो भवेत्किल ॥७॥
इह जन्मनि यो मर्त्यः पुराणश्रवणं हि च
ससस्या भूमेर्दानं च कुर्याद्वै श्रद्धयान्वितः ॥८॥
धेनुं बहुगुणां हैमीं बहुदुग्धां सदक्षिणाम्
सुवर्णप्रतिमां चैव तस्य पुत्रो भवेद्ध्रुवम् ॥९॥
पूर्वजन्मनि या नारी परबालकघातनम्
करोति कपटेनैव बालहीना भवेद्ध्रुवम् ॥१०॥
सौवर्णप्रतिमादानं या नारी श्रद्धयान्विता
कुर्यात्पानं ब्राह्मणस्य भक्त्या वै चरणोदकम् ॥११॥
पुराणश्रवणं चैव दद्याद्वै बहुदक्षिणाम्
बह्वपत्या जीववत्सा भवेन्नास्त्यत्र संशयः ॥१२॥
जले निमग्नं बालं यो दृष्ट्वा या न समुद्धरेत्
इह जन्मन्यपुत्रो वै साऽपुत्री च भवेद्ध्रुवम् ॥१३॥
वृषभं चैव कूष्मांडं ससुवर्णं सवस्त्रकम्
दद्याद्दानं ब्राह्मणस्य कुर्याद्बालव्रतं शुभम् ॥१४॥
गौरीं कन्यां तथा कुर्यात्पुराणश्रवणं हि यः
पुत्रो वै जायते तस्य सर्वपातकनाशनम् ॥१५॥
पूर्वजन्मनि यो मर्त्यो निराशं चातिथिं द्विज
कुर्यात्क्रोधेन दंडं च पुत्रहीनो भवेद्ध्रुवम् ॥१६॥
ब्राह्मणं चातिथिं चैव कुर्याद्भक्त्या प्रपूजनम्
अन्नदानं जलं चैव तथा देवालयं शुभम् ॥१७॥
पूर्वजन्मनि या नारी भ्रूणहत्यां च यो नरः
कुर्यात्सा मृतवत्सा च मृतवत्सो भवेद्ध्रुवम् ॥१८॥
या नारी स्वामिसहिता कुर्याच्च हरिवासरम्
सुपुत्रा भर्तृसुभगा भवेत्सा प्रतिजन्मनि ॥१९॥
यो नरो गोधनं कुर्याच्छूद्रः कुर्याद्विमोहितः
ब्राह्मणीहरणं वापि कर्मणा स नपुंसकः ॥२०॥
इदं तु वृजिनं कृत्वा पश्चात्पुण्यं करोति यः
इह पुण्यप्रभावेण दुहिता जायते द्विज ॥२१
आसीत्त्रेतायुगे राजा श्रीधरो नामतो द्विज
अपुत्रो धनवांस्तस्य जाया हेमप्रभावती ॥२२॥
व्यासं सकलशास्त्रज्ञं सर्वलोकहितैषिणम्
आगतं चैव पप्रच्छ चापुत्रोऽहं कथं द्विज ॥२३॥
उवाच नृपतेः श्रुत्वा वचनं विनयान्वितम्
राज्ञा दत्ते च पीठे च निर्मिते कनकादिभिः ॥२४॥
राजाराज्ञी तस्य पादौ धौतं कृत्वा च हर्षितौ
पीत्वा पादोदकं द्वौ च सर्वपातकनाशनम् ॥२५॥
व्यास उवाच-
राजन्शृणुष्व यत्पृष्टमपुत्रो येन कर्मणा
तवेयं राज्ञी चापुत्री चैकपत्नीव्रतस्तथा ॥२६॥
पूर्वजन्मनि चंद्रस्त्वं नाम्ना वरतनु स्मृतः
भार्या तवापि शुभ्रांगी नाम्ना वै शंकरी स्मृता ॥२७॥
एकदा पथियातौ च नीचपुत्रं जलेपि च
मग्नं दृष्ट्वा हेलया च गतौ स पंचतां गतः ॥२८॥
बहुपुण्यप्रभावेण राज्ञीराजा गतौ युवाम्
तेन कर्मविपाकेन युवायोर्न भवेत्सुतः ॥२९॥
राजोवाच-
इदानीं केन पुण्येन सुतो वै जायते प्रभो
अपुत्रस्य मनुष्याणां जीवनं हि निरर्थकम् ॥३०॥
व्यास उवाच-
सवस्त्रं चैव कूष्मांडं वृषभं ससुवर्णकम्
देहि दानं ब्राह्मणस्य कुरु बालव्रतं तथा ॥३१॥
गौरीं कन्यां तथा देहि पुराणश्रवणं कुरु
पुत्रो वै जायते तत्र सर्वपातकनाशनम् ॥३२॥
ब्रह्मोवाच-
इति श्रुत्वा ततो राजा व्यासोक्तं दानमुत्तमम्
पुराणश्रवणं चैव चकार गतकिल्बिषः ॥३३॥
ततः पुत्रो वर्षमध्ये बभूव सर्वपूजितः
अभूद्राजा सार्वभौमः सुंदरः कुलनायकः ॥३४॥
सूत उवाच-
य इदं शृणुयाद्भक्त्या करोति दानमुत्तमम्
अपुत्रो लभते पुत्रं संक्षेपात्कथितं मया ॥३५॥
भक्त्या श्रुत्वा तु या नारी कुर्याद्ब्राह्मणपूजनम्
सुपुत्रा सा भवेन्नित्यं शास्त्रोक्तविधिना द्विज ॥३६॥
सुवर्णं रजतं वस्त्रं पुष्पमाल्यं च चंदनम्
यो दद्यात्पुस्तके भक्त्या सर्वपापप्रणाशनम् ॥३७॥
पूर्वजन्मनि यो मूढो ब्रह्मबालकघातकः
तस्य क्रूरो भवेत्पुत्रः सप्तजन्मांतरैर्द्विजः ॥३८॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे कर्मविपाककथनं
नाम पंचमोऽध्यायः ॥५॥
N/A
References : N/A
Last Updated : October 30, 2020
TOP