ब्रह्मखण्डः - अध्यायः २
भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.
सूत उवाच-
शृणु शौनक वक्ष्यामि चान्यधर्म्मं पुरातनम्
व्यासजैमिनिसंवादं श्रोतॄणां पापनाशनम् ॥१॥
जैमिनिरुवाच-
कर्म्मणा हि गुरो केन मंदिरं जगतीपतेः
याति तत्कथयस्वाद्य नरः पापी च मे प्रभो ॥२॥
व्यास उवाच-
श्रीकृष्णमंदिरे यो वै लेपनं कुरुते नरः
सर्वपापविनिर्मुक्तः श्रांतो याति हरेर्गृहम् ॥३॥
यश्चांबुलेपनं कुर्यात्संक्षेपाच्छृणु जैमिने
तस्यपुण्यमहं वच्मि मंदिरे जगतीपतेः ॥४॥
तत्र यावंति पश्यंति रजांसि च द्विजोत्तम
तावत्कल्पसहस्राणि स वसेद्विष्णुमंदिरे ॥५॥
पुरासीद्दंडको नाम्ना चौरो लोकभयप्रदः
ब्रह्मस्वहारी मित्रघ्नो युगे द्वापरसंज्ञके ॥६॥
असत्यभाषी क्रूरश्च परस्त्रीगमने रतः
गोमांसाशी सुरापश्च पाखंडजनसंगभाक् ॥७॥
वृत्तिच्छेदी द्विजातीनां न्यासापहारकस्तथा
शरणागतहंता च वेश्याविभ्रमलोलुपः ॥८॥
एकदा स द्विजश्रेष्ठ कस्यचिद्विष्णुमंदिरम्
जगाम हरणार्थाय विष्णोर्द्रव्यं स मूढधीः ॥९॥
अथ द्वारि प्रविश्यासावंघ्रिः कर्द्दमसंयुतः
प्रोच्छितः सकलं निम्ने भूमौ देवगृहस्य च ॥१०॥
तेनैव कर्म्मणा भूमिर्निम्नरिक्ता बभूव ह
लोहस्य च शलाकाभ्यां मुद्घाट्यत्वररंमुदा ॥११॥
प्रविवेश हरेर्गेहं वितानवरशोभितम्
रत्नकांचनदीपाढ्यं परिध्वस्त महत्तमम् ॥१२॥
नानापुष्पसुगंधाढ्यं नानापात्रसमाकुलम्
सुवासितस्य तैलस्य गंधेन परिपूरितम् ॥१३॥
अनेनहारकेणाथ पर्य्यंके सुमनोहरे
शायितो राधया सार्द्धं दृष्टः पीतांबरोऽच्युतः ॥१४॥
प्रणम्य राधिकानाथं निष्पापः सोऽभवत्तदा
नेष्याम्यथ न नेष्यामि अनेन किं भवेन्मम ॥१५॥
सेवां कर्त्तुमशक्तोऽहं यतश्चौरोऽस्मि सर्वदा
द्रव्येण कार्यमस्तीति तन्नेतुं कृतवान्मनः ॥१६॥
पातयित्वांशुकं भूमौ कौशेयं कमलापतेः
बबंध वस्तुजातं च पाणौ कृत्वा सकंपितः ॥१७॥
विष्णोर्मायापतेश्चाथ तानि सर्वाणि जैमिने
कृत्वा शब्दं सुघोरं च पतितान्यथ तानि वै ॥१८॥
परित्यज्य सुनिद्रां च धावंत इति किन्वहो
आगता बहुशो लोकाश्चोरो द्रव्यं जवेन च ॥१९॥
त्यक्त्वा धनं च चौरोऽपि त्रस्तः किंचिज्जगाम ह
दंशितः कालसर्पेण मृतोऽसौ गतकिल्बिषः ॥२०॥
यमाज्ञया तस्य दूताः पाशमुद्गरपाणयः
आगतास्तं समानेतुं दंष्ट्रिणश्चर्मवाससः ॥२१॥
बबंधुश्चर्मपाशेन निन्युर्दुर्गमवर्त्मना
दृष्ट्वा तं शमनः क्रुद्धः पप्रच्छ सचिवं प्रति ॥२२॥
यम उवाच-
अनेन किं कृतं कर्म पापं वा पुण्यमेव वा
समूलं वद हे प्राज्ञ चित्रगुप्त ममाग्रतः ॥२३॥
चित्रगुप्त उवाच-
सृष्टानि यानि पापानि विधात्रा पृथिवीतले
कृतान्यनेन मूढेन सत्यमेतन्मयोदितम् ॥२४॥
किंत्वाकर्णय लोकेश सुकृतं चास्य वर्त्तते
मन्येऽहं यमुनाभ्रातः सर्वपापविलोपि तत् ॥२५॥
धर्मराज उवाच-
किं पुण्यं वर्त्ततेऽमात्य वद सारं ममांतिके
श्रुत्वैवं तद्विधास्यामि यत्र योग्यो भवेदसौ ॥२६॥
यमस्य वचनं श्रुत्वा सभयश्चित्रगुप्तकः
कृत्वा हस्तांजलिं प्राह चात्मनः स्वामिने द्विज ॥२७
चित्रगुप्त उवाच-
हरणार्थं हरेर्द्रव्यं गतोऽसौ पापिनां वरः
प्रोज्झितः कर्द्दमो राजन्पादयोर्द्वारतो हरेः ॥२८॥
बभूव लिप्ता सा भूमिर्बिलच्छिद्र विवर्जिता
तेन पुण्यप्रभावेण निर्गतं पातकं महत्
वैकुंठं प्रतियोग्योऽसौ निर्गतस्तव दंडतः ॥२९॥
व्यास उवाच-
श्रुत्वा स वचनं तस्य पीठं कनकनिर्मितम्
ददौ तस्मै चोपविष्टस्तत्र पूज्योयमेनसः ॥३०॥
ननाम शिरसा तं वै प्रोवाच विनयान्वितः
यम उवाच-
पवित्रं मंदिरं मेऽद्य पादयोस्तद्धि रेणुभिः ॥३१॥
कृतार्थोऽस्मि कृतार्थोऽस्मि कृतार्थोऽस्मि न संशयः
इदानीं गच्छ भो साधो हरेर्मंदिरमुत्तमम् ॥३२॥
नानाभोगसमायुक्तं जन्ममृत्युनिवारणम्
व्यास उवाच-
इत्युक्त्वा धर्मराजोऽसौ स्यंदने स्वर्णनिर्मिते ॥३३॥
राजहंसयुते दिव्ये तमारोप्य गतैनसम्
समस्तसुखदं स्थानं प्रेषयामास चक्रिणः ॥३४॥
एवं प्रविष्टो वैकुंठे तत्र तस्थौ सुखं चिरम्
लेपनं ये प्रकुर्वंति भक्त्या तु हरिमंदिरम् ॥३५॥
तेषां किं वा भविष्यति न जानेऽहं द्विजोत्तम
य इदं शृणुयाद्भक्त्या पठेद्यो वा समाहितः ॥३६॥
कोटिजन्मार्जितं पापं नश्यत्येव न संशयः ॥३७॥
इति श्रीपाद्मेमहापुराणे ब्रह्मखंडे हरिमंदिरलेपनमाहात्म्यं
नाम द्वितीयोऽध्यायः ॥२॥
N/A
References : N/A
Last Updated : October 30, 2020
TOP