ब्रह्मखण्डः - अध्यायः ४

भगवान् नारायणाच्या नाभि-कमलातून, सृष्टि-रचयिता ब्रह्मदेवाने उत्पन्न झाल्यावर सृष्टि-रचना संबंधी ज्ञानाचा विस्तार केला, म्हणून ह्या पुराणास पद्म पुराण म्हणतात.


शौनक उवाच-
जयंत्याः सूत माहात्म्यं कदा सा क्रियते जनैः
कथयस्व मयि त्वं वै पोतः संसारसागरे ॥१॥
सूत उवाच-
शृणु विप्र प्रवक्ष्यामि यत्पृष्टो मुनिसत्तम
पुरा ब्रह्मा नारदेन पृष्ट एतत्सुरालये ॥२॥
नारद उवाच-
जयंत्याश्चैव माहात्म्यं कथयस्व पितामह
यच्छ्रुत्वाहं गमिष्यामि तद्विष्णोः परमं पदम् ॥३॥
ब्रह्मोवाच-
शृणुष्वावहितो विप्र तवाग्रे कथयाम्यहम्
जयंत्या उपवासेन विष्णुलोकं स गच्छति ॥४॥
स्मरणात्कीर्तनात्पापं सप्तजन्मार्जितं मुने
जयंती दहते तच्च किं पुनः सोपवासकृत् ॥५॥
जन्माष्टमी च नवमी चैत्रे मासि सिता शुभा
कृष्णा चतुर्दशी कुंभे मेषे शुक्ला चतुर्दशी ॥६॥
दुर्गाष्टम्याश्विने शुक्ला द्वादशी श्रवणान्विता
महापुण्याश्च शुभदा जयंत्यः षट्प्रकीर्तिताः ॥७॥
कृष्णजन्माष्टमी पूर्वा प्रसिद्धा पापनाशिनी
क्रतुकोटिसमा ह्येषा तीर्थानामयुतैः समा ॥८॥
कर्ता गवां सहस्रं तु यो ददाति दिनेदिने
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ॥९॥
हेमभारसहस्रं तु कुरुक्षेत्रे रविग्रहे
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ॥१०॥
कृष्णाजिनसहस्राणि तिलधेनुशतानि च
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ॥११॥
कन्याकोटिसहस्राणां दाने भवति यत्फलम्
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ॥१२॥
ससागरामिमां पृथ्वीं दत्वा यल्लभते फलम्
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ॥१३॥
वापीकूपतडागदि कर्तव्यं देवतालये
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ॥१४॥
मातापित्रोर्गुरूणां च भक्तिं युक्तः करोति यः
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ॥१५॥
आपदाहरणार्थाय तीर्थसेवाकृतात्मनाम्
सत्यव्रतानां यत्पुण्यं जयंत्यां समुपोषणे ॥१६॥
गंगायां नर्मदायां यत्पुण्यं सारस्वते जले
स्नात्वा पुण्यमवाप्नोति जयंत्यां समुपोषणे ॥१७॥
यत्पुण्यं श्राद्धकर्तॄणां पितॄणामिंदुसंक्षये
तत्फलं समवाप्नोति जयंत्यां समुपोषणे ॥१८॥
नारद उवाच-
केनकेन कृता पूर्वं कथयस्व पितामह
ब्रह्मोवाच-
कार्तवीर्येण कर्णेन कुमारेण च धीमता ॥१९॥
सगरेण दिलीपेन काकुस्थेन कृता पुरा
गौतमेन च गार्ग्येण जामदग्न्येन धीमता ॥२०॥
वाल्मीकिना कृता पूर्वं द्रौपदेयेन साधुना
ददाति वांछितान्कामान्भाद्रपस्य सिताष्टमी ॥२१॥
प्राजापत्यर्क्षसंयुक्ता विशेषेण मताष्टमी
वर्षेवर्षे प्रकर्तव्या प्रीत्यर्थे चक्रपाणिनः ॥२२॥
कोटिजन्मार्जितं पापं मुहूर्तेन विलीयते
रात्रौ जागरणं कृत्वा निष्ठापूर्वं जितेंद्रियः ॥२३॥
गंधपुष्पादिनैवेद्यैः पूजनीयः पृथक्पृथक्
एवं यः कुरुते विप्र जयंतीसमुपोषणम् ॥२४॥
कोटिजन्मार्जितं पापं ज्ञानतोऽज्ञानतः कृतम् ॥२५॥
प्रसादाद्देवकीसूनोर्यामार्द्धेन विलीयते
जयंतीतिथिसंप्राप्तौ भुंजते ये नराधमाः ॥२६॥
त्रैलोक्यसंभवं पापं भुंजते ते न संशयः
सागराद्यानि तीर्थानि मुक्तस्थानानि सर्वशः ॥२७॥
गृहे तिष्ठंति सर्वांगे जयंतीव्रतकारिणः
तस्य सर्वाणि तीर्थानि देहे तिष्ठंति देवताः ॥२८॥
करोति यो नरो भक्त्या जयंतीं कृष्णवल्लभाम्
न वेदेन पुराणेन मया दृष्टं महामुने ॥२९॥
तत्समं नाधिकं वापि कृष्णराधाष्टमीव्रतम्
न करोति नरो भक्त्या स भवेत्क्रूरराक्षसः ॥३०॥
यो नरोऽश्नाति मूढात्मा जयंतीवासरे द्विज
महानरकमश्नाति यथा च हरिवासरे ॥३१॥
अतीतमागतं यस्तु कुलमेकोत्तरं शतम्
पतेत्तु नरके घोरे जयंत्यां भोजनेन वै ॥३२॥
जयंती बुधवारे च रोहिण्या सहिता यदा
भवेच्च मुनिशार्दूल किं कृतैर्व्रतकोटिभिः ॥३३॥
कृते त्रेतायुगे चैव द्वापरे च कलौ युगे
कृता सम्यग्विधानेन जयंती पापनाशिनी ॥३४॥
जागरे पद्मनाभस्य पुराणं पाठयेत्तु यः
आजन्मोपार्जितं पापं दहते तूलराशिवत् ॥३५॥
यः शृणोति नरो भक्त्या पुराणं हरिवासरे
कोटिजन्मार्जितं तस्य पापं नश्यति तत्क्षणात् ॥३६॥
वासरे पद्मनाभस्य पूजयेद्वाचकं मुने
कुलकोटिं समुद्धृत्य विष्णुलोके स पूज्यते ॥३७॥
जयंत्यामुपवासेन यो नरोऽत्र पराङ्मुखः
सर्वधर्मविनिर्मुक्तो यात्यसौ नरकं ध्रुवम् ॥३८॥
गंधपुष्पैश्च धूपैश्च घृतपूर्णप्रदीपकैः
पूजयेद्भक्तिभावैश्च दद्याद्विप्राय दक्षिणाम् ॥३९॥
विधिनानेन यो विप्र जयंतीं प्रकरोति च
नरो वै तारयेद्भक्त्या पुरुषानेकविंशतिम् ॥४०॥
न दौर्भाग्यं न वैधव्यं न भवेत्कलहो गृहे
संततेर्न विरोधं च न पश्यति धनक्षयम् ॥४१॥
यान्यांश्चिकीर्षते कामान्जयंती समुपोषकः
तांस्तान्प्राप्नोति सकलान्विष्णुलोकं स गच्छति ॥४२॥
विष्णुभक्तिपरा नित्यं जयंतीव्रत मानसाः
ते धन्यास्ते कुलीनास्ते ईश्वरास्ते च पंडिताः ॥४३॥
यानि कानि च तीर्थानि व्रतानि नियमानि च
जयंतीवासरस्यैव कलां नार्हंति षोडशीम् ॥४४॥
भाद्रे वै चोभये पक्षे यः करोति सभार्यकः
राधाकृष्णाष्टमीं वत्स प्राप्नोति हरिसन्निधिम् ॥४५॥
व्रतं च पुण्यकारं च यः करोति सदा हरेः
स याति विष्णोर्वैकुंठं जयंतीसमुपोषकः ॥४६॥
आचारहीनं कुलभ्रष्टं कीर्तिहीनं कुयोनिजम्
नाशयत्याशु पापं च जयंती हरिवल्लभा ॥४७॥
मेरुतुल्यानि पापानि ब्रह्महत्यादिकानि च
स निर्दहति सर्वाणि जयंत्यां समुपोषकः ॥४८॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम्
मोक्षार्थी लभते मोक्षं जयंत्यां समुपोषकः ॥४९॥
जयंतीकरणे चित्तं येषां भवति तत्परम्
यमोऽपि शंकते नित्यं ते यांति परमां गतिम् ॥५०॥
सूत उवाच-
कथयित्वा नारदं तु ययौ स च यथागतः
मयापि कथितं ब्रह्मन्यत्पृष्टोऽहं त्वया मुने ॥५१॥
माहात्म्यं च जयंत्या ये शृण्वंति भक्तिभावतः
तेपि यांति परं धाम विमुक्ताः सर्वपातकैः ॥५२॥
पुराणवाचकं ब्रह्मन्जयंतीव्रतिनं तथा
ये पश्यंति नराः पापास्ते यांति परमं पदम् ॥५३॥
इति श्रीपाद्मे महापुराणे ब्रह्मखंडे ब्रह्मनारदसंवादे जयंतीव्रतमाहात्म्यं
नाम चतुर्थोऽध्यायः ॥४॥

N/A

References : N/A
Last Updated : October 30, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP