उत्तरखण्डम् - द्वितीयोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्रादौ स्वेदभेदाः

स्वेदश्चतुर्विधः प्रोक्तस्तापोष्मौ स्वेदसंज्ञितौ
उपनाहो द्र वः स्वेदः सर्वे वातार्त्तिहारिणः ॥१॥

दोषभेदेन स्वेदप्रयोगः
स्वेदौ तापोष्मजौ प्रायःश्लेष्मघ्नौ समुदीरितौ
उपनाहस्तु वातघ्नः पित्तसङ्गे द्र वो हितः ॥२॥

रोगिबलाद्यनुसारेण स्वेदस्य त्रैविध्यनिर्देशः
महाबले महाव्याधौ शीते स्वेदो महान्स्मृतः
दुर्बले दुर्बलः स्वेदो मध्ये मध्यतमो मतः ॥३॥

दोषविशेषेण स्वेदविशेषनिर्देशः
बलासे रूक्षणः स्वेदो रूक्षस्निग्धः कफानिले
कफमेदावृते वाते कोष्णं गेहं रवेः करान् ॥४॥

नियुद्धं मार्गगमनं गुरुप्रावरणं ध्रुवम्
चिन्ताव्यायामभाराश्च सेवेतामयमुक्तये ॥५॥

प्रथमस्वेद्या जनाः
येषां नस्यं विधातव्यं वस्तिश्चापि हि देहिनाम्
शोधनीयाश्च ये केचित्पूर्वं स्वेद्याश्च ते मताः ॥६॥

उभयतः स्वेद्या जनाः
स्वेद्याः पूर्वं त्रयः प्लीहभगन्दर्यर्शसस्तथा
अश्मर्यश्चातुरो जन्तुः समये शस्त्रकर्मणः ॥७॥

पश्चात्स्वेद्या जनाः
पश्चात्स्वेद्या गते शल्ये मूढगर्भगदे तथा
काले प्रजाताऽकाले वा पश्चात्स्वेद्या नितम्बिनी ॥८॥

स्वेदकालः
सर्वान्स्वेद्यान्निवाते च जीर्णाहारे च कारयेत् ॥९॥

स्वेदफलम्
स्वेदाद्धातुस्थिता दोषाः स्नेहक्लिन्नस्य देहिनः
द्र वत्वं प्राप्य कोष्ठान्तर्गता यान्ति विरेचताम् ॥१०॥

स्वेदितस्य रक्षाविधिः
स्विद्यमानशरीरस्य हृदयं शीतलैः स्पृशेत्
स्नेहाभ्यक्तशरीरस्य शीतैराच्छाद्य चक्षुषी ॥११॥

स्वेदानर्हा जनाः
अजीर्णी दुर्बलो मेही क्षतक्षीणः पिपासितः
अतिसारी रक्तपित्ती पाण्डुरोगी तथोदरी ॥१२॥

मदार्त्तो गर्भिणी चैव न हि स्वेद्या विजानता
एतानपि मृदुस्वेदैः स्वेदसाध्यानुपाचरेत् ॥१३॥

मृदुस्वेद्यान्यङ्गानि
मृदुस्वेदं प्रयुञ्जीत तथा हृन्मुष्कदृष्टिषु ॥१४॥

अतिस्वेदजा रोगाः
अतिस्वेदात् सन्धिपीडा दाहस्तृष्णा क्लमो भ्रमः
पित्तासृक्पिटिकाकोपस्तत्र शीतैरुपाचरेत् ॥१५॥

तापस्वेदलक्षणम्
तेषु तापामिधः स्वेदो वालुकावस्त्रपाणिभिः
कपालकन्दुकाङ्गारैर्यथायोग्यं प्रयुज्यते ॥१६॥

ऊष्मस्वेदविधिः
ऊष्मस्वेदः प्रयोक्तव्यो लोहपिण्डेष्टकाश्मभिः
प्रतप्तैरम्लसिक्तैश्च कार्ये रल्लकवेष्टिते ॥१७॥

अथवा वातनिर्णाशिद्र व्यक्वाथरसादिभिः
उष्णैर्घंटं पूरयित्वा पार्श्वे छिद्रं निधाय च
विमुद्र य्स्यां त्रिखण्डां च धातुजां काष्ठवंशजाम्
षडङ्गुलास्यां गोपुच्छां नलद्यं युञ्ज्याद् द्विहस्तिकाम् ॥१८॥

सुखोपविष्टं स्वभ्यक्तं गुरुप्रावरणावृतम्
हस्तिशुण्डिकया नाड्या स्वेदयेद्वातरोगिणम् ॥१९॥

पुरुषायाममात्रां वा भूमिमुत्कीर्य खादिरैः
काष्ठैर्दग्ध्वा तथाऽभ्युक्ष्य क्षीरधान्याम्लवारिभिः ॥२०॥

वातघ्नपत्रैराच्छाद्य शयानं स्वेदयेन्नरम्
एवं माषादिभिः स्विन्नैः शयानं स्वेदमाचरेत् ॥२१॥

उपनाहस्वेदविधिः
अथोपनाहस्वेदं च कुर्याद्वातहरौषधैः
प्रदिह्य देहं वातार्त्तं क्षीरमांसरसान्वितैः
अम्लपिष्टैः सलवणैः सुखोष्णैः स्नेहसंयुतैः ॥२२॥

महाशाल्वणस्वेदविधिः
उपग्राम्यानूपमांसैर्जीवनीयगणेन च ॥२३॥

दधिसौवीरकक्षारैर्वीरतर्वादिना तथा
कुलत्थमाषगोधूमैरतसीतिलसर्षपैः ॥२४॥

शतपुष्पादेवदारुशेफालीस्थूलजीरकैः
एरण्डमूलबीजैश्च रास्नामूलकशिग्रुभिः ॥२५॥

मिशिकृष्णाकुठेरैश्च लवणैरम्लसंयुतैः
प्रसारिण्यश्वगन्धाभ्यां बलाभिर्दशमूलकैः ॥२६॥

गुडूचीवानरीबीजैर्यथालाभं समाहृतैः
क्षुण्णैः स्विन्नैश्च वस्त्रेण बद्धैः संस्वेदयेन्नरम् ॥२७॥

द्र वस्वेदलक्षणम्
द्र वस्वेदस्तु वातघ्नद्र व्यक्वाथेन पूरिते
कटाहे कोष्ठके वाऽपि सूपविष्टोऽवगाहयेत् ॥२८॥

द्र वस्वेदविधिः
नाभेः षडङ्गुलं यावन्मग्नः क्वाथस्य धारया ॥२९॥

कोष्णया स्कन्धयोः सिक्तस्तिष्ठेत्स्निग्धतनुर्नरः
एवं तैलेन दुग्धेन सर्पिषा स्वेदयेन्नरम् ॥३०॥

अवगाहनकालनियमः
एकान्तरे द्व्यन्तरे वा स्नेहो युक्तोऽवगाहने ॥३१॥

स्नेहावगाहनफलम्
शिरामुखैर्लोमकूपैर्धमनीभिश्च तर्पयेत्
शरीरे बलमाधत्ते युक्तः स्नेहोऽवगाहने ॥३२॥

स्नेहसिक्तस्य धातुवृद्धौ हेतुः
जलसिक्तस्य वर्धन्ते यथा मूलेऽङकुरास्तरोः
तथा धातुविवृद्धिर्हि स्नेहसिक्तस्य जायते
नातः परतरः कश्चिदुपायो वातनाशनः ॥३३॥

स्वेदनविरत्यवस्थानिर्देशः
शीतशूलाद्युपरमे स्तम्भगौरवनिग्रहे
दीप्ताग्नौ मार्दवे जाते स्वेदनाद्विरतिर्मता ॥३४॥

स्वेदनोत्तरं कर्त्तव्यकर्माणि
सम्यक् स्विन्नं विमृदितं स्नानमुष्णाम्बुभिः शनैः
भोजयेच्चानभिष्यन्दि व्यायामं च न कारयेत् ॥३५॥

इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्वेदविधिर्नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP