उत्तरखण्डम् - दशमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्र गण्डूषकवलयोर्भेदा!

चतुर्विधः स्याद्गण्डूषः स्नैहिकः शमनस्तथा
शोधनो रोपणश्चैव कवलश्चापि तद्विधः ॥१॥

तद्भेदानां प्रकाराः
स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
पित्ते कट्वम्ललवणैरुष्णैः संशोधनः कफे ॥२॥

कषायतिक्तमधुरैः कदुष्णो रोपणो व्रणे
चतुष्प्रकारो गण्डूषः कवलश्चापि कीर्त्तितः ॥३॥

गण्डूषकवलयोर्लक्षणम्
असञ्चारी मुखे पूर्णे गण्डूषः कवलश्चरः
तत्र द्र वेण गण्डूषः कल्केन कवलः स्मृतः ॥४॥

गण्डूषकवलयोरौषधमात्रा
दद्याद् द्र वेषु चूर्णं च गण्डूषे कोलमात्रकम्
कर्षप्रमाणः कल्कश्च दीयते कवले बुधैः ॥५॥

गण्डूषस्य योग्याऽवस्था तद्धारणप्रमाणं च
धार्यन्ते पञ्चमाद्वर्षाद्गण्डूषकवलादयः
गण्डूषान्सुस्थितः कुर्यात्स्विन्नभालगलादिकः ॥६॥

मनुष्यस्त्रींस्तथा पञ्च सप्त वा दोषनाशनात्
कफपूर्णास्यता यावच्छेदो दोषस्य वा भवेत्
नेत्रघ्राणस्रुतिर्यावत्तावद् गण्डूषधारणम् ॥७॥

वाते स्नैहिकगण्डूषः
तिलकल्कोदकं क्षीरं स्नेहो वा स्नैहिके हितः ॥८॥

दाहनाशनगण्डूषः
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च
सक्षौद्रो हनुवक्त्रस्थो गण्डूषो दाहनाशनः ॥९॥

मुखव्रणादौ मधुगण्डूषः
वैशद्यं जनयत्यास्ये सन्दधाति मुखव्रणान्
दाहतृष्णाप्रशमनं मधुगण्डूषधारणम् ॥१०॥

विषक्षाराग्निदग्धे गण्डूषः
विषक्षाराग्निदग्धे च सर्पिधार्यं पयोऽथवा ॥११॥

दन्तचाले गण्डूषः
तैलसैन्धवगण्डूषो दन्तचाले प्रशस्यते ॥१२॥

मुखशोषे कफे च हितः काञ्जिकगण्डूषः
शोषं मुखस्य वैरस्यं गण्डूषः काञ्जिको जयेत्
सिन्धुत्रिकटुराजीभिरार्द्र केण कफे हितः ॥१३॥

कफरक्तपित्तनाशनो गण्डूषः
त्रिफलामधुगण्डूषः कफासृक्पित्तनाशनः ॥१४॥

मुखपाकर्न्घो गण्डूषः
दार्वी गुडूची त्रिफला द्रा क्षा जात्याश्च पल्लवाः
यवासश्चेति तत्क्वाथः षष्ठांशक्षौद्र संयुतः
शीतो मुखे धृतो हन्यान्मुखपाकं त्रिदोषजम् ॥१५॥

गण्डूषादिषु परस्परं द्र व्यैक्यम्
यस्यौषधस्य गण्डूषस्तस्यैव प्रतिसारणम्
कवलश्चापि तस्यैव ज्ञेयोऽत्र कुशलैर्न रैः ॥१६॥

कफवातजारुचिनाशकः कवलः
केसरं मातुलुङ्गस्य सैन्धवोषणसंयुतम्
हन्यात्कवलतो जाड्यमरुचिं कफवातजाम् ॥१७॥

प्रतिसारणप्रयोगमाह
प्रतिसारणप्रयोगभेदाः
कल्कोऽवलेहश्चूर्णं च त्रिविधं प्रतिसारणम्
अङ्गुल्यग्रगृहीतं च यथास्वं मुखरोगिणाम् ॥१८॥

दन्तमुखकण्ठरोगेषु प्रतिसारणचूर्णम्
कुष्ठं दार्वी समङ्गा च पाठा तिक्ता च पीतिका
तेजनी मुस्तलोध्रे च चूर्णं स्यात्प्रतिसारणम्
रक्तस्रुतिं दन्तपीडां शोथं दाहं च नाशयेत् ॥१९॥

गण्डूषादीनां हीनातियोगजा दोषाः
हीनयोगात्कफोत्क्लेशो रसाज्ञानारुची तथा
अतियोगान्मुखे पाकः शोषस्तृष्णा क्लमो भवेत् ॥२०॥

गण्डूषे शुद्धिलक्षणम्
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
इन्द्रि याणां प्रसादश्च गण्डूषे शुद्धिलक्षणम् ॥२१॥

इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे गण्डूषादिविधिर्नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP