उत्तरखण्डम् - एकादशोऽध्यायः
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
लेपस्य नामानि तद्भेदाश्च
आलेपस्य च नामानि लिप्तो लेपश्च लेपनम्
दोषघ्नो विषहा वर्ण्यो मुखलेपस्त्रिधा मतः ॥१॥
लेपस्य मात्रा
त्रिप्रमाणश्चतुर्भागस्त्रिभागोऽधाङ्गुलोन्नतः
आद्रो र्! व्याधिहरः स स्याच्छुष्को दूषयतिच्छविम् ॥२॥
शोथघ्नो लेपः
पुनर्नवा दारु शुण्ठीं सिद्धार्थं शिग्रुमेव च
पिष्ट्वा चैवारनालेन प्रलेपः सर्वशोथजित् ॥३॥
दाहनाशको लेपः
बिभीतफलमज्जाया लेपो दाहार्त्तिनाशनः ॥४॥
विसर्पशोथव्रणादौ दशाङ्गलेपः
शिरीषं मधुयष्टी च तगरं रक्तचन्दनम्
एला मांसी निशायुग्मं कुष्ठं बालकमेव च
इति संचूर्ण्य लेपोऽय पञ्चमांशघृतप्लुतः ॥५॥
जलेन क्रियते सुज्ञैर्दशाङ्ग इति संज्ञितः
विसर्पान्विषविस्फोटशोथान्दुष्टव्रणाञ्जयेत् ॥६॥
आरुष्करशोथघ्नो लेपः
अजादुग्धतिलैर्लेपो नवनीतेन संयुतः
शोथमारुष्करं हन्ति लेपो वा कृष्णमृत्तिकैः ॥७॥
कीटघ्नो लेपः
लाङ्गल्यतिविषाऽलाबुजालिनीमूलबीजकैः
लेपो धान्याम्बुसम्पिष्टः कीटविस्फोटनाशनः ॥८॥
मुखकान्तिकरो लेपः
रक्तचन्दनमञ्जिष्ठलोध्रकुष्ठप्रियङ्गवः
वटाङ्कुरा मसूराश्च व्यङ्गघ्ना मुखकान्तिदाः ॥९॥
मुखकान्तिकरं लेपान्तरम्
मातुलुङ्गजटा सर्पिः शिला गोशकृतो रसः
मुखकान्तिकरो लेपः पिटिकाव्यङ्गकालजित् ॥१०॥
तारुण्यपिटिकाऽपहा लेपा
लोध्रधान्यवचालेपस्तारुण्यपिटिकाऽपहः
तद्वद्गोरोचनायुक्तं मरिचं मुखलेपनम्
सिद्धार्थकवचालोध्रसैन्धवैश्च प्रलेपनम् ॥११॥
व्यङ्गहरा लेपाः
व्यङ्गेषु चार्जुनत्वग्वामञ्जिष्ठा वा समाक्षिका
लेपः सनवनीतो वा श्वेताश्वखुरजामषी ॥१२॥
मुखकार्ष्ण्ये लेपः
अर्कक्षीरहरिद्रा भ्यां मर्दयित्वा विलेपनात्
मुखकार्ष्ण्यं शमं याति चिरकालोद्भवं ध्रुवम् ॥१३॥
तत्रैव लेपान्तरम्
वटस्य पाण्डुपत्राणि मालती रक्तचन्दनम् ॥१४॥
कुष्ठं कालीयकं लोध्रमेभिर्लेपं प्रयोजयेत्
तारुण्यपिटिकाव्यङ्गनीलिकादिविनाशनम् ॥१५॥
अरुंषिकायां लेपः
पुराणमथ पिण्याकं पुरीषं कुक्कुटस्य च
मूत्रपिष्टः प्रलेपोऽय शीघ्रं हन्यादरुंषिकाम् ॥१६॥
तत्रैव लेपान्तरम्
खदिरारिष्टजम्बूनां त्वग्भिर्वा मूत्रसंयुतैः
कुटजत्वक्सैन्धवं च लेपो हन्यादरुंषिकाम् ॥१७॥
दारुणके लेपः
प्रियाल बीजमधुककुष्ठमाषैः ससैन्धवैः
कार्यो दारुणके मूर्ध्नि प्रलेपो मधुसंयुतः ॥१८॥
तत्रैवान्यल्लेपद्वयम्
दुग्धेन खाखसं बीजं प्रलेपाद्दारुणं जयेत्
आम्रबीजस्य चूर्णं तु शिवाचूर्णसमं द्वयम्
दुग्धपिष्टः प्रलेपोऽय दारुणं हन्ति दारुणम् ॥१९॥
इन्द्र लुप्ते लेपः
रसस्तिक्तपटोलस्य पत्राणां तद्विलेपनात्
इन्द्र लुप्तं शमं याति त्रिभिरेव दिनैर्ध्रुवम् ॥२०॥
अत्रैवान्येऽपि लेपाः
इन्द्र लुप्तापहो लेपो मधुना बृहतीरसः
गुञ्जामूलं फलं वाऽपि भल्लातकरसोऽपि वा ॥२१॥
केशवर्द्धको लेपः
गोक्षुरस्तिलपुष्पाणि तुल्ये च मधुसर्पिषी
शिरः प्रलेपनं तेन केशसंवर्धनं परम् ॥२२॥
रोमोत्पादको लेपः
हस्तिदन्तमषीं कृत्वा छागीदुग्धं रसाञ्जनम्
रोमाण्यनेन जायन्ते लेपात्पाणितलेष्वपि ॥२३॥
इन्द्र लुप्तघ्नोऽन्यो लेपः
यष्टीन्दीवरमृद्वीकातैलाज्यक्षीरलेपनैः
इन्द्र लुप्तं शमं याति केशाः स्युः सघना दृढाः ॥२४॥
केशवर्द्धकोऽन्यो लेपः
चतुष्पदानां त्वग्रोमनखशृङ्गास्थिभस्मभिः
तैलेन सह लेपोऽय रोमसंजननः परः ॥२५॥
केशकृष्णीकरणलेपः
इन्द्र वारुणिकाबीजतैलेनाभ्यङ्गमाचरेत्
प्रत्यहं तेन जायन्ते कुन्तला भृङ्गसन्निभाः ॥२६॥
पलितघ्नो लेपः
अयोरजो भृङ्गराजस्त्रिफला कृष्णमृत्तिका
स्थितमिक्षुरसे मासं लेपनात्पलितं जयेत् ॥२७॥
अन्यो लेपः
धात्रीफलत्रयं पथ्ये द्वे तथैकं बिभीतकम्
पञ्चाम्रमज्जा लोहस्य कर्षैकं च प्रदीयते ॥२८॥
पिष्ट्वा लोहमये भाण्डे स्थापयेदुषितं निशि
लेपोऽय हन्ति न चिरादकालपलितं महत् ॥२९॥
अन्यः केशकृष्णीकरणलेपः
त्रिफला नीलिकापत्रं लोहं भृङ्गरजः समम्
अविमूत्रेण सम्पिष्टं लेपात्कृष्णीकरं स्मृतम् ॥३०॥
पलितनाशककल्पविधिः
त्रिफला लोहचूर्णं च दाडिमत्वग्बिसं तथा
प्रत्येकं पञ्चपलिकं चूर्णं कुर्याद्विचक्षणः ॥३१॥
भृङ्गराजरसस्यापि प्रस्थषट्कं प्रदापयेत्
क्षिप्त्वा लोहमये पात्रे भूमिमध्ये निधापयेत् ॥३२॥
मासमेकं ततः कुर्याच्छागीदुग्धेन लेपनम्
कूर्चे शिरसि रात्रौ च संवेष्ट्यैरण्डपत्रकैः ॥३३॥
स्वपेत्प्रातस्ततः कुर्यात्स्नानं तेन च जायते
पलितस्य विनाशश्च त्रिभिर्लेपैर्न संशयः ॥३४॥
केशनाशको लेपः
शङ्खचूर्णस्य भागौ द्वौ हरितालं च भागिकम् ॥३५॥
मनः शिला चार्धभागा स्वर्जिका चैकभागिका
लेपोऽय वारिपिष्टस्तु केशानुत्पाट्य दीयते ॥३६॥
अनया लेपयुक्त्या च सप्तवेलं प्रयुक्तया
निर्मूलं केशस्थानं स्यात्क्षपणस्य शिरो यथा ॥३७॥
अन्यो लेपः
तालकं शाणयुग्मं स्यात्षट् शाणं शङ्खचूर्णकम्
द्विशाणिकं पलाशस्य क्षारं दत्त्वा प्रमर्दयेत् ॥३८॥
कदलीदण्डतोयेन रविपत्ररसेन वा
अस्यापि सप्तभिर्लेपै रोम्णां शातनमुत्तमम् ॥३९॥
श्वित्रनाशको लेपः
सुवर्णपुष्पी कासीसं विडङ्गानि मनः शिला
रोचना सैन्धवं चैव लेपनाच्छिवत्रनाशनम् ॥४०॥
अन्योः लेपः
वायस्येडगजाकुष्ठकृष्णाभिर्गुटिका कृता
बस्तमूत्रेण सम्पिष्टा प्रलेपाच्छिवत्रनाशिनी ॥४१॥
लेपान्तरम्
तालकं शाणमात्रं स्याच्चतुःशाणा च वाकुची
गोमूत्रपिष्टं तच्चूर्णं लेपनाच्छिक्त्रनाशनम् ॥४२॥
सर्वश्वित्रहरलेपः
वाकुची वेतसो लाक्षा काकोदुम्बरिका कणा
रसाञ्जनमयश्चूर्णं तिलाः कृष्णास्तदेकतः ॥४३॥
चूर्णयित्वा गवां पित्तैः पिष्ट्वा च गुटिका कृता
अस्याः प्रलेपाच्छिवत्राणि प्रणश्यन्त्यतिवेगतः ॥४४॥
सिध्महरो लेपः
धात्री सर्जरसश्चैव यवक्षारश्च चूर्णितः
सौवीरेण प्रलेपोऽय प्रयोज्यः सिध्मनाशने ॥४५॥
अन्यो लेपः
दार्वी मूलकबीजानि तालकं सुरदारु च
ताम्बूलपत्रं सर्वाणि कार्षिकाणि पृथक्पृथक् ॥४६॥
शङ्खचूर्णं शाणमात्रं सर्वाण्येकत्र कारयेत्
लेपोऽय वारिणा पिष्टः सिध्मनां नाशनः परः ॥४७॥
नेत्ररोगहरो लेपः
हरीतकी सैन्धवं च गैरिकं च रसाञ्जनम्
विडालको जले पिष्टः सर्वनेत्रामयापहः ॥४८॥
अन्यो लेपः
रसाञ्जनं व्योषयुतं सम्पिष्टं वटकीकृतम्
कण्डूं पाकान्वितां हन्ति लेपादञ्जननामिकाम् ॥४९॥
दद्रू कण्ड्वादौ लेपः
प्रपुन्नाटस्य बीजानि वाकुची सर्षपास्तिलाः
कुष्ठं निशाद्वयं मुस्तं पिष्ट्वा तक्रेण चैकतः
प्रलेपादस्य नश्यन्ति दद्रू कण्डूविचर्चिकाः ॥५०॥
पामादिषु लेपः
हेमक्षीरी विडङ्गानि दरदं गन्धकस्तथा
दद्रू घ्नः कुष्ठसिन्दूरे सर्वाण्येकत्र मर्दयेत् ॥५१॥
धत्तूरनिम्बताम्बूलीपत्राणां स्वरसैः पृथक्
अस्य प्रलेपमात्रेण पामादद्रू विर्चिकाः ॥५२॥
कण्डूश्च रकसश्चैव प्रशमं यान्ति वेगतः ॥५३॥
कण्डूपामादिष्वन्यो लेपः
दूर्वाऽभया सैन्धवं च चक्रमर्दः कुठेरकः
एभिस्तक्रयुतो लेपः कण्डूपामाविनाशनः ॥५४॥
तत्रैवान्यो लेपः
दूर्वानिशायुतो लेपः कण्डूपामाविनाशनः
कृमिदद्रुहरश्चैव शीतपित्तापहः स्मृतः ॥५५॥
दद्रू घ्नो लेपः
सिद्धार्थरजनीकुष्ठप्रपुन्नाटतिलैः सह
कटुतैलेन संमिश्रं दद्रू घ्नं च प्रलेपनम् ॥५६॥
वातविसर्पहा लेपः
रास्ना नीलोत्पलं दारु चन्दनं मधुकं बला
घृतक्षीरयुतो लेपो वातवीसर्पनाशनः ॥५७॥
पित्तविसर्पहा लेपः
मृणालं चन्दनं लोध्रमुशीरं कमलोत्पलम्
सारिवामलकी पथ्या लेपः पित्तविसर्पनुत् ॥५८॥
कफविसर्पघ्नो लेपः
त्रिफला पद्मकोशीरं समङ्गा करवीरकम्
नलमूलमनन्ता च लेपः श्लेष्मविसर्पहा ॥५९॥
पित्तवातरक्तघ्नो लेपः
मांसी सर्जरसो लोध्रं मधुकं सहरेणुकम्
मूर्वा नीलोत्पलं पद्मं शिरीषकुसुमैः सह
प्रलेपः पित्तवातास्रे शतधौतघृतप्लुतः ॥६०॥
नासासृतरक्तहरो लेपः
आमलं घृतभृष्टं तु पिष्टं काञ्जिकवारिभिः
जयेन्मूर्ध्नि प्रलेपेन रक्तं नासिकया सृतम् ॥६१॥
वातजशिरःपीडाहरो लेपः
कुष्ठमेरण्डतैलेन लेपात्काञ्जिकपेषितम्
शिरोऽत्ति वातजां हन्यात्पुष्पं वा मुचुकुन्दजम् ॥६२॥
अन्यो लेपः
देवदारुं नतं कुष्ठं नलदं विश्वभेषजम्
सकाञ्जिकः स्नेहयुक्तो लेपो वातशिरोऽत्तिनुत् ॥६३॥
रक्तपित्तजशिरःपीडाहरो लेपः
चन्दनोशीरयष्ट्याह्वबलाव्याघ्रनखोत्पलैः
क्षीरपिष्टैः प्रलेपः स्याद्र क्तपित्तशिरोऽत्तिजित् ॥६४॥
रक्तपित्तहरो लेपः
धात्रीकसेरुह्रीबेरपद्मपद्मकचन्दनैः
दूर्वोशीरनलानां च मूलैः कुर्यात्प्रलेपनम् ॥६५॥
शिरोऽत्ति पित्तजां हन्याद्र क्तपित्तरुजं तथा ॥६६॥
कफजशिरःपीडाहरो लेपः
हरेणुनतशैलेयमुस्तैलागरुदारुभिः
मांसीरास्नारुबूकश्च कोष्णो लेपः कफार्त्तिनुत् ॥६७॥
अन्यो लेपः
शुण्ठीकुष्ठप्रपुन्नाटदेवकाष्ठैः सरोहिषैः
मूत्रपिष्टैः सुखोष्णैश्च लेपः श्लेष्मशिरोऽत्तिनुत् ॥६८॥
सूर्यावर्त्तार्धावभेदकयोर्लेपः
सारिवाकुष्ठमधुकवचाकृष्णोत्पलैस्तथा
लेपः सकाञ्जिकस्नेहः सूर्यावर्त्तार्धभेदयोः ॥६९॥
सर्वशिरःपीडाहरो लेपः
वरी नीलोत्पलं दूर्वा तिलाः कृष्णा पुनर्नवा
शङ्खकेऽनन्तवाते च लेपः सर्वशिरोऽत्तिजित् ॥७०॥
लेपस्य भेदद्वयम्
अथ लेपविधिश्चान्यः प्रोच्यते सुज्ञसम्मतः
द्वौ तस्य कथितौ भेदौ प्रलेपाख्यप्रदेहकौ ॥७१॥
तयोर्लक्षणम्
चर्माद्र रं! माहिषं यद्वत्प्रोन्नतं सा मितिस्तयोः
शीतस्तनुर्विशोषी च प्रलेपः परिकीर्त्तितः
आद्रो र्! घनस्तथोष्णः स्यात्प्रदेहः श्लेष्मवातहा ॥७२॥
लेपविधिः
रोमाभिमुखमादेयौ प्रलेपाख्यप्रदेहकौ
वीर्यं सम्यग्विशत्याशु रोमकूपैः शिरामुखैः ॥७३॥
रात्रौ लेपनिषिद्धता
न रात्रौ लेपनं कुर्याच्छुष्यमाणं न धारयेत्
शुष्यमाणमुपेक्षेत प्रदेहं पीडनं प्रति ॥७४॥
रात्रिलेपनिषेधे हेतुः
तमसा पिहतो ह्यूष्मा रोमकूपमुखे स्थितः
विना लेपेन निर्याति रात्रौ नो लेपयेदतः ॥७५॥
रोगविशेषे रात्रौ लेपाज्ञा
रात्रावपि प्रलेपादिविधिः कार्यो विचक्षणैः
अपक्वशोथे गम्भीरे रक्तश्लेष्मसमुद्भवे ॥७६॥
व्रणविषये लेपक्रमनिर्देशः
आदौ शोथहरो लेपो द्वितीयो रक्तसेचनः
तृतीयश्चोपनाहः स्याच्चतुर्थः पाटनक्रमः ॥७७॥
पञ्चमः शोधनो भूयात्षष्ठो रोपण इष्यते
सप्तमो वर्णकरणो व्रणस्यैते क्रमा मताः ॥७८॥
वातजव्रणशोथहरो लेपः
बीजपूरजटा हिंस्रा देवदारु महौषधम्
रास्नाऽग्निमन्थो लेपोऽय वातशोथविनाशनः ॥७९॥
पित्तजव्रणशोथघ्नो लेपः
मधुकं चन्दनं मूर्वा नलमूलं च पद्मकम्
उशीरं बालकं पद्मं पित्तशोथे प्रलेपनम् ॥८०॥
कफजव्रणशोथघ्नो लेपः
कृष्णा पुराणपिण्याकं शिग्रुत्वक्सिकता शिवा
मूत्रपिष्टः सुखोष्णोऽय प्रदेहः श्लेष्मशोथहा ॥८१॥
आगन्तुकरक्तजव्रणशोथघ्नो लेपः
द्वे निशे चन्दने द्वे च शिवा दूर्वा पुनर्नवा ॥८२॥
उशीरं पद्मकं लोध्रं गैरिकं च रसाञ्जनम्
आगन्तुके रक्तजे च शोथे कुर्यात्प्रलेपनम् ॥८३॥
व्रणपाचको लेपः
शणमूलकशिग्रूणां फलानि तिलसर्षपाः
सवचः किण्वमतसी प्रदेहः पाचनः स्मृतः ॥८४॥
व्रणदारणे लेपाः
तत्र दन्त्यादिलेपः
दन्ती चित्रकमूलत्वक्स्नुह्यर्कपयसी गुडः
भल्लातकास्थिकासीसं सैन्धवं दारणः स्मृतः ॥८५॥
चिरबिल्वादिलेपः
चिरबिल्वोऽग्निको दन्ती चित्रको हयमारकः
कपोतकङ्कगृध्राणां मलं लेपेन दारणम् ॥८६॥
स्वर्जिकादिहेमक्षीरीलेपौ
स्वर्जिकायावशूकाद्याः क्षारा लेपेन दारणाः
हेमक्षीर्यास्तथा लेपो व्रणे परमदारणः ॥८७॥
व्रणशोधनरोपणो लेपः
तिलसैन्धवयष्ट्याह्वनिम्बपत्रनिशायुगैः
त्रिवृद्घृतयुतैः पिष्टैः प्रलेपो व्रणशोधनः ॥८८॥
व्रणशोधनरोपणो लेपः
निम्बपत्रघृतक्षौद्र दार्वीमधुकसंयुतः
तिलैश्च सह संयुक्तो लेपः शोधनरोपणः ॥८९॥
व्रणकृमिघ्नो लेपः
करञ्जारिष्टनिर्गुण्डीलेपो हन्याद् व्रणकृमीन्
लशुनस्याथवा लेपो हिङ्गुनिम्बभवोऽथवा ॥९०॥
दुष्टव्रणप्रशमनो लेपः
निम्बपत्रं तिला दन्ती त्रिवृत्सैन्धवमाक्षिकम्
द्रुष्टव्रणप्रशमनो लेपः शोधनरोपणः ॥९१॥
अन्तर्विद्र धिजशूलघ्नो लेपः
मदनस्य फलं तिक्तां पिष्ट्वा काञ्जिकवारिणा
कोष्णं कुर्यान्नाभिलेपं शूलशान्तिर्भवेत्ततः ॥९२॥
वातविद्र धिहरो लेपः
शिग्रुशेफालिकैरण्डयवगोधूममुद्गकैः
सुखोष्णो बहलो लेपः प्रयोज्यो वातविद्र धौ ॥९३॥
पित्तविद्र धिहरो लेपः
पैत्तिके सर्पिषा लाजामधुकैः शर्कराऽन्वितैः
प्रलिम्पेत्क्षीरपिष्टैर्वा पयस्योशीरचन्दनैः ॥९४॥
कफविद्र धिहरो लेपः
इष्टिका सिकता लोहकिट्टं गोशकृता सह
सुखोष्णश्च प्रदेहोऽय मूत्रैः स्याच्छ्लेष्मविद्र धौ ॥९५॥
आगन्तुकविद्र धिहरो लेपः
रक्तचन्दनमञ्जिष्ठानिशामधुकगैरिकैः
क्षीरेण विद्र धौ लेपो रक्तागन्तुनिमित्तजे ॥९६॥
वातजगलगण्डहरो लेपः
निचुलः शिग्रुबीजानि दशमूलमथापि वा
प्रदेहो वातगण्डेषु सुखोष्णः सम्प्रदीयते ॥९७॥
कफजगलगण्डहरो लेपः
देवदारु विशाला च कफगण्डे प्रदेहकः ॥९८॥
अपचीनाशको लेपः
सर्षपारिष्टपत्राणि दग्ध्वा भल्लातकैः सह
छागमूत्रेण संपिष्टमपचीघ्नं प्रलेपनम् ॥९९॥
गण्डमालादिषु लेपः
सर्षपाः शिग्रुबीजानि शणबीजातसीयवाः
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत्
गण्डमालाऽबुदं गण्डं लेपेनानेन शाम्यति ॥१००॥
गृधस्यादिषु लेपः
तक्षयित्वा क्षुरेणाङ्गं केवलानिलपीडितम्
तत्र प्रदेहं दद्याच्च पिष्टं गुञ्जाफलैः कृतम् ॥१०१॥
तेनापबाहुजा पीडा विश्वाची गृध्रसी तथा
अन्याऽपि वातजा पीडा प्रशमं याति वेगतः ॥१०२॥
श्लीपदरोगहरो लेपः
धत्तूरैरण्डनिर्गुण्डीवर्षाभूशिग्रुसर्षपैः
प्रलेपः श्लीपदं हन्ति चिरोत्थमपि दारुणम् ॥१०३॥
कुरण्डघ्नो लेपः
आजाजीहपुषाकुष्ठमेरण्डबदरान्वितम्
काञ्जिकेन तु संपिष्टं कुरण्डघ्नं प्रलेपनम् ॥१०४॥
उपदंशे लेपः
करवीरस्य मूलेन परिपिष्टेन वारिणा
असाध्याऽपि व्रजत्यस्तं लिङ्गोत्था रुक्प्रलेपनात् ॥१०५॥
तत्रान्यो लेपः
दहेत्कटाहे त्रिफलां सा मषी मधुसंयुता
उपदंशे प्रलेपोऽय सद्यो रोपयति व्रणम् ॥१०६॥
अन्यो लेपः
रसाञ्जनं शिरीषेण पथ्यया च समन्वितम्
सक्षौद्रं लेपनं योज्यमुपदंशगदापहम् ॥१०७॥
अग्निदग्धे लेपाः
अग्निदग्धे तुगाक्षीरीप्लक्षचन्दनगैरिकैः
सामृतैः सर्पिषा स्निग्धैरालेपं कारयेद्भिषक् ॥१०८॥
तिन्दुकीत्वक्कषायैर्वा घृतमिश्रः प्रलेपयेत्
यवान्दग्ध्वा मषी कार्या तैलेन युतया तथा
दद्यात्सर्वाग्निदग्धेषु प्रलेपो व्रणरोपणः ॥१०९॥
योनिसङ्कोचको लेपः
पलाशोदुम्बरफलैस्तिलतैलसमन्वितैः
मधुना योनिमालिम्पेद् गाढीकरणमुत्तमम् ॥११०॥
तत्रैवान्यो लेपः
माकन्दफलसंयुक्तमधुकर्पूरलेपनात्
गतेऽपि यौवने स्त्रीणां योनिर्गाढाऽतिजायते ॥१११॥
लिङ्गस्तनादिवृद्धौ लेपः
मरिचं सैन्धवं कृष्णा तगरं बृहतीफलम् ॥११२॥
अपामार्गस्तिलाः कुष्ठं यवा माषाश्च सर्षपाः
अश्वगन्धा च तच्चूर्णं मधुना सह योजयेत् ॥११३॥
अस्य सन्ततलेपेन मर्दनाच्च प्रजायते
लिङ्गवृद्धिः स्तनोत्सेधः संहतिर्भुजकर्णयोः ॥११४॥
लिङ्गवृद्धिकरो लेपः
सिताऽश्वगन्धासिन्धूत्थछागक्षीरैर्घृतं पचेत्
तल्लेपान्मर्दनाल्लिङ्गवृद्धिः सञ्जायते परा ॥११५॥
योनिद्रा वकरो लेपः
इन्द्र वारुणिकापत्ररसैः सूतं विमर्दयेत्
रक्तस्य करवीरस्य काष्ठेन च मुहुर्मुहुः
तल्लिप्तलिङ्गसंयोगाद्योनिद्रा वोऽभिजायते ॥११६॥
गात्रदुर्गन्धहरो लेपः
ताम्बूलपत्रचूर्णं तु चूर्णं कुष्ठशिवाभवम्
वारिणा लेपनं कुर्याद् गात्रदौर्गन्ध्यनाशनम् ॥११७॥
स्वेददौर्गन्ध्यहरो लेपः
कुलित्थसक्तवः कुष्ठं मांसी चन्दनजं रजः ॥११८॥
सक्तवश्चणकस्यैव त्वक्चैवैकत्र कारयेत्
स्वेददौर्गन्ध्यनाशश्च जायतेऽस्यावधूलनात् ॥११९॥
वशीकरणलेपः
वचा सौवर्चलं कुष्ठं रजन्यौ मरिचानि च
एतल्लेपप्रभावेण वशीकरणमुत्तमम् ॥१२०॥
अथ मूर्धतैलविधिः
तत्र मूर्धतैलभेदाः
अभ्यङ्गः परिषेकश्च पिचुर्बस्तिरिति क्रमात्
मूर्धतैलं चतुर्धा स्याद्बलवच्च यथोत्तरम् ॥१२१॥
केवलशिरोबस्तिविधिकथने हेतुनिर्देशः
त्रयोऽभ्यङ्गादयः पूर्वे प्रसिद्धाःसर्वतःस्मृताः
शिरोबस्तिविधिश्चात्र प्रोच्यतेसुज्ञसंमतः ॥१२२॥
अथ शिरोबस्तिविधिः
शिरोबस्तिश्चर्मणःस्याद् द्विमुखो द्वादशाङ्गुलः
शिरः प्रमाणं तं बद्ध्वा मस्तके माषपिष्टकैः
सन्धिरोधं विधायादौ स्नेहैः कोष्णैः प्रपूरयेत् ॥१२३॥
तत्र शिरोबस्तिधारणकालविधिनिर्देशः
तावद्धार्यस्तु यावत्स्यान्नासानेत्रमुखस्रुतिः
वेदनोपशमोवाऽपि मात्राणां वा सहस्रकम् ॥१२४॥
शिरोबस्तिप्रयोगकालविधिनिर्देशः
विना भोजनमेवात्र शिरोबस्तिः प्रशस्यते
प्रयोज्यस्तु शिरोबस्तिः पञ्चसप्ताहमेव वा ॥१२५॥
शिरोबस्त्युत्तराङ्गकृत्यम्
विमोच्य शिरसोबस्तिं गृह्णीयाच्च समन्ततः
उर्ध्वकायं ततः कोष्णनीरैः स्नानं च कारयेत् ॥१२६॥
शिरोबस्तिगुणाः
अनेन दुर्जया रोगा वातजा यान्ति सङ्क्षयम्
शिरः कम्पादयस्तेन सर्वकालेषु युज्यते ॥१२७॥
कर्णपूरणविधिः
स्वेदयेत्कर्णदेशं तु किञ्चिन्नुः पार्श्वशायिनः
मूत्रैः स्नेहै रसैः कोष्णैस्ततः श्रोत्रं प्रपूरयेत् ॥१२८॥
कर्णस्थौषधधारणकालावधिः
कर्णं च पूरितं रक्षेच्छतं पञ्चशतानि वा
सहस्रं वाऽपि मात्राणां श्रोत्रकण्ठशिरोगदे ॥१२९॥
मात्रालक्षणम्
स्वजानुनः करावर्त्तं कुर्याच्छोटिकया युतम्
एषा मात्रा भवेदेका सर्वत्रैवैष निश्चयः ॥१३०॥
रसाद्यनुसारेण कर्णपूरणसमयभेदः
रसाद्यैः पूरणं कर्णे भोजनात्प्राक्प्रशस्यते
तैलाद्यैः पूरणं कर्णे भास्करेऽस्तमुपागते ॥१३१॥
कर्णशूलहरो रसः
पीतार्कपत्रमाज्येन लिप्तं वह्नौ प्रतापयेत्
तद्र सः श्रवणे क्षिप्तः कर्णशूलहरः परः ॥१३२॥
कर्णशूले बस्तमूत्रप्रयोगः
कर्णशूलातुरे कोष्णं बस्तमूत्रं ससैन्धवम्
निःक्षिपेत्तेन शाम्यन्ति शूलपाकादिका रुजः ॥१३३॥
कर्णशूलेऽन्ये प्रयोगाः
शृङ्गबेरं च मधुकं मधु सैन्धवमामलम् ॥१३४॥
तिलपर्णीरसस्तैलं टङ्कणं निम्बुकद्र वम्
कदुष्णं कर्णयोर्देयमेतद्वा वेदनाऽपहम् ॥१३५॥
तत्रैव प्रयोगान्तरम्
कपित्थमातुलुङ्गाम्लशृबेररसैः शुभैः
सुखोष्णैः पूरयेत्कर्णं कर्णशूलोपशान्तये ॥१३६॥
तत्रैवार्काङ्कुरप्रयोगः
अर्काङ्कुरानम्लपिष्टांस्तैलाक्तांल्लवणान्वितान्
सन्निदध्यात्स्नुहीकाण्डे कोरितेतच्छदावृते ॥१३७॥
पुटपाकक्रमं कृत्वा रसैस्तच्च प्रपूरयेत्
सुखोष्णैस्तेन शाम्यन्ति कर्णपीडाः सुदारुणाः ॥१३८॥
तत्रैव दीपिकातैलम्
महतः पञ्चमूलस्य काण्डान्यष्टाङ्गुलानि च
क्षौमेणावेष्ट्य संसिच्य तैलेनादीपयेत्ततः ॥१३९॥
यत्तैलं च्यवते तेभ्यः सुखोष्णं तेन पूरयेत्
ज्ञेयं तद्दीपिकातैलंसद्यो गृह्णातिवेदनाम्
एवं स्याद्दीपिकातैलं कुष्ठे देवतरौ तथा ॥१४०॥
तत्रैव स्योनाकतैलम्
तैलं स्योनाकमूलेन मन्देऽग्नौ परिपाचितम्
हरेदाशु त्रिदोषोत्थं कर्णशूलं प्रपूरणात् ॥१४१॥
कर्णनादे यष्टीवसा
कल्कक्वाथेन यष्ट्याह्वकाकोलीमाषधान्यकैः
सूकरस्य वसां पक्त्वा कर्णनादार्त्तिनाशिनी ॥१४२॥
कर्णरोगे स्वर्जिकादितैलम्
स्वर्जिका मूलकं शुष्कं हिङ्गु कृष्णासमन्वितम् ॥१४३॥
शतपुष्पा च तैस्तैलं पक्वं शुक्तचतुर्गुणम्
प्रणादं शूलबाधिर्यं स्रावं कर्णस्य नाशयेत् ॥१४४॥
बाधिर्येऽपामार्गक्षारतैलम्
अपामार्गक्षारजले तत्क्षारं कल्कितं क्षिपेत्
तेन पक्वं जयेत्तैलं बाधिर्यं कर्णनादकम् ॥१४५॥
कर्णनाड्यां शम्बूकतैलम्
शम्बूकस्य तु मांसेन पचेत्तैलं तु सार्षपम्
तस्य पूरणमात्रेण कर्णनाडी प्रशाम्यति ॥१४६॥
कर्णस्रावनाशको योगः
चूर्णं पञ्चकषायाणां कपित्थरसमेव च
कर्णस्रावे प्रशंसन्ति पूरणं मधुना सह ॥१४७॥
पञ्च कषायाः
तिन्दुकान्यभया लोध्रः समङ्गा चामलक्यपि
ज्ञेयाः पञ्च कषायास्तु कर्मण्यस्मिन्भिषग्वरैः ॥१४८॥
कर्णस्रावादौ स्वर्जिकादियोगः
स्वर्जिकाचूर्णसंयुक्तं बीजपूररसं क्षिपेत्
कर्णस्रावरुजा दाहाः प्रणश्यन्ति न संशयः ॥१४९॥
पूतिकर्णे आम्रादितैलम्
आम्रजम्बूप्रवालानि मधूकस्य वटस्य च
एभिः संसाधितं तैलं पूतिकर्णोपशान्तिकृत् ॥१५०॥
कर्णकीटनाशकौ योगौ
पूरणं हरितालेन गवां मूत्रयुतेन च
अथवा सार्षपं तैलं कर्णकीटहरं परम् ॥१५१॥
कर्णकीटेऽन्यो योगः
स्वरसं शिग्रुमूलस्य सूर्यावर्त्तरसं तथा
त्र्! यूषणं चूर्णितं चैव कपिकच्छूजटारसम्
कृत्वैकत्र क्षिपेत्कर्णे कर्णकीटहरं परम् ॥१५२॥
अन्यौ योगौ
सद्यो मद्यं निहन्त्याशु कर्णकीटं सुदारुणम्
सद्यो हिङ्गुनिहन्त्याशु कर्णकीटं सुदारुणम्
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे लेपमूर्धतैलकर्णपूरणविधिर्नामैकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : March 14, 2021
TOP