उत्तरखण्डम् - चतुर्थोऽध्यायः
संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.
तत्र विरेचनविषयः
स्निग्ध स्विन्नस्य वान्तस्य दद्यात्सम्यग्विरेचनम् ॥१॥
वमनरहिते विरेचनदोषाः
अवान्तस्य त्वधःस्रस्तो ग्रहणीं छादयेत्कफः
मन्दाग्निं गौरवं कुर्याज्जनयेद्वा प्रवाहिकाम् ॥२॥
अथवा पाचनैरामं बलासं च विपाचयेत्
स्निग्धस्य स्नेहनैः कार्यं स्वेदैः स्विन्नस्य रेचनम् ॥३॥
विरेचनकालः
शरदृतौ वसन्ते च देहशुद्ध्यै विरेचयेत्
अन्यदात्ययिके काले शोधनं शीलयेद् बुधः ॥४॥
दोषनाशे विरेचनस्य श्रेष्ठता
दोषाः कदाचित्कुप्यन्ति जिता लङ्घनपाचनैः
ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः ॥५॥
विरेचनार्हा रोगाः
पित्ते विरेचनं युञ्ज्यादामोद्भूते गदे तथा
उदरे च तथाऽध्माने कोष्ठशुद्ध्यै विशेषतः ॥६॥
विरेचनानर्हा जनाः
बालवृद्धावतिस्निग्धः क्षतक्षीणो भयान्वितः
श्रान्तस्तृषार्त्तः स्थूलश्च गर्भिणी च नवज्वरी ॥७॥
नवप्रसूता नारी च मन्दाग्निश्च मदात्ययी
शल्यार्दितश्चरूक्षश्च न विरेच्या विजानता ॥८॥
विरेचनार्हा जनाः
जीर्णज्वरी गरव्याप्तो वातरक्ती भगन्दरी
अर्शःपाण्डूदरग्रन्थिहृद्रो गारुचिपीडिताः
योनिरोगप्रमेहार्त्ता गुल्मप्लीहव्रणार्दिताः ॥९॥
विद्र धिच्छर्दिविस्फोटविषूचीकुष्ठसंयुताः
कर्णनासाशिरोवक्त्रगुदमेढ्रामयान्विताः ॥१०॥
प्लीहशोथाक्षिरोगार्त्ताः कृमिक्षीणानिलार्दिताः
शूलिनो मूत्रघातार्त्ता विरेकार्हा नरा मताः ॥११॥
विरेचनार्थे कोष्ठभेदाः
बहुपित्तो मृदुः कोष्ठो बहुश्लेष्मा च मध्यमः
बहुवातः क्रूरकोष्ठो दुर्वि रेच्यः स कथ्यते ॥१२॥
कोष्ठानुरूपविरेचनमात्रानिर्देशः
मृद्वी मात्रा मृदौ कोष्ठे मध्यकोष्ठे च मध्यमा
क्रूरे तीक्ष्णा मता द्र व्यैर्मृदुमध्यमतीक्ष्णकैः ॥१३॥
मृद्वादिविरेचनद्र व्यनिर्देशः
मृदुद्रा र्क्षा!पयश्चञ्चुतैलैरपि विरिच्यते
मध्यमस्त्रिवृतातिक्ताराजवृक्षैर्विरिच्यते
क्रूरः स्नुक्पयसा हेमक्षीरदन्तीफलादिभिः ॥१४॥
विरेचनसंख्याऽनुसारेण मात्राया उत्तमत्वादिनिर्देशः
मात्रोत्तमा विरेकस्य त्रिंशद्वेगैः कफान्तिका
वेगैर्विंशतिभिर्मध्या हीनोक्ता दशवेगिका ॥१५॥
विरेके कषायादीनां मात्रानिर्देशः
द्विपलं श्रेष्ठमाख्यातं मध्यमं च पलं भवेत्
पलार्धे च कषायाणां कनीयस्तु विरेचनम् ॥१६॥
कल्कमोदकचूर्णानां कर्षं मध्वाज्यलेहतः
कर्षद्वयं पलं वाऽपि वयोरोगाद्यपेक्षया ॥१७॥
कोष्ठानुसारेण विरेकौषधव्यवस्था
पित्तोत्तरे त्रिवृच्चूर्णं द्रा क्षाक्वाथादिभिः पिबेत्
त्रिफलाक्वाथगोमूत्रैः पिबेद् व्योषं कफार्दितः ॥१८॥
त्रिवृत्सैन्धवशुण्ठीनां चूर्णमम्लैः पिबेन्नरः
वातार्दितो विरेकाय जाङ्गलानां रसेन वा ॥१९॥
एरण्डतैलप्रयोगः
एरण्डतैलं त्रिफलाक्वाथेन द्विगुणेन च
युक्तं पीतं पयोभिर्वा न चिरेण विरिच्यते ॥२०॥
वर्षादिषडृतुषु क्रमेण षड् विरेचनयोगाः
त्रिवृता कौटजं बीजं पिप्पली विश्वभेषजम् ॥२१॥
समृद्वीकारसक्षौद्रं वर्षाकाले विरेचनम्
त्रिवृद्दुरालभामुस्ताशर्करोदीच्यचन्दनम् ॥२२॥
द्रा क्षाऽम्बुना सयष्टीकं शीतलं च घनात्यये
त्रिवृतां चित्रकं पाठामजाजीं सरलां वचाम् ॥२३॥
हेमक्षीरीं च हेमन्ते चूर्णमुष्णाम्बुना पिबेत्
पिप्पली नागरं सिन्धु श्यामा त्रिवृतया सह ॥२४॥
लिहेत्क्षौद्रे ण शिशिरे वसन्ते च विरेचनम्
त्रिवृता शर्करा तुल्या ग्रीष्मकाले विरेचनम् ॥२५॥
सर्वर्त्तुयोग्यो विरेचनयोगः
त्रिवृतां हपुषां दन्तीं सप्तलां कटुरोहिणीम्
स्वर्णक्षीरीं च सञ्चूर्ण्य गोमूत्रे भावयेत् त्र्! यहम्
एष सर्वर्त्तुको योगः स्निग्धानां मलदोषहा ॥२६॥
अभयादिमोदकः
अभया मरिचं शुण्ठीविडङ्गामलकानि च ॥२७॥
पिप्पली पिप्पलीमूलं त्वक्पत्रं मुस्तमेव च
एतानि समभागानि दन्ती च द्विगुणा भवेत् ॥२८॥
त्रिवृदष्टगुणा ज्ञेया षड्गुणा चात्र शर्करा
मधुना मोदकान्कृत्वा कर्षमात्रप्रमाणतः ॥२९॥
एकैकं भक्षयेत्प्रातः शीतं चानुपिबेज्जलम्
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ॥३०॥
पानाहारविहारेषु भवेन्निर्यन्त्रणः सदा
विषमज्वरमन्दाग्निपाण्डुकासभगन्दरान् ॥३१॥
दुर्नामकुष्ठगुल्मार्शोगलगण्डभ्रमोदरान्
विदाहप्लीहमेहांश्च यक्ष्माणं नयनामयान् ॥३२॥
वातरोगांस्तथाध्मानं मूत्रकृच्छ्राणि चाश्मरीम्
पृष्ठपार्श्वोरुजघनजङ्घोदररुजं जयेत् ॥३३॥
सततं शीलनादेषां पलितानि प्रणाशयेत्
अभयामोदका ह्येते रसायनवराः स्मृताः ॥३४॥
विरेचनान्ते कर्त्तव्यकर्मोपदेशः
पीत्वा विरेचनं शीतजलैः संसिच्य चक्षुषी
सुगन्धिं किंचिदाघ्राय ताम्बूलं शीलयेन्नरः ॥३५॥
निर्वातस्थो न वेगांश्च धारयेन्न स्वपेत्तथा
शीताम्बु न स्पृशेत्क्वापि कोष्णनीरं पिबेन्मुहुः ॥३६॥
सम्यग्विरिक्तस्य लक्षणम्
बलासौषधपित्तानि वायुर्वान्ते यथा व्रजेत्
रेकात्तथा मलं पित्तं भेषजं च कफो व्रजेत् ॥३७॥
दुर्विरिक्तस्य लक्षणम्
दुर्विरिक्तस्य नाभेस्तु स्तब्धत्वं कुक्षिशूलता
पुरीषवातसङ्गश्च कण्डूमण्डलगौरवाः
विदाहोऽरुचिराध्मानं भ्रमश्छर्दिश्च जायते ॥३८॥
दुर्विरिक्तस्य चिकित्सा
तं पुनः पाचनैः स्नेहैः पक्त्वा संस्निह्य रेचयेत्
तेनास्योपद्र वा यान्ति दीप्तोऽग्निर्लघुता भवेत् ॥३९॥
अतिविरिक्तस्य लक्षणम्
विरेकस्यातियोगेन मूर्च्छा भ्रंशो गुदस्य च ॥४०॥
शूलं कफातियोगः स्यान्मांसधावनसन्निभम्
मेदोनिभं जलाभासं रक्तं चापि विरिच्यते ॥४१॥
अतिविरिक्तस्य चिकित्सा
तस्य शीताम्बुभिः सिक्त्वा शरीरं तण्डुलाम्बुभिः
मधुमिश्रैस्तथा शीतैः कारयेद्वमनं मृदु ॥४२॥
तत्र नाभिप्रलेपः
सहकारत्वचः कल्को दध्ना सौवीरकेण वा
पिष्टो नाभिप्रलेपेन हन्त्यतीसारमुल्बणम् ॥४३॥
तत्र पथ्यव्यवस्था
अजाक्षीरं रसं वाऽपि वैष्किरं हारिणं तथा
शालिभिः षष्टिकैः स्वल्पं मसूरैर्वाऽपि भोजयेत् ॥४४॥
तत्रोपायान्तरम्
शीतैः संग्राहिभिर्द्र व्यैः कुर्यात्संग्रहणं भिषक् ॥४५॥
सुविरिक्तस्य लक्षणम्
लाघवे मनसस्तुष्टावनुलोमे गतेऽनिले
सुविरिक्तं नरं ज्ञात्वा पाचनं पाययेन्निशि ॥४६॥
विरेचनस्य फलम्
इन्द्रि याणां बलं बुद्धेः प्रसादो वह्निदीपनम्
धातुस्थैर्यं वयः स्थैर्यं भवेद्रे चनसेवनात् ॥४७॥
विरेचने निषिद्धकृत्यानि
प्रवातसेवां शीताम्बु स्नेहाभ्यङ्गमजीर्णताम्
व्यायामं मैथुनं चैव न सेवेत विरेचितः ॥४८॥
विरिक्तस्य पथ्यार्थे पेयादिद्र व्याणि
शालिषष्टिकमुद्गाद्यैर्यवागूं भोजयेत्कृताम्
जाङ्गलैर्विष्किराणां वा रसैः शाल्योदनं हितम् ॥४९॥
इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे विरेचनविधिर्नाम चतुर्थोऽध्यायः ॥४॥
N/A
References : N/A
Last Updated : March 14, 2021
TOP