उत्तरखण्डम् - द्वादशोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्र शोणितस्रावमानम्
शोणितं स्रावयेज्जन्तोरामयं प्रसमीक्ष्य च
प्रस्थं प्रस्थार्द्धकं वाऽपि प्रस्थार्धार्धमथापि वा ॥१॥

रक्तस्रावसमयः
शरत्काले स्वभावेन कुर्याद्र क्तस्रुतिं नरः
त्वग्दोषग्रन्थिशोथाद्या न स्यू रक्तस्रुतेर्यतः ॥२॥

रक्तस्य प्रकृतिनिर्देशः
मधुरं वर्णतो रक्तमशीतोष्णं तथा गुरु
शोणितं स्निग्धविस्रं स्याद्विदाहश्चास्य पित्तवत् ॥३॥

रक्ते पञ्चमहाभूतगुणाः
विस्रता द्र वता रागश्चलनं विलयस्तथा
भूम्यादिपञ्चभूतानामेते रक्तगुणाः स्मृताः ॥४॥

दुष्टरक्तलक्षणम्
रक्ते दुष्टे वेदना स्यात्पाको दाहश्च जायते
रक्तमण्डलता कण्डूः शोथश्च पिटिकोद्गमः ॥५॥

रक्तवृद्धिलक्षणम्
वृद्धे रक्ताङ्गनेत्रत्वं शिराणां पूरणं तथा
गात्राणां गौरवं निद्रा मदो दाहश्च जायते ॥६॥

क्षीणरक्तलक्षणम्
क्षीणेऽम्लमधुराकाङ्क्षा मूर्च्छा च त्वचि रूक्षता
शैथिल्यं च शिराणां स्याद्वातादुन्मार्गगामिता ॥७॥

वातदूषितरक्तलक्षणम्
अरुणं फेनिलं रूक्षं परुषं तनु शीघ्रगम्
अस्कन्दि सूचिनिस्तोदि रक्तं स्याद्वातदूषितम् ॥८॥

पित्तदूषितरक्तलक्षणम्
पित्तेन पीतं हरितं नीलं श्यावं च विस्रकम्
अस्कन्द्युष्णं मक्षिकाणां पिपीलानामनिष्टकम् ॥९॥

कफदूषितरक्तलक्षणम्
शीतलं बहलं स्निग्धं गैरिकोदकसन्निभम्
मांसपेशीप्रभं स्कन्दि मन्दगं कफदूषितम् ॥१०॥

द्वित्रिदोषदुष्टरक्तयोर्लक्षणम्
द्विदोषदुष्टं संसृष्टं त्रिदुष्टं पूतिगन्धकम्
सर्वलक्षणसंयुक्तं काञ्जिकाभं च जायते ॥११॥

विषदूषितरक्तलक्षणम्
विषदुष्टं भवेच्छ्यावं नासिकोन्मार्गगं तथा
विस्रं काञ्जिकसङ्काशं सर्वकुष्ठकरं बहु ॥१२॥

शुद्धरक्तलक्षणम्
इन्द्र गोपप्रभं ज्ञेयं प्रकृतिस्थमसंहतम् ॥१३॥

रक्तस्रावसाध्या रोगाः
शोथे दाहेऽङ्गपाके च रक्तवर्णेऽसृजः स्रुतौ
वातरक्ते तथा कुष्ठे सपीडे दुर्जयेऽनिले
पाणिरोगे श्लीपदे च विषदुष्टे च शोणिते ॥१४॥

ग्रन्थ्यर्बुदापचीक्षुद्र रोगरक्ताधिमन्थिषु
विदारीस्तनरोगेषु गात्राणां सादगौरवे ॥१५॥

रक्ताभिष्यन्दतन्द्रा यां पूतिघ्राणास्यदेहके
यकृत्प्लीहविसर्पेषु विद्र धौ पिटिकोद्गमे ॥१६॥

कर्णोष्ठघ्राणवक्त्राणां पाके दाहे शिरोरुजि
उपदंशे रक्तपित्ते रक्तस्रावः प्रशस्यते ॥१७॥

रक्तस्रावविधिः
एषु रोगेषु शृङ्गैर्वा जलौकाऽलाबुकैरपि
अथवाऽपि शिरामोक्षैः कुर्याद्र क्तस्रुतिं नरः ॥१८॥

रक्तस्रावायोग्या जनाः
न कुर्वीत शिरामोक्षं कृशस्यातिव्यवायिनः
क्लीबस्य भीरोर्गर्भिण्याः सूतिकापाण्डुरोगिणाम् ॥१९॥

पञ्चकर्मविशुद्धस्य पीतस्नेहस्य चार्शसाम्
सर्वाङ्गशोथयुक्तानामुदरश्वासकासिनाम् ॥२०॥

छर्द्यतीसारदुष्टानामतिस्विन्नतनोरपि
ऊनषोडशवर्षस्य गतसप्ततिकस्य च ॥२१॥

आघातस्रुतरक्तस्य शिरामोक्षो न शस्यते
एषां चात्ययिकेरोगे जलौकाभिस्तु निर्ह रेत् ॥२२॥

विषदुष्टरक्तस्य स्रावप्रकारः
तथा च विषदुष्टानां शिरामोक्षोऽपि शस्यते ॥२३॥

वातादिदोषानुसारेण रक्तस्रावप्रकारः
गोशृङ्गेण जलौकाभिरलाबुभिरपि त्रिधा
वातपित्तकफैर्दुष्टं शोणितं स्रावयेद् बुधः ॥२४॥

द्विदोषाभ्यां तु सन्दुष्टं त्रिदोषैरपि दूषितम्
शोणितं स्रावयेद्युक्त्या शिरामोक्षैः पदैस्तथा ॥२५॥

शृङ्गादीनां शोणितग्रहणे प्रमाणम्
गृह्णाति शोणितं शृङ्गं दशाङ्गुलमितं बलात्
जलौका हस्तमात्रं तु तुम्बी च द्वादशाङ्गुलम्
पदमङ्गुलमात्रस्य शिरा सर्वाङ्गशोधिनी ॥२६॥

रुधिरस्रावप्रतिबन्धिकाऽवस्था
शीते निरन्ने मूर्च्छाऽतिनिद्रा भीतिमदश्रमैः
युतानां न स्रवेद्र क्तं तथा विण्मूत्रसङ्गिनाम् ॥२७॥

रक्ताप्रवृत्तावुपचारः
अप्रवर्त्तितरक्ते च कुष्ठत्रिकटुसैन्धवैः
मर्दयेद् व्रणवक्त्रं च तेन सम्यक्प्रवर्त्तते ॥२८॥

रक्तमोक्षणसमयः
तस्मान्न शीते नात्युष्णे न स्विन्ने नातितापिते
पीत्वा यवागूं तृप्तस्य स्रावयेच्छोणितं बुधः ॥२९॥

रक्तातिप्रवृत्तौ हेतुः
अतिस्विन्नस्योष्णकाले तथ्वातिशिराव्यधात्
अतिप्रवर्त्तते रक्तं तत्र कुर्यात्प्रतिक्रियाम् ॥३०॥

रक्तातिप्रवृत्तौ चिकित्सा
अतिप्रवृत्ते रक्ते च लोध्रसर्जरसाञ्जनैः
यवगोधूमचूणैर्वा धवधन्वनगैरिकैः ॥३१॥

सर्पनिर्मोकचूर्णैर्वा भस्मना क्षौमवस्त्रयोः
मुखं व्रणस्य बध्वा च शीतैश्चोपचरेद्व्रणम् ॥३२॥

तत्रैवोपचारान्तरम्
विध्येदूर्ध्वशिरां तां च दहेत्क्षारेण वाऽग्निना
व्रणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम्
व्रणास्यं पाचयेत्क्षारो दाहः सङ्कोचयेच्छिराम् ॥३३॥

अग्निदाहसाध्या रोगाः
तत्र मुष्कशोथे कराङ्गुष्ठदाहनिर्देशः
वामाण्डशोथे दक्षस्य करस्याङ्गुष्ठमूलजाम् ॥३४॥

दहेच्छिरां व्यत्यये तु वामाङ्गुष्ठशिरां दहेत्
शिरादाहप्रभावेण मुष्कशोथः प्रणश्यति ॥३५॥

विषूच्यां पार्ष्णिदाहव्यवस्था
विषूच्यां पार्ष्णिदाहेन जायतेऽग्ने प्रदीपनम्
सङ्कुचन्ति यतस्तेन रसश्लेष्मवहाः शिराः ॥३६॥

रक्तजबालयकृत्प्लीहवृद्धौ तत्स्थानदाहव्यवस्था
यदावृद्धिर्यकृत्प्लीह्नोः शिशोः सञ्जायतेऽसृजः
तदा तत्स्थानदाहेन सङ्कुचन्त्यसृजः शिराः ॥३७॥

अत्यन्तरक्तस्रावणनिषेधः
रक्ते दुष्टेऽवशिष्टेऽपि व्याधिर्नैव प्रकुप्यति
अतः स्राव्यं सावशेषं रक्ते नातिक्रमो हितः ॥३८

अतिरक्तस्रुतिजन्या हानयः
आन्ध्यमाक्षेपकं तृष्णां तिमिरं शिरसो रुजम्
पक्षाघातं श्वासकासौ हिक्कां दाहं च पांडुताम्
कुरुतेऽतिस्रुतं रक्तं मरणं वा करोति च ॥३९॥

रुधिरस्य महत्ता
देहस्योत्पत्तिरसृजा देहस्तेनैव धार्यते
विना तेन व्रजेज्जीवो रक्षेद्र क्तमतोबुधः ॥४०॥

स्रुते रक्तेऽपि दोषकोपे प्रतीकारः
शीतोपचारः कुपिते स्रुतरक्तस्य मारुते
कोष्णेन सर्पिषा शोथं सव्यथं परिषेचयेत् ॥४१॥

रक्तस्रुतिक्षीणस्य पथ्यव्यवस्था
क्षीणस्यैणशशोरभ्रहरिणच्छागमांसजः
रसः समुचितः पाने क्षीरं वा षष्टिका हिताः ॥४२॥

सम्यक्स्रुतरक्तलक्षणम्
पीडाशान्तिर्लघुत्वं च व्याधेरुद्रे कसंक्षयः
मनः स्वास्थ्यं भवेच्चिह्नं सम्यग्विस्रावितेऽसृजि ॥४३॥

रक्तस्रावोत्तरं वर्ज्याविषयाः
व्यायाममैथुनक्रोधशीतस्नानप्रवातकान् ॥४४॥

एकाशनं दिवास्वप्नं क्षाराम्लकटुभोजनम्
शोकं वादमजीर्णं च त्यजेदाबलदर्शनात् ॥४५॥

इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे शोणितस्रावविधिर्नाम द्वादशोऽध्यायः ॥१२॥

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP