उत्तरखण्डम् - सप्तमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्रादावुत्तरबस्तिस्वरूपम्
अतः परं प्रवक्ष्यामि बस्तिमुत्तरसञ्ज्ञितम्

द्वादशाङ्गुलकं नेत्रं मध्ये च कृतकर्णिकम्
मालतीपुष्पवृन्ताभं छिद्रं सर्षपसन्निभम् ॥१॥

उत्तरबस्तौ स्नेहमात्रा
पञ्चविंशतिवर्षाणामधो मात्रा द्विकार्षिकी
तदूर्ध्वं पलमात्रा च स्नेहस्योक्ता भिषग्वरैः ॥२॥

उत्तरबस्तिविधिः
अथास्थापनशुद्धस्य तृप्तस्य स्नानभोजनैः
स्थितस्य जानुमात्रे च पीठेऽन्विष्य शलाकया ॥३॥

स्निग्धया मेढ्रमार्गे च ततो नेत्रं नियोजयेत्
शनैः शनैर्घृताभ्यक्तं मेढ्ररन्ध्रेऽङ्गुलानि षट् ॥४॥

ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्ह रेत्
ततः प्रत्यागते स्नेहे स्नेहबस्तिक्रमो हितः ॥५॥

स्त्रीणां बस्तिदाने विधिः
स्त्रीणां कनिष्ठिकास्थूलं नेत्रं कुर्याद् दशांगुलम् ॥६॥

मुद्गप्रवेशं योज्यं च योन्यन्तश्चतुरङ्गुलम्
द्व्यङ्गुलं मूत्रमार्गे च सूक्ष्मं नेत्रं नियोजयेत् ॥७॥

बालानां बस्तिदाने विधिः
मूत्रकृच्छ्रविकारेषु बालानां त्वेकमङ्गुलम्
शनैर्निष्कम्पमाधेयं सूक्ष्मं नेत्रं विचक्षणः ॥८॥

स्त्रीणां बालानां च स्नेहमात्रा
योनिमार्गेषु नारीणां स्नेहमात्रा द्विपालिकी
मूत्रमार्गे पलोन्मानां बालानां च द्विकार्षिकी ॥९॥

स्त्रीणामुत्तरबस्तिदानप्रकारः
उत्तानायै स्त्रियै दद्यादूर्ध्वजान्वै विचक्षणः
अप्रत्यागच्छति भिषग्बस्तावुत्तरसंज्ञिते ॥१०॥

भूयो बस्तिं निदध्याच्च संयुक्तैः शोधनैर्गणैः
फलवर्त्तिं निदध्याद्वा योनिमार्गे दृढां भिषक् ॥११॥

सूत्रैर्विनिर्मितां स्निग्धां शोधनद्र व्यसंयुताम्
दह्यमाने तथा बस्तौ दद्याद्बस्तिं विशारदः ॥१२॥

क्षीरिवृक्षकषायेण पयसा शीतलेन वा
बस्तिः शुक्ररुजः पुंसां स्त्रीणामार्त्तवजां रुजम्
हन्यादुत्तरबस्तिस्तु नोचितो मेहिनां क्वचित् ॥१३॥

उत्तरबस्तेर्गुणदोषाः
सम्यग्दत्तस्य लिङ्गानि व्यापदःक्रम एव च
बस्तेरुत्तरसंज्ञस्य समानं स्नेहबस्तिना ॥१४॥

फलवर्त्तिलक्षणम्
घृताभ्यक्ते गुदे क्षेप्या श्लक्ष्णा स्वाङ्गुष्ठसंनिभा
मलप्रवर्त्तिनी वर्त्तिः फलवर्त्तिश्च सा स्मृता ॥१५॥

इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे उत्तरबस्तिविधिर्नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP