उत्तरखण्डम् - पञ्चमोऽध्यायः

संहिता हिन्दू धर्मातील पवित्र आणि सर्वोच्च धर्मग्रन्थ वेदांतील मन्त्रांचे खण्ड होत.


तत्र बस्तेर्भेदो निरुक्तिश्च

बस्तिर्द्विधाऽनुवासाख्यो निरूहश्च ततः परम्
बस्तिभिर्दीयते यस्मात्तस्माद्बस्तिरिति स्मृतः ॥१॥

अनुवासननिरूहबस्त्योर्लक्षणम्
यः स्नेहैर्दीयते स स्यादनुवासननामकः
कषायक्षीरतैलैर्यो निरूहः स निगद्यते ॥२॥

अनुवासनादिबस्तीनामनुक्रमः
तत्रानुवासनाख्यो हि बस्तिर्यः सोऽत्र कथ्यते
पूर्वमेव ततो बस्तिर्निरूहाख्यो भविष्यति ॥३॥

निरूहादुत्तरश्चैव बस्तिः स्यादुत्तराभिधः
अनुवासनभेदश्च मात्राबस्तिरुदीरितः ॥४॥

मात्राबस्तौ स्नेहमात्रा
पलद्वयं तस्य मात्रा तस्मादर्धाऽपि वा भवेत् ॥५॥

अनुवास्या जनाः
अनुवास्यस्तु रूक्षः स्यात्तीक्ष्णाग्निः केवलानिली ॥६॥

अनुवासनायोग्या जनाः
नानुवास्यस्तु कुष्ठी स्यान्मेही स्थूलस्तथोदरी
नास्थाप्या नानुवास्याः स्युरजीर्णोन्मादतृड्युताः
शोकमूर्च्छाऽरुचिभयश्वासकासक्षयातुराः ॥७॥

बस्तिनेत्रकरणद्र व्याणि
नेत्रं कार्यं सुवर्णादिधातुभिर्वृक्षवेणुभिः
नलैर्दन्तैर्विषाणाग्रैर्मणिभिर्वा विधीयते ॥८॥

आयुर्विभेदेन नेत्रपरिमाणभेदाः
एकवर्षात्तु षड्वर्षं यावन्मानं षडङ्गुलम्
ततो द्वादशकं यावन्मानं स्यादष्टसम्मितम्
ततः परं द्वादशभिरङ्गुलैर्नेत्रदीर्घता ॥९॥

बस्तिनेत्रच्छिद्र परिमाणम्
मुद्गच्छिद्रं कलायाभं छिद्रं कोलास्थिसन्निभम्
यथासङ्ख्यं भवेन्नेत्रं श्लक्ष्णं गोपुच्छसन्निभम् ॥१०॥

आतुराङ्गुष्ठमानेन मूले स्थूलं विधीयते
कनिष्ठिकापरीणाहमग्रे च गुटिकामुखम् ॥११॥

तन्मूले कर्णिके द्वे च कार्ये भागाच्चतुर्थकात्
योजयेत्तत्र बस्तिं च बन्धद्वयविधानतः ॥१२॥

बस्तिपुटकोपयोगिद्र व्यनिर्देशः
मृगाजशूकरगवां महिषस्यापि वा भवेत्
मूत्रकोशस्य बस्तिस्तु तदलाभेन चर्मजः
कषायरक्तः सुमृदुर्बस्तिः स्निग्धो दृढो हितः ॥१३॥

व्रणबस्तिलक्षणम्
व्रणबस्तेस्तु नेत्रं स्याछ्लक्ष्णमष्टाङ्गुलोन्मितम्
मुद्गच्छिद्रं गृध्रपक्षनलिकापरिणाहि च ॥१४॥

उचितबस्तिसेवनगुणाः
शरीरोपचयं वर्णं बलमारोग्यमायुषः
कुरुते परिवृद्धिं च बस्तिः सम्यगुपासितः ॥१५॥

बस्तिकर्मोचितसमयनिर्देशः
दिवा शीते वसन्ते च स्नेहबस्तिः प्रदीयते
ग्रीष्मवर्षाशरत्काले रात्रौ स्यादनुवासनम् ॥१६॥

बस्तिकाले भोजनविधानम्
न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत् ॥१७॥

भोजनवैपरीत्ये बस्तिफलम्
मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः
रूक्षं भुक्तवतोऽत्यन्नं बलं वर्णश्च हीयते ॥१८॥

बस्तेर्हीनातिमात्रयोर्निषेधः
हीनमात्रावुभौ बस्ती नातिकार्यकरौ स्मृतौ
अतिमात्रौ तथानाहक्लमातीसारकारकौ ॥१९॥

बस्तिमात्रा
उत्तमस्य पलैः षड्भिर्मध्यमस्य पलैस्त्रिभिः
पलाद्यर्धेन हीनस्य युक्ता मात्राऽनुवासने ॥२०॥

स्नेहबस्तौ सैन्धवशताह्वाचूर्णप्रक्षेपमानम्
शताह्वासैन्धवाभ्यां च देयं स्नेहे च चूर्णकम्
तन्मात्रोत्तममध्यान्त्याः षट्चतुर्द्वयमाषकैः ॥२१॥

विरेचनानन्तरमेवानुवासनदानस्य नियमः
विरेचनात्सप्तरात्रे गते जातबलाय च
भक्तान्नायानुवास्याय बस्तिर्देयोऽनुवासनः ॥२२॥

बस्तिप्रयोगविधिः
अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ॥२३॥

उत्सृष्टानिलविण्मूत्रं योजयेत्स्नेहबस्तिना
सुप्तस्य वामपार्श्वेन वामजङ्घाप्रसारिणः ॥२४॥

कुञ्चितापरजङ्घस्य नेत्रं स्निग्धगुदे न्यसेत्
बद्ध्वा बस्तिमुखं स्रूत्रैर्वामहस्तेन धारयेत् ॥२५॥

पीडयेद्दक्षिणेनैव मध्यवेगेन धीरधीः
जृम्भाकासक्षवादींश्च बस्तिकाले न कारयेत् ॥२६॥

बस्तिपीडने कालनिर्देशः
त्रिंशन्मात्रामितः कालः प्रोक्तो बस्तेस्तु पीडने
ततः प्रणिहितः स्नेह उत्तानो वाक्शतं भवेत् ॥२७॥

मात्रालक्षणम्
जानुमण्डलमावेष्ट्य कुर्याच्छोटिकया युतम्
एका मात्रा भवेदेषा सर्वत्रैष विनिश्चयः ॥२८॥

बस्तिप्रणिधानोत्तराङ्गकृत्यम्
प्रसारितैः सर्वगात्रैर्यथावीर्यं विसर्पति
ताडयेत्तलयोरेनं त्रीन्वारांश्च शनैः शनैः ॥२९॥

स्फिजोश्चैवं ततः श्रोणीं शय्यां चैवोत्क्षिपेत्ततः
जाते विधाने तु ततः कुर्यान्निद्रा ं! यथासुखम् ॥३०॥

सम्यगनुवासितस्य लक्षणम्
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
उपद्र वं विना शीघ्रं स सम्यगनुवासितः ॥३१॥

प्रत्यागते स्नेहे व्यवस्था
जीर्णान्नमथ सायाह्ने स्नेहेप्रत्यागते पुनः
लघ्वन्नं भोजयेत्कामं दीप्ताग्निस्तु नरो यदि ॥३२॥

अनुवासनव्यापत्तौ प्रतीकारः
अनुवासिताय दातव्यमितरेऽह्नि सुखोदकम्
धान्यशुण्ठीकषायो वा स्नेहव्यापत्तिनाशनम् ॥३३॥

दोषानुसारेण बस्तिमानसंख्यानिर्देशः
अनेन विधिना षड् वा सप्तवाऽष्टौ नवापि वा
विधेया बस्तयस्तेषामन्ते चैवनिरूहणम् ॥३४॥

संख्यात्मकस्नेहबस्तीनां गुणाः
दत्तस्तु प्रथमो वस्तिः स्नेहयेद्बस्तिवङ्क्षणैः
सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत् ॥३५॥

बलं वर्णं च जनयेत्तृतीयस्तु प्रयोजितः
चतुर्थपञ्चमौ दत्तौ स्नेहयेतां रसासृजी ॥३६॥

षष्ठो मांसं स्नेहयति सप्तमो मेद एव च
अष्टमो नवमश्चापि मज्जानं च यथाक्रमम् ॥३७॥

एवं शुक्रगतान्दोषान्द्विगुणः साधु साधयेत्
अष्टादशाष्टादशकान्बस्तीनां यो निषेवयेत्
स कुञ्जरबलोऽप्यश्वं जयेत्तुल्योऽमरप्रभः ॥३८॥

रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने
दद्याद् वैद्यस्तथाऽन्येषामन्यां बाधामपाहरेत् ॥३९॥

स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः
तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ॥४०॥

बस्तिदत्तस्नेहस्य तात्कालिकप्रत्यागतौ कर्त्तव्यं कर्म
अथवा यस्य तत्कालं स्नेहो निर्याति केवलः
तस्यान्योऽन्यतरो देयो न हि स्निह्यत्यतिष्ठति ॥४१॥

अनुवासनबस्तिस्नेहानिःसृतावुपद्र वास्तच्चिकित्सा च
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
तदा शैथिल्यमाध्मानं शूलं श्वासश्च जायते ॥४२॥

पक्वाशये गुरुत्वं च तत्र दद्यान्निरूहणम्
तीक्ष्णं तीक्ष्णौषधैर्युक्ताफलवर्तिंर्हिता तथा ॥४३॥

यथाऽनुलोमनं वायुर्मलं स्नेहश्च जायते
तथा विरेचनं दद्यात्तीक्ष्णं नस्यं च शस्यते ॥४४॥

स्नेहबस्तेरनिःसृतावप्युपद्र वानुत्पत्तौ कर्त्तव्यं कर्म
यस्य नोपद्र वं कुर्यात्स्नेहबस्तिरनिःसृतः
सर्वोऽल्पो वा वृते रौक्ष्यादुपेक्ष्यः स विजानता ॥४५॥

अहोरात्रादनिःसृते स्नेहे प्रतीकारः
अनायातं त्वहोरात्रे स्नेहं संशोधनैर्ह रेत्
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ॥४६॥

अनुवासनार्थं गुडूच्यादितैलम्
गुडूच्येरण्डपूतीकभार्ङ्गीविषकरोहिषम्
शतावरीं सहचरं काकनासां पलोन्मिताम् ॥४७॥

यवमाषातसीकोलकुलत्थान्प्रसृतोन्मितान्
चतुद्रो र्णे!ऽम्भसः पक्त्वा द्रो णशेषेण तेन च ॥४८॥

पचेत्तैलाढकं पेष्यैर्जीवनीयैः पलोन्मितैः
अनुवासनमेतद्धि सर्ववातविकारनुत् ॥४९॥

बस्तिकर्मव्यापत्तिसंख्याचिकित्सयोर्निर्देशः
षटसप्ततिव्यापदस्तु जायन्ते बस्तिकर्मणः
दूषितात्समुदायेन ताश्चिकित्स्यास्तु सुश्रुतात् ॥५०॥

अनुवासनबस्तौ पथ्यव्यवस्था
पानहारविहाराश्च परिहाराश्च कृत्स्नशः
स्नेहपानसमाः कार्या नात्रकार्याविचारणा ॥५१॥

इति श्रीशार्ङ्गधरसंहितायामुत्तरखण्डे स्नेहबस्तिविधिर्नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : March 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP