संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| चतुर्थः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - चतुर्थः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत चतुर्थः सर्गः Translation - भाषांतर अथ स प्रविजृम्भिते शुचौविधुरश्चेतसि पुत्रकाम्यया ।सुबहुद्विजसात्कृताखिल-द्रविणः स्तोममयष्ट भूपतिः ॥१॥विफले बहुशस्तदध्वरेसति पुत्त्रीयमनन्तरं क्रतुम् ।निरवर्तयदृष्यशृङ्ग इ-त्यभिधानप्रथितस्तपोनिधिः ॥२॥पुरुषः परिगृह्य कश्चनश्रितचामीकरभाजनं चरुम् ।उदियाय रुचा परिज्वल-न्ज्वलतो रोहितवाजिनस्ततः ॥३॥प्रविवेश विशांपतिश्चरुंचतुरंशीकृततेजसात्मना ।प्रविधातुमरातिनिर्जित-त्रिदशाश्रुस्रववृष्ट्यवग्रहम् ॥४॥दयिताभिरनन्ततेजसामुनिनाऽसौ परिजप्य लम्भितः ।अशितः प्रविभज्य भूपते-स्तिसृभिर्गर्भमबीभवच्चरुः ॥५॥सुतयोर्भवतः स्म बालिजि-द्भरतौ कोसलकेकयेन्द्रयोः ।यमजौ यमतुल्यतेजसौसुषुवाते समये सुमित्रया ॥६॥अथ दिव्यमुनिप्रवर्तित-प्रसवानन्तरजातकर्मणाम् ।रुरुचे चरुजन्मनां दशातनुसन्दर्शितदन्तकुड्मला ॥७॥न स राम इह क्व यातइत्यनुयुक्तो वनिताभिरग्रतः ।निजहस्तपुटावृताननोविदधेऽलीकनिलीनमर्भकः ॥८॥मुखमाहृतधूलि गण्डयोःकरधृष्टाञ्जनदानमस्य तत् ।विबभौ सुरदन्तिनो यथावदनं दन्तचतुष्टयोज्ज्वलम् ॥९॥कतरस्तव तात उच्यता-मिति धात्रीवचनेन चोदितः ।रुचिरेण करेण निर्द्दिश-ञ्जजगदीशं प्रमदेन सन्दधौ ॥१०॥अपि किञ्चिदितो लभामहेरघुनाथेति गुरोरुपेयुषः ।वदनस्थकुचाग्र एव सस्मयमानो मुदमादधे शिशुः ॥११॥अयि दर्शय तत्किमुन्दुरा-द्भवतोपात्तमिति प्रचोदितः ।प्रविदर्शयति स्म शिक्षयानवकं दन्तचतुष्टयं शिशुः॥१२॥इतरेऽपि सरोजशीतलै- र्मृदुभिः साञ्जनराजिभिः करैः ।शयने समवाहयन्पितु-श्चरणौ मातृजनेन चोदिताः ॥१३॥शयनीयगतस्य भूपतेःशिशवः क्रोडनिवेशवाञ्छया ।निशि वर्द्धितमातृसम्पदंकलहं कोमलजल्पितं दधुः ॥१४॥क्रमशश्चरुजन्मनो वपुःपरिवृद्धिर्महिता महीयसः ।प्रतिवासरमायुषः क्षय-स्त्रिदशारेरपि तुल्यमासतुः ॥१५॥धनुषि प्रतिलब्धपाटवेनृपतेरन्यतरेद्युरात्मजे ।भवनं भुवनस्य शासितुःप्रतिपेदे मुषितक्रतुर्मुनिः ॥१६॥स्वकिरीटमणिप्रभाम्बुभिःप्रथमक्षालितपादपङ्कजम् ।नृपतिः समबीभवन्मुनिंपुनरुक्तैरिव पाद्यवारिभिः ॥१७॥कुशलं परिपृच्छ्य सर्वगंमुनिरध्यासितरत्नविष्टरः ।उपविष्टमसौ भुवस्तलेविरतं राजमुनिं जगौ गिरम् ॥१८॥स्वजनादपि लब्धवैशसेनृपतित्वे शठभृत्यसम्पदि ।प्रियवादिरिपावपि स्थितोनृप दिष्ट्या कुशलेन वर्तसे ॥१९॥द्विषतो भवबन्धभेदिनादहतश्चेतसि योगवह्निना ।न जहाति विपत्तिरद्य नःपरसम्पत्तिषु निःस्पृहानपि ॥२०॥अनुयान्ति समन्ततो मखेनिपतच्छोणितवृष्टयो दिशः ।पवनाहतवृन्तविच्युत-प्रसवाः किंशुककाननश्रियः ॥२१॥स्फुरदर्चिषि देवतामुखेधृतवैकङ्कतसाधनस्रुचाम् ।मिषतामपि नस्तपस्यतांहुतमद्यश्व उदस्यते रिपुः ॥२२॥जहि तं युधि पश्यतोहरंगुरुणा रामशरेण राक्षसम् ।सदसः समयेषु वृत्तयेविधिनाऽऽहूतहुतांशभाजिनः ॥२३॥जनमिन्द्ररिपुस्त्वदर्पतंयमिनं न क्रमते विहिंसितुम् ।शशिनं मृगशत्रुराश्रितंन मृगं प्रार्थयते हि जातुचित् ॥२४॥उरगा इव घर्मपीडिताःक्रतुशत्रुव्यथितास्तपस्विनः ।उपयान्त्युपतापनाशनंविपुलं त्वद्भुजचन्दनद्रुमम् ॥२५॥वयमर्ककुलैककसंश्रयान परं भूपतिमाश्रयामहे ।न हि जातु पतन्ति पल्वलेजलदा वारिधिपानलम्पटाः ॥२६॥त्वदणुप्रियमाश्रयामहेन परस्मादतिविस्तराण्यपि ।पयसः कणमेव चातकोजलदादत्ति बहूनि नान्यतः ॥२७॥नृपताविति वेदितापदामुनिना जोषमभूयत क्षणम् ।महतां न कदाचिदर्थतागुरुनिर्बन्धविनष्टसौष्ठवा ॥२८॥परिपूततनुर्द्विजाशिषाशुभया तातरसावृतः१ स्वयम् ।पृथुकः पृथुकीर्तिरर्पितोभवति श्वः समराय यास्यति ॥२९॥इति वस्तुमवस्तुकाङ्क्षिणेस मुदाऽस्मै समुदाहृतप्रियः ।शरणं शरणार्थिने ददौविशिने विश्वभुजो नरेश्वरः ॥३०॥चलिते च सुतं तपस्यतिप्रथमाहूतमृषेर्नमस्यया ।उपनीय चिराय विर्जितंस्वयमङ्कं प्रियमाददे वचः ॥३१॥समवेदि यतस्त्वदर्थिनाकथितं यद्दुरतिक्रमं त्वया ।अवधूय ततस्तदापदं चिनुबाणेन कुलोचितं यशः ॥३२॥अविजित्य सदा नु रक्षितुंन भुवः शक्यतया जयैषिणां ।ननु दिग्जयसंभृतो महा-विभवोऽयं भवतः प्रसङ्गतः ॥३३॥भुवनानि बिभर्ति कश्चनस्वजनानेव परः प्रयत्नतः ।इतरस्तनुमेव केवलंप्रभुरन्यो भरणेऽपि नात्मनः ॥३४॥इति पक्षचतुष्टये स्थितेरघवः पूर्वमुदस्य मानिनः ।क्षपयन्ति यशः क्रमागतंन हि पक्षान्तरसम्परिग्रहात् ॥३५॥जनमन्यहितप्रवर्तनंस्वयमेवाभिसरन्ति सम्पदः ।नियतं निजकृत्यलम्पटःपुरुषः स्वार्थत एव हीयते ॥३६॥पुरुषस्य कृतं भुजद्वयंप्रविधातुं द्वयमेव वेधसा ।सुहृदामुदयञ्च विद्विषा-मवलेपप्रतिघातमेव च ॥३७॥शरणोपगतं न पाति योन भिनत्ति द्विषतां समुन्नतिम् ।न स बाहुरसाधनक्षमानरवृक्षप्रभवः प्ररोहकः ॥३८॥परकृत्यजडो यशोऽर्जनेजठरैकप्रवणो निरुत्सुकः ।पशुरेव बुधैर्निगद्यतेयवसग्रासनिवृत्तमानसः ॥३९॥न पशुः पुरुषाकृतिर्यतोनृगुणभ्रष्टतया न पूरुषः ।विरतव्रतपौरुषस्पृहःकिमु कोऽपि द्रुहिणेन निर्मितः ॥४०॥अकृतद्विषदुन्नतिच्छिदःश्रितसंरक्षणवन्ध्यकर्मणः ।पुरुषस्य निरर्थकः करोननु कण्डूयनमात्रसाधनः ॥४१॥न च यस्तनयो यशोर्जनंकुरुते नाप्यनुयाति सत्पथम् ।तनयः किल सोऽपि साऽङ्गनान च वन्ध्या किल तेन सूनुना ॥४२॥अशने रसनानि देहिनांकृतयोगानि मुखेषु भूरिशः ।न न सन्ति तदेषु दुर्ल्लभंप्रभु यत्स्यादभयं प्रजल्पितुम् ॥४३॥अपि जीवितसंशयेष्वु तेन परित्याज्यमिदं कुलव्रतम् ।सुलभं प्रतिजन्म जीवितंहृदयं धर्मरतं हि दुर्ल्लभम् ॥४४॥शवडिण्डिमतामभिव्रज-त्यभिषेकोत्सवदुन्दुभिः क्षणात् ।इतिपातिनि जीविते कथंसुखमालम्ब्य सृजन्ति सत्पथम् ॥४५॥यशसि व्रज यत्नमुज्झित-स्वसुखप्रीतिरुपैहि वा तपः ।अधिगम्यमसारमस्थिरंविषयास्वादसुखं पशोरपि ॥४६॥यशसा सुकृतेर्न सङ्ग्रहोनियतं धर्ममुपार्जतो यशः ।अनुगच्छ तदेकसङ्ग्रहा-दुभयं लभ्यमितीह सत्पथम् ॥४७॥ननु तावदिहैव सज्जन-प्रतिरक्षाविधिगम्यमक्षयम् ।फलमिन्दुकरोपरञ्जित-प्रहसत्कौमुदकोमलं यशः ॥४८॥सहसा सह कौशिकेनतत्प्रतिपद्य प्रयतस्तपोवनम् ।युधि घातय तं निबर्हकंयमिनामुग्रमुदग्रविक्रमः ॥४९॥पितुरित्थमनाकुलं वच-स्तदुपश्रुत्य ननाम पादयोः ।सह सिद्धवनं यियासुनासमरायावरजेन राघवः ॥५०॥तमसि स्फुरदंशुमद्द्युति-प्रहृते संसदि सौखरात्रिकः ।यतये निरयीयतत्सुतौनृपतिर्मन्त्रपवित्रदंशितौ ॥५१॥अनुजग्मतुरेनमातुरैरनु-यातौ मुनिमश्रुवर्षिणः ।अशिवैकविचिन्तयाऽकुलै-र्हृदयैर्पौरजनस्य राघवौ ॥५२॥यमिनः पथि चैतिहासिका-दभिशृण्वन्विविधाश्रयाः कथाः ।क्लमथं न विवेद विद्ययाबलयाऽऽनीतबलः स राघवः ॥५३॥अथ वज्रभृतः सुहृद्द्रुहोविषयो यः स्नपनेन विश्रुतः ।नृवरो निजगाद तत्पुरंपिशिताशीनिहतं निरीक्ष्य सः ॥५४॥न भुनक्ति पुरा पुरश्रियंपरितः कीर्णकरङ्कशङ्करा ।अवमग्नशिरःकपालदृ-ग्विवरप्रोद्गतशाद्वला मही ॥५५॥फणिभिः प्रतिबिम्बमातरःशितिभिर्भान्ति शिरोऽवलम्बिभिः ।रचितैरिव वेणिबन्धनै-र्विरहादस्य पुरस्य शासितुः ॥५६॥भुवि भोगिनिभं विलोकयं-स्तुटुमो हारमहार्य्यवेपथुः ।हरिहस्तहतस्य हस्तिनः१कररन्ध्रे निभृतं निलीयते ॥५७॥प्रतिमा विशदेन लूतिका-पटलेनावृतदृष्टिरीक्ष्यते ।रुदितैरिव पुष्पितेक्षणाविपुलत्रासकृतैरनेकशः ॥५८॥श्लथभित्तिविरूढभूरुह-स्थिरमूलाग्रविनिर्गमक्षतम् ।स्फुटतीव भृशं शुचातुरंहृदयं तद्गृहचित्रयोषिताम् ॥५९॥नकुलः परिजीर्णवैबुध-प्रतिबिम्बाननमध्यरन्ध्रतः ।स्फुरितं परिकर्षति क्रुधारसनं तस्य यथा सरीसृपम् ॥६०॥इति जल्पति तत्र राक्षसीपुरतः प्रादुरभूद्भिदेलिमा ।मकराकरपायिधामभिःक्षतयक्षाकृतिरुग्रविग्रहा ॥६१॥नवकृत्तविलासिनीकर-प्रसवोत्तंसविभूषितानना ।नृशिरस्ततिमेखला-गुणस्फुरणक्रूरकटुक्वणत्कटिः ॥६२॥परितः स्फुरदन्त्रपाश्ययापरिणद्धाकुलकेशसन्ततिः ।घनशोणितपङ्ककुङ्कुम-प्रविलिप्तस्तनकुम्भभीषणा ॥६३॥इति तामतिभीमदर्शना-मभिवीक्ष्योभयतस्तपोधनम् ।धनुषोरवनीभुजः सुतौसपदि न्यस्तशरावतिष्ठताम् ॥६४॥घृणिनो नृपतेरिदं वच-स्तनयं वीक्ष्य जगौ कृतस्मयः ।स वशिष्ठतनूजपातित-क्षितिपस्वर्वसतिप्रदो मुनिः ॥६५॥इति सार्वजनीनसम्पदःप्रलयं देशवरस्य तन्वतीम् ।अनिहत्य शरेण सूरिभि-स्त्वमधर्मी ध्रुवमेष गीयसे ॥६६॥शतमन्युरवर्णवृत्तयेन वधः स्त्रैण इति प्रचिन्तयन् ।निजघान विरोचनात्मजांकुलिशेन त्रिदिवस्य शर्मणे१ ॥६७॥वनितावपुषि द्विषज्जनेपुरुषाकारविशेषितेऽपि वा ।नहि भद्रकरं शरीरिणांप्रहृते करुणावलम्बनम् ॥६८॥युवतेरपि साधवः सुखेजगतो लुप्तवतश्चिरस्थितिम् ।तुलयन्ति न राम विक्रमंद्विषतीतापमगुण्यवृत्तिभिः ॥६९॥अपि वित्थ इदं यशःश्रियंभजते पौरुषरोषवित्तयोः ।न तपोनिधनायिषा रणेभवतोरभ्युदिते धनुर्भृतोः ॥७०॥द्विजवृद्धनिषेवणक्षमंयुवयोरायुधयुद्धतन्त्रयोः ।न विरोचनजन्मनो-र्महतोः श्रौत्रमिदं१ विराजते ॥७१॥इति मुनिचोदितो हृदि सुकेतुसुतामिषुणारघुपतिरक्षिणोदशनिपातपटुध्वनिना ।स्फुटितकुचान्तरस्रवदसृक्स्रुतिनः करणात्प्रथममपाययुस्तदसवो नु शरो नु वहिः ॥७२॥ऋषिरिति विघ्नघातविधिसञ्चितसद्यशसंतनुजमयोजयद्दशरथस्य सुरास्त्रगणैः ।असुरनिशाचरक्षतजपानपरैर्विकस-ल्लसितहुताशनद्युतिपिशङ्गितदिग्वदनैः ॥७३॥उपगतवन्ति राममथ तानि ततानि रुचावदनविनिर्गतज्वलितवह्निशिखाविततेः ।शशधरखण्डकोणकुटिलस्फुटकोटिखरंदशनचतुष्टयं पटु२ दधन्ति वहिः प्रसृतम् ॥७४॥रक्षोहव्यहविर्भुजं पथि तथा सन्धूप्य शस्त्रेन्धनैःप्रत्युद्गम्य सुदूरमेव हरिणैरन्वीयमानो वहिः ।छेदाय प्रसृतैरसेकिमलताजालप्रबालश्रियःकूजत्कोकिलमाश्रमस्य निकटं सायम्प्रपेदे मुनिः ॥७५॥इति कुमारदासस्य कृतौ जानकीहरणे महाकाव्येरामोत्पत्तिर्नाम चतुर्थः सर्गः । N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP