जानकीहरणम् - त्रयोदशः सर्गः
'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,
अथ तत्र भूधरशिरस्यधिकां
विरहानलक्षततनुस्तनुताम् ।
समनुव्रजन्मनुकुलप्रभवो
गमयाम्बभूव निवसन्दिवसान् ॥१॥
अनिमीलितायतदृशोऽस्य चिरं
कतरः प्रहार इति चोदयतः ।
शतयामिका इव निशा विगताः
स्फुटतारकेन्दुकुमुदाभरणाः ॥२॥
नृपनन्दनेन विजितः प्रथमं
वपुषा मनोहररुचा मदनः ।
स तदाऽवधीदनुशयादिव तं
दयितावियोगजनितेऽवसरे ॥३॥
परिशुष्यतोऽपि नयनादधिकं
ववृते दशाननरिपोः सलिलम् ।
विजहौ विलोचनपयस्ततिभि-
र्हृदयं न तापमपि तं स्नपितम् ॥४॥
न ददर्श मारुतिगतामुदिते
नयनस्य वारिणि दिशं नृहरिः ।
न चकार राजदुहितुर्वचने
गुणकीर्तनानि च शुचा विवृते ॥५॥
जगतीपतेरथ सुतः प्रभुणा
विपिनौकसामभिशुचो मनसः ।
प्रविणोदनाय दयिताविरह-
व्यसनातुरो वच इदं जगदे ॥६॥
हरिराजवंशवसतौ वसुभिः
परिपूर्णकन्दरदरीविवरे ।
जगतीधरे निपततामिह वः
सरसीरुहद्युतिमुषी नयने ॥७॥
सततं समुन्नतवतः पतता
रविणा नु लङ्घनभिया शिरसः ।
हरिणः किमस्त्युपरि नेत्युदित-
स्तरसा नु वीक्षितुमयं शशिनः ॥८॥
अधिकुञ्जमस्य निपतद्धरितां
खुरधूतधातुकणिकानिकरैः ।
अनुरञ्जितः शुकमुखद्युतिभि-
स्तरुणायते परिणतोऽपि रविः ॥९॥
इममातपे रविमणिप्रभव-
ज्ज्वलनाभिदीपिततनुं रजनी ।
शशिकान्तरत्नविसृतैः सकलं
शिशिरीकरोति पयसां निकरैः ॥१०॥
प्रतिनाग इत्यवगतस्तरसा
मदहस्तिहस्तहतजर्जरितः ।
इह तत्प्रकोपहुतभुग्घतये
सलिलानि मुञ्चति यथा जलदः ॥११॥
स्फुटधातुलोहितदरीवदन-
स्थितहंसपङ्क्तिदशनद्युतिभिः ।
हसतीव खर्ववपुषः शिखरै-
रवजित्य सोऽयमितरानचलान् ॥१२॥
अयमुद्वहत्यभिमुखापतिते
दशनाकृतौ हिमरुचः शकले ।
स्रुतधातुपङ्किततनुर्धरणी-
धरणक्षमो हरिवराहरुचम् ॥१३॥
इह धातुसानुषु निषण्णदृशः
शिरसि स्थितासितघनावलिषु ।
दवकृष्णपद्धतिभयं न चिरं
मृगयोषितो जहति मुग्धधियः ॥१४॥
अधिशृङ्गमस्य रुचिभिः स्फुरित-
ग्रहबृन्दसक्तशिरसस्तरवः ।
जनयन्ति चेतसि मदं शिखिनां
परिफुल्लनीपतरुषण्डरुचाम् ॥१५॥
शिखरेषु पङ्कजमणिप्रकर-
द्युतिरंजितच्छदभृतो दधते ।
इह भूरिभूरुहलताततयः
समये गतेऽप्यरुणपल्लवताम् ॥१६॥
अयमेष सोदकदरीवदन-
स्रुतधातुधौतकटुकावयवः ।
प्रविभात्यसृक्स्रवपिशङ्गितनु-
र्युधि दानवद्विप इव प्रहतः ॥१७॥
अयमर्कतापिततनुः शशिनः
परिपीय सामृतकणानचलः ।
पुनरुद्वमत्युरुदरीवदन-
स्रुतनिर्मरच्छलभृतः किरणान् ॥१८॥
भृशमस्य गोपतिमणिप्रभव-
ज्वलदग्निदग्धविपिने शिरसि ।
स्खलनादुपाहितमषीमलिनं
वहतीव शीतकिरणः करणम् ॥१९॥
मददृप्तनीलगलसंहतिभि-
र्हतभीतपन्नगगुणं शिखरात् ।
रविवाहनं गमयति त्वरितं
तदितो महीधरपतेररुणः ॥२०॥
अमितं निपीय सलिलं सरितां
स्रुतधातुलोहितममी जलदाः ।
उपकल्पयन्त्यरुणकान्तिभृतः
स्थिरसन्ध्यया परिगतं गगनम् ॥२१॥
वनदन्तिनः प्रति रिपुद्विरवं
परिधावतः शिखरिणः शिखरे ।
पवनैर्जवादुपहितो वदने
भवति क्षणं मुखपटो जलदः ॥२२॥
गजभिन्नगैरिकरसारुणिताः
सितपङ्कजैरनुगताः सरितः ।
नवबद्धरत्नरसनाकृतयः
प्रविभान्त्यमूर्गिरिनितम्बगताः॥२३॥
शिखरैकभागनिरतः पवनै-
रुपनीयतेऽयमुदधिं जलदः ।
अवगाहपानविधये समदः
प्रविमुच्य वृक्षत इव द्विरद ॥२४॥
रदनक्षतक्षितिधरक्षतज-
स्रवसन्निभैररुणिता रदिनः ।
कटकेषु धातुभिरिमे दधते
तरुणारुणावृतपयोदरुचः ॥२५॥
इति भास्वतः सुतवरे वदति
न्यपतत्पयोधरपथादभितः ।
मधुकाननं हृतमधुप्रसभं
प्रविधाय वेदितधृतिर्हनुमान् ॥२६॥
अशिवस्य जल्पनभिया नृपतौ
निभृते भुवो वरकपिर्दुहितुः ।
प्रथमं शिवं समनुवेद्य पुन-
र्वचनं सविस्तरमिदं विदधे ॥२७॥
भवदाज्ञया दिशि परेतपते-
स्तृणपर्णकान्यपि विवर्तयतः ।
जनकात्मजाविचयने विगता
शरदस्य मे शशधराभरणा ॥२८॥
रविदग्धपक्षतियुगं विहगं
प्रतिपद्य रावणगमे विदिते ।
मलयादगामथ महेन्द्रमगं
मकराकरं सपदि लङ्घयितुम् ॥२९॥
मयि कुर्वति क्रममथो चरण-
द्वयपीडिताग्रशिखरः शिखरी ।
स्त्रुतगैरिकोदकगुहावदनो
वमति स्म शोणितमिव व्यथितः ॥३०॥
समरुष्यत क्रमभरोपहते
चलिते नगे मम समुत्पतनात् ।
इतरेतराहतिदलच्छिखर-
प्रभवेण वारिदपथो रजसा ॥३१॥
चलताऽचलेन सरितस्तरसा
विधुता भुवि क्रमगती रुचिताः ।
प्रविहाय सागरजले नभसः
पतिता गुरुध्वनिहतश्रुतयः ॥३२॥
तमपश्यमुत्पतितवानचलं
तनुजायमानवपुषं क्रमशः ।
क्रमलब्धपीडितबृहच्छिखरं
प्रविशन्तमाश्विव महीमखिलम् ॥३३॥
उपविष्टकुञ्जरनिभा गिरय-
स्तरवस्तृणैरुपमिताकृतयः ।
प्रविलोकिता दिवि मया
पतता हलचर्मतुल्यवपुषः सरितः ॥३४॥
विषमा महानदनदीगहनैः
समतामलक्ष्यत गता वसुधा ।
पृथुकन्दरस्थपुटिता मसृणा
वरणीभृतामवगता विततिः ॥३५॥
अथ लङ्घने सुरसया जलधेः
क्षणविघि्नतो विहिततद्विजयः ।
पतितोऽहमद्रिशिखरे नखर-
क्रकचावपाटितशिलानिकरः ॥३६॥
दशकन्धरस्य भवनोपवनं
प्रविचिन्वता नृपसुता भवतः ।
सुचिरादलक्ष्यत मया विरह-
ज्वलनाहुतिस्त्रिजटयाऽनुगता ॥३७॥
मुखेन्दुमरुणत्विषी सततचिन्तया बिभ्रतं
कपोललुठितालकं विगलदश्रुणी लोचने ।
तदीयमवलोकयन्व्रजति मार्दवं चेतसि
क्षपाचरगणः श्रुतं सपदि शक्लमुत्प्रेक्षते ॥३८॥
विकल्पधटितं स्वयं दिशि भवन्तमालोक्य सा
चिरेण खलु निर्घृणः स्मृतिपथे कृतोऽयं जनः ।
इति प्रजहतो मुहुर्विरचिताञ्जलिर्विष्टरं
करोति तव विद्विषश्चकितदृष्टिकृष्टायुधान् ॥३९॥
भविष्यति पुनस्तव प्रियसमागमात्सम्मदं
शुचं परमचिन्तया हृतरतिः स्म मैवं गमः ।
इतीव रशनागुणः पतति पादयोर्निस्वन-
न्विहाय तव योषितः प्रतिपदं नितम्बस्थलीम् ॥४०॥
प्रयाति विरहाहितस्मरहुताशनेन व्यथा-
मिहोपरचितस्थितिः प्रियतमः पुरा तप्यते ।
इतीव हृदयं चिरस्तिमितलोचनान्तच्युतै-
स्तनोति नयनाम्बुभिः श्वसितभिन्नधराकणैः ॥४१॥
इति व्यथितचेतसं समनुनीय पृथ्वीसुतां
धृतोच्छिखशिखामणिर्मणितपूरिताशामुखः ।
निहत्य तव विद्विषो गगनमुत्पतन्भोगिभि-
र्नियम्य हरिवैरिणा हुतभुजाऽहमादीपितः ॥४२॥
सतैलपटवेष्टिता झटिति विस्फुरन्ती भृशं
समीरणरणच्छिखापटलपातपीतासृजा ।
ममावयवमंजरी क्षणमदाहि सख्या गुरोः
स्वकर्मनिरते जने नहि भृशायते सङ्गतम् ॥४३॥
स्फुलिङ्गहतनिस्वनद्युवतिवृद्धरक्षोद्यत-
क्षपाचरकुलाकुलं क्षुभितभीतगुञ्जद्गजम् ।
गृहव्यपहताहितप्रचुररत्नरथ्यान्तरं
मया वियति वल्गता मुहुरकारि धाम द्विषाम् ॥४४॥
हतीरितमथापदाममृतबिन्दुनिष्यन्दि त-
न्निशम्य वचनं परं शमनमुन्नतस्तेजसा ।
जगाम सह सेनया नृपसुतः पयोधेस्तटं
तटाचलगुहाऽऽहृतप्रहितवारिवृद्धध्वनिम् ॥४५॥
भुवनमहितौ मर्यादासु स्थितेरनतिक्रमा-
ज्जनितयशसौ गाम्भीर्येण त्वरावदुपेयतुः ।
उदधिरिषुणा भिन्नस्तस्मिन्महाय महीयसि
प्रथितमहसि प्रेमाकृष्टो विभीश्च विभीषणः ॥४६॥
इति श्रीकुमारदासस्य कृतौ जानकीहरणे त्रयोदशः सर्गः ।
N/A
References : N/A
Last Updated : September 29, 2022
TOP