जानकीहरणम् - दशमः सर्गः

'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते,


नयेन नयतस्तस्य राज्यं राजीवचक्षुषः ।
ततः शक्रसमानस्य समानामयुतं ययौ ॥१॥
अथालक्ष्यत तद्देहे काठिन्यरहितत्वचि ।
पलितं विस्रसावल्लीपुष्पहास इव क्वचित् ॥२॥
पलितच्छद्मना दोषा सर्वकालसमुन्नते ।
जरसा शिरसि स्पृष्टो न विषेहे महारथः ॥३॥
अङ्कमन्यतरेद्युः स्वं समारोप्य बलाद्वली ।
नाथो भुवः समज्यायां सुतं ज्यायांसमब्रवीत् ॥४॥
मामियं प्राणनिर्याणवैजयन्ती पुरःसरी ।
रक्ताक्षवाहनादेशदूती संसेवते जरा ॥५॥
अङ्गानि जरसा तात स्पृहा कामेषु निर्विदा ।
तुल्यमेवोपनीतानि शैथिल्यं नः शनैः शनैः ॥६॥
निवर्तन्ते हि कामेभ्यो भद्रा राघवदन्तिनः ।
कालेन शिरसि न्यस्तैः श्वेतकेशशिताङ्कुशैः ॥७॥
उभे वक्षसि वश्यानां तिष्ठतो रक्तकर्कशे ।
यौवने वनिता वल्कसन्ततिर्वार्धके च नः ॥८॥
कृतशस्त्रो न यो जिष्णुर्यश्चाढ्यो यज्ञनिःस्पृहः ।
कामी यश्च जरन्नेते क्षत्रवंशेषु कत्त्रयः ॥९॥
पादशेषेऽपि वैराग्यं न यस्य पुरुषायुषि ।
लक्ष्यते कीदृशी तस्य जनस्य हृदयालुता ॥१०॥
नातिविस्त्रसया भिन्ने देहे ना तप्यते तपः ।
इतरत्र तपस्यायाश्चिरं जीर्णे हता गतिः ॥११॥
मन्दशक्तीन्द्रियश्च्योतलालाविच्छुरिताधरः ।
अस्फुटस्मृतिचेष्टाभिर्बालवृत्तमिवाचरन् ॥१२॥
मृणालवलयच्छेदतन्तुजालसमत्विषः ।
दधानो यौवनोद्दाहभस्मेव पलितच्छटाः ॥१३॥
प्रत्याशा जीविते जीर्णवयसो मे मुमूर्षतः ।
प्रथयन्निव नास्तीति मूर्ध्रस्तिर्यग्विकम्पनैः ॥१४॥
दन्तकुन्तशतैरुग्रैर्मृत्योः सङ्कटमाननम् ।
प्रवेष्टुमिव बिभ्राणः कायसङ्कोचखर्वताम् ॥१५॥
बिभ्रदातङ्कनिर्मांसव्यक्तलक्ष्यसमुद्गमाः ।
वीचीरिव जरानद्याः पर्शुकास्थिपरम्पराः ॥१६॥
निर्दन्तत्वादसंस्कारं मिथो मोहादसंहितम् ।
मुष्टिन्धय इवास्पष्टं वदन्नम्बूकृतं वचः ॥१७॥
भिन्नभ्रुवमुदस्तास्रां किञ्चित्कम्पितमस्तकाम् ।
नम्रो गद्गदितालापामनुनेतुं जरामिव ॥१८॥
विधित्सन्नप्यशक्तिष्ठः स्वदेहवहनेऽपि सः ।
वार्धक्ये धर्मतो मूढः तपः कीदृग्विधस्यति ॥१९॥
यतो यातुस्तपस्यायामरण्यवसतिं त्वया ।
मा जन्यश्रुप्रवर्षेण प्रत्यूहो मे विरागिणः ॥२०॥
अनुशिष्टिः प्रकृत्यैव भद्रे भवति कीदृशी ।
प्रीतये मनसः स्नेहकातरस्य निगद्यते ॥२१॥
औदासीन्यं यतः शत्रुरुदासीनश्च मित्रताम् ।
मित्रं भक्तिदृढत्वं च याति तद्वक्तुमर्हसि ॥२२॥
लोकसंग्रहकामेन शत्रुभावमनिच्छता ।
निन्दनीयं न तत्तस्य ख्यातिं यो येन वाञ्छति ॥२३॥
सुभगङ्करणीवृत्तिः साम्नः स्वपररञ्जनी ।
नायःशूलिकतेत्याहुर्नये निष्णातबुद्धयः ॥२४॥
जिघांसुभिरपि प्राज्ञैः योक्तुं सामैव साम्प्रतम् ।
रञ्जयन्ति मृगान् गीतैः बिभित्सन्तो मृगायवः१ ॥२५॥
साम शाठ्यं जनो वेत्ति दानादत्यन्तवर्जितम् ।
औशनं साम दानस्य युक्तं तत्साधुमात्रया ॥२६॥
मा दा रहितसम्मानं त्यक्ष सत्कारसामनी ।
दूषितः कृतिनो नीतौ वित्तं विश्राणितं विदुः ॥२७॥
नेता निहन्ति दुर्धर्षं शत्रुगृह्येण शात्रवम् ।
घनेनेव स्फुलिङ्गार्चिःप्रावृतं पिण्डमायसम् ॥२८॥
उपजापहृते स्वामिस्नेहसीमि्न पराश्रयम् ।
मौले वाच्छति मेदिन्याः पत्युः पातो न संशयः ॥२९॥
इतरोपायदुःसाध्ये चण्डदण्डो महीपतिः ।
अदुष्टायत्यसौ नीतेरश्नाति विपुलं फलम् ॥३०॥
न दण्डेन विना शक्या गौरव्याहति रक्षितुम् ।
इति प्रत्येति मुग्धोऽपि वल्लवः किमु राजकम् ॥३१॥
त्यक्तदण्डः पदं वांछन्नगृहीतजगत्करः ।
क्षोणीपतिः पतत्याशु जराक्रान्त इव ध्रुवम् ॥३२॥
युक्तिमित्थमुपायानां कुर्वाणस्य चतुष्टयीम् ।
परैरिन्दुप्रभागौरं व्रजत्यक्षय्यतां यशः ॥३३॥
शूरं पुरुषसारज्ञं नीतौ पटुमलम्पटम् ।
वर्धयन्ति नृपं कोशैः सम्यक्संरक्षिताः प्रजाः ॥३४॥
लम्भनीयः पदं नोच्चैर्गुण्योऽप्यन्वयवर्जितः ।
रत्नाढ्यमपि कुर्वीत मूर्घि्न कः पादमण्डनम् ॥३५॥
गुणैः कैरप्यविख्यातो वंशेनैव विभावितः ।
मूर्खो वर्ज्यः कुलीनोऽपि मातङ्गः इव भूभुजा ॥३६॥
तद्युक्तमुपधाशुद्धमन्वयेन गुणेन च ।
साचिव्यं लम्भयन्मौलं न प्रमाद्यति भूपतिः ॥३७॥
यस्मिन्कृत्यानुरोधेन सौहृदं वितनोति यः ।
स तं त्यजति कृत्यान्ते तीर्णतोय इव प्लवम् ॥३८॥
यौ तु निष्कारणामुक्तस्नेहपाशौ सुहृत्तमौ ।
मृत्युनैव तयोर्भेदो देहजीवितयोरिव ॥३९॥
जगद्रक्षन्ति कीनाशराजराजपिनाकिनः ।
दण्डद्रविणदुर्गैकसङ्गिनः किमु राजकम् ॥४०॥
इति प्रकृतिवर्गादिनिर्णयेषु नयाश्रयः ।
क्षपितान्तर्बहिःशत्रुः शाधि साधु वसुन्धराम् ॥४१॥
इत्थं वादिनि राजेन्द्रे रामो मौनमधिश्रितः ।
शोकेन हदयं वाष्पैर्ववर्ष हृदयाविधा ॥४२॥
ततो भद्रासने भद्रं स निधाय निधिः श्रियः ।
निर्भरीकृतसम्भारः प्राभिषिक्तो महीपतिः ॥४३॥
रुरुषे पृष्ठसंविष्टग्रन्थिमन्थरयातया ।
स्मारयित्वा वरो वीरं राज्यं मन्थरया तया ॥४४॥
चतुर्दश दशग्रीवशत्रुमिन्द्रसमः समाः ।
आदिदेश ततो वस्तुं वनेषु वनजेक्षणम् ॥४५॥
अनिन्द्यजानिनारूढो निर्जगाम पुरः पुरः ।
कृतप्रस्थानसौमित्रिः स्फुरत्केतुरथो रथः ॥४६॥
अश्रुभिर्हृदयं सीता निजमेव न केवलम् ।
प्रेक्षितस्य१ जनस्यापि चकारार्द्रं वनाध्वनि ॥४७॥
जगन्नेत्राभिरामस्य रामस्य रहितागसः ।
शक्लस्य२ त्यागिनं देवं घृणयेवासवो जहुः ॥४८॥
न्यवर्तत परित्यज्य क्षत्ताऽथ क्षत्रियत्रयम् ।
ऊढाश्रु वलितग्रीवं चिरं तेनैव वीक्षितः ॥४९॥
द्वित्राण्येव रथं त्यक्वा पदान्याधाय निःसहा ।
येय३मद्य कियद्दूरमिति पप्रच्छ मैथिली ॥५०॥
रामहस्तस्थशाखाग्रकल्पितातपवारणम् ।
प्रस्थानमभवत्तस्यास्तदग्रेसरलक्ष्मणम् ॥५१॥
ययुर्भागीरथीतीरं पश्यन्तः सोत्पलाम्भसः ।
इक्षुशाकटशालेयेक्षेत्रानुत्तरकोसलान् ॥५२॥
अथानासाद्य कालिन्दीमुल्लंघ्य सरितं दिवः ।
भरद्वाजाश्रमं पुण्यं चित्रकूटस्य चाध्वनः ॥५३॥
उक्वा नदनदीदेशैश्चिह्नं वृक्षक्षमाधरः ।
याते राजन्यभोगीने राघवोऽपि गुहे गृहम् ॥५४॥
सपत्न्यौ सरितां पत्युः सुमित्रात्मजधीवरैः ।
चित्रकूटमकूटज्ञः प्रीतः प्रोत्तारितो ययौ ॥५५॥
ततः सीतामुखाम्भोजभ्रमरत्वे कृतस्पृहम् ।
नष्टैकदृष्टिमस्त्रेण बलिपुष्टं चकार सः ॥५६॥
ततः प्रकृतिसङ्घाटो वीरः केकयवंश्यजः ।
शोकद्विगुणितं बिभ्रद्ययौ रामाश्रमं श्रमम् ॥५७॥
निर्घृणो राजघः कश्चित्सम्प्राप्त इति साधवे ।
कथ्यतामिति तद्वाक्यं द्वारि शुश्राव राघवः ॥५८॥
अनुज्ञातोऽनुजस्तेन पर्णशालामथाविशत् ।
द्वारबन्धातिरिक्तेन किञ्चत्तिर्यक्कृतोरसा ॥५९॥
भरतः शोकसन्तप्तो राममादाय पादयोः ।
उक्वार्येति सकृद्दीनः पुनर्नोवाच किञ्चन ॥६०॥
ततः श्रुत्वा गुरोरन्तं स दुःखेन हदिस्पृशा ।
साभिषेकमिवास्रेण चक्रे कर्मौर्ध्वदैहिकम् ॥६१॥
शपमानमथ स्वस्मै भरतं भूतिनिःस्पृहम् ।
गर्हयन्तं च कैकेयीं रामो वक्तुं प्रचक्रमे ॥६२॥
न स्मरामि गुरोराज्ञां ज्ञात्वा जातु विलंघिताम् ।
यतस्तातस्य नो हन्तुं सदृक्षं समयं हि नः ॥६३॥
समयस्य गुरोरिन्द्रलोकस्थस्य विलङ्घने ।
बुद्धिर्जनि पुनर्मैव निर्विशङ्का च तावकी ॥६४॥
पूजनीया च ते देवी पत्युः सत्यानुपालिनी ।
दूषयिष्यति पूज्येषु पूजावैमुख्यमायतिम् ॥६५॥
स्वयंकृतेन दोषेण गुरुर्यो येन लज्जते ।
तेन तत्सन्निधौ तद्वानन्योऽपि न विनिन्द्यताम् ॥६६॥
इति व्याहृत्य नम्राय ददौ दीनाय पादुके ।
मर्माविधि मरौ घर्मे वारि वारीष्यते यथा ॥६७॥
द्विधाकारमिव ज्यायान्भरतं हदयं चिरम् ।
दर्शयन्तं परिष्वङ्गप्राप्तसान्त्वं व्यसर्जयत् ॥६८॥
ततस्तं त्यजता शैलं विराधो रावणारिणा ।
दृष्टस्तनूनपादर्चिर्बभ्रुः पञ्चवटीपथे ॥६९॥
हरन्तमथ वैदेहीं तं निहत्य निशाचरम् ।
विवरिष्यत्कथावस्तुं सङ्खिप्येव व्यदर्शयत् ॥७०॥
ववृते विवृते तस्य रङ्गत्सारङ्गशावकैः ।
पञ्चवट्याश्रमे रम्ये वासो वासववर्चसः ॥७१॥
अथ रामं वृषस्यन्ती प्रपेदे नैकसीसुता ।
प्रचिन्तेव दरिद्रस्य स्थूललक्षं नरेश्वरम् ॥७२॥
सीताविद्रावणक्रुद्धश्चकर्त कृपया समम् ।
लक्ष्मणस्तन्मुखाम्भोजकर्णिकामथ नासिकाम् ॥७३॥
भ्रातृद्वये तथाहूते शस्त्रैर्वर्षति राघवौ ।
पर्यवारयतां क्षिप्रं क्षुरप्रप्रकरैर्बलम् ॥७४॥
खरदूषणयोर्युद्धे धारामेकधनुर्धरः ।
अदीधपत गृध्राणां व्रातं सत्यव्रतोऽसृजः ॥७५॥
सीता मस्करिणं कञ्चिद्ददर्शाश्रममागतम् ।
दाण्डाजनिकमुत्तुङ्गजटामण्डितमस्तकम् ॥७६॥
मृगव्याहृतराजन्यो वर्णिलिङ्गी निशाचरः ।
उग्ररूपो निजं रूपं घोरं प्रादुरबीभवत् ॥७७॥
दशानामुग्रतेजस्कं रूपधेयमधिश्रितम् ।
शिरसामस्य पश्यन्ती भीत्या कम्पत मैथिली ॥७८॥
प्रदीपमिव तत्तेजःपरिष्कृतदशाननम् ।
असोढमरुतं द्रष्टुं नात्यासन्नं शशाक सा ॥७९॥
रामारत्नमसौ रामनामाक्रन्दिदं वचः ।
जगाद जगदीशस्य क्षेपदुष्टं क्षपाचरः ॥८०॥
सारङ्गाक्षि शरस्तस्य केवलं तु खरे खरः ।
न त्रिलोक्याविभौ भद्रे रणे दूषणदूषणः ॥८१॥
लब्धाभया बलनिरीक्षणदोहदेन
द्वारि स्थिता निजपुरप्रवरस्य सिद्धाः ।
ऐरावतद्विपगतेन सहासगर्वं
दृष्टा मया सुरपुरं व्रजता कटाक्षैः ॥८२॥
अन्यायितोऽहमहमप्यनुवृत्य सेवां
निर्जीविको मम हृतं भवनं पिशाचैः ।
इत्युन्नदन्भ्रमति मत्प्रतिहारमेत्य
राजाङ्गणे सुरगणः सह लोकपालैः ॥८३॥
स्पष्टोत्पिष्टवृहत्त्रिविष्टपबलं बाहुं बहुक्षोभित-
क्ष्मापातालतलं तलेन दलितश्वेताचलेन्द्रं मम ।
नो वांछत्युपधानभूतमबले धन्या सुरस्त्रीषु का
तल्पेनल्पविकल्पजल्पमधुरक्रीडारसे सेवितुम् ॥८४॥
उर्वश्या परिवीजनेषु मधुरं नृत्तं यथा हेलया
तन्वन्त्या जितशारदेन्दुकिरणच्छायोलसच्चामरम् ।
आसज्य स्वयमङ्गदस्य शिखरे निर्मोचयन्त्या पुनः
स्नेहस्विन्नविवेपमानकरया सोऽयं भुजः स्पृश्यते ॥८५॥
एकस्मिंछयने मया मयसुतामालिङ्गघ निद्रालया-
मुन्निद्रं शयितेन मच्चरणयोः सम्बाहनव्यापृता ।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता
हर्षावेशसमर्पितानि पुलकान्यद्यापि नो मुञ्चति ॥८६॥
अक्षान्दीव्यति दानवेन्द्रसुतया सार्धं स्मरार्ते मयि
क्रीडायत्नपरिश्रमः पण इति श्रुत्वा गतात्सह्यताम् ।
द्यूतं कारयति प्रयोगचतुरा रम्भोरुरम्भाह्वया
मत्तो मन्मथवस्तुसंहितविधौ वृद्धौ विवृद्धस्पृहा ॥८७॥
सर्वस्वर्गवराङ्गनाधृतिहृति प्रेमप्रधानं मयि
त्रैलोक्याधिपतौ विधाय हदयं याया जगत्पूज्यताम् ।
नारीमाश्रयसम्पदेव नयति श्रेयस्करीमुन्नतिं
मान्या मानिनि कस्य धूर्जटिजटाजुष्टा न जह्नोः सुता ॥८८॥
हस्तौ पल्लवकोमलौ करयुगेनादाय वासः शनै-
रन्येन व्यपनीय पाणियुगलेनामृश्य काञ्च्यास्पदम् ।
मय्यालिङ्गति बाहुभिः सुबहुभिः शेषैर्विलक्षस्मित-
ज्योत्स्नासेकमनोहराधरपुटं वक्त्रं स्वयं दास्यसि ॥८९॥
इत्युक्वादाय रक्षःपतिरवनिसुतामुत्प्लुतो मीनजालै-
श्चित्रं व्योमाम्बुराशिं घनपवनरयास्फालगुञ्जद्घनोर्मिम् ।
पोतेनेव प्रकम्पध्वनिनिवहमसौ बिभ्रता पुष्पकेण
स्फूर्जत्सीतेन यात्रामनुपहतजवव्यापिनीमाललम्बे ॥९०॥
इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्ये
दशमः सर्गः समाप्तः॥

N/A

References : N/A
Last Updated : September 29, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP