संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| चतुर्दशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - चतुर्दशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत चतुर्दशः सर्गः Translation - भाषांतर अनुमतेन नृपोऽथ पयोनिधे-र्नयधनैरभिमन्त्र्य हरीश्वरैः ।नलमयोजयदूर्जितविक्रमंसपदि सेतुविधौ विधिकोविदम् ॥१॥नृहरिणा हरिणाधिपगामिनास्थितिभुजाऽतिभुजा गिरिदारणेहनुमताऽनुमता सह निर्ययौकृतरसा तरसा कपिसंहतिः ॥२॥तलगतं श्रमवारि करद्वयक्षत-शिलाशकलस्य रजःकणैः ।समवधूय विधाय विधातरिप्रकृतसिद्धिसुखाय नमस्क्रियाम् ॥३॥रचितगर्जितमूरुमुरुं दृढंसमभिहत्य करेण सगर्वितम् ।विपुलपुच्छगुणैरकृतान्तरंपटु नियम्य कटिं कठिनायतैः ॥४॥बलविशेषपरीक्षणकारणंनदनदीशतनादिमहीभृतः ।समभिहत्य तटं रटनस्फुट-स्फुटितशीर्णशिलानिकरं करैः ॥५॥समवितानितहुङ्कृतिवानरै-र्विनमितस्य ररास महीभृतः ।विपुलमूलविकम्पनकम्पिताविनमदुन्नमदंशवरा धरा ॥६॥अथ विपाट्य नदीरुचिरं चिरंदधतमग््रयलताभवनं वनम् ।अभृत नित्यगतेरसुतः सुतःप्रियतमो भुजबन्धनगं नगम् ॥७॥ग्रहगणः शिरसा दिशि पातित-श्चलितमूलधुतं सरसातलम् ।अवनिमण्डलमाशु जगत्त्रयंमथितमुद्धरणे धरणीधरैः ॥८॥निकटभूधरपातरटत्तट-स्फुटनसञ्जनितो गिरिनिस्वनः ।बधिरतामनयद्वलवद्वल-ध्वनितसंवलितो वलयं दिशाम् ॥९॥सगवयाऽगवया गिरिमेखलास्वनवता नवताडितभूरुहा ।द्विपतता पतता शिरसा मुहुःशकलिता कलितापजलाशया ॥१०॥विनमितः परिरभ्य महागिरिःकपिभुजस्फुटपिष्टरटत्तटः ।उदवमत्सवमुग्रमिवासृज-श्चलितधातुजलं विवराननात् ॥११॥फणिनि मूलमघः परिकर्षतिप्रसभमुत्क्षिपति प्लवगे शिरः ।मुरुरवं दिशि भैरवमुत्सृजन्उपतटं त्रुटति स्म धराधरः ॥१२॥विनमितस्य करेण महाहरेःक्षितिभृतो गुरुमूलतलोपलः ।समुदियाय भुवस्तलमन्यतःपटु विपाट्य सपत्तनकाननम् ॥१३॥सपदि गौरवगौरवसंहिताभृशमकम्पत कम्पतदाकुला ।क्षितिधरे चितरेचितनिर्झरेरुतमतन्वति तन्वति कम्पिते ॥१४॥समुपगूढतटो हरिणा दृढंक्षणमलम्बयदर्धविनिर्गतम् ।निजमुदारदरीमुखतोरसन्रसनमुग्रमिवाजगरं गिरिः ॥१५॥अहिकुलं ददृशे मणिभास्वतिक्षितिधरोद्धृतिरन्ध्ररसातले ।सरुधिरव्रणगर्भविभावितंविपुलमन्त्रमिव स्फुरितं भुवः ॥१६॥क्षणमुदस्य धृतस्य महीभृतःचपलमूलशिफा इव भोगिनः ।घनरसातलपङ्कवृतोपल-श्रितबृहत्तनवो विललम्बिरे ॥१७॥घनमिते नमिते गिरिसञ्चयेवरवयोरवयोगशुभद्रुमे ।स्रुतदकं तदकम्पत मण्डलंकृतरुतं तरुतन्त्रधरं भुवः ॥१८॥स्फुरितपङ्कजरागमणित्विषिव्यवहृताचलधामनि भैरवम् ।हदयमांसमिवासृजि सम्प्लुतंखनिरलक्ष्यत रत्नचिता क्षितेः ॥१९॥शिखरिणः कपिसैन्यसमुद्धृताःस्वपरिणाहनिराकृतमम्बरम् ।अगमयन्निव दुर्धरविग्रहानिजसमुद्धृतिरन्ध्ररसातलम् ॥२०॥द्रुततरं ततरन्ध्रशताननै-र्ध्वनिकरं निकरं धरणीभृताम् ।गुरुतरं रुतरङ्गिमृगं घृत-द्रुमवुरं मधुरं शिखिवल्गितैः ॥२१॥रवितुरङ्गखुराहतमस्तकंध्वनिकृतः परिगृह्य वनौकसः ।पदभरेण ययुस्तटमम्बुधे-र्विनमितोन्नमितक्षितिमण्डलम् ॥२२॥पिबति सर्वमसंख्यगुहामुखै-र्नियतमेष पयोधिमगाधिपः ।इति चिराय सविस्मयमीक्षितोनृपसुतेन समीरणनन्दनः ॥२३॥अथ ससर्ज ससर्जवनाकुलंद्युतिमदभ्रमदभ्रमदद्विपम् ।भयसरोगसरोगतपन्नगंपथि घनस्य घनस्यदनादितम् ॥२४॥तटयुगाततवारिदपक्षति-र्गुरुदरीमुखलम्बितपन्नगः ।अनुचकार पतत्पतिमुत्पतत्-फणधरोद्धरणे धरणीवरः ॥२५॥क्षितिभृताऽभिहतादथ वारिधेःसमुदिताऽभिनिहत्य विरोचनम्अकृत मीनकुलाकुलितान्तरागुरुपयस्समितिर्शमितिध्वनिम् ॥२६॥अभिहतो गिरिणा वडवानल-प्रबलरोषधरो जलधिद्विपः ।रचयति स्म सुवेलमहातरौनियमितस्थित एव गतागतम् ॥२७॥उपलसङ्कटकैः कटकैस्तताःकपिबलेन नगा न न गात्रगाः ।कृतरवं समुदा समुदासिरेपथि रवेरवितारविताण्डजाः ॥२८॥प्रविदधुर्गिरिभङ्गसमुत्पत-द्विविधधातुरजांसि मरुत्पथम् ।सपदि चित्ररुचं घुणविक्षत-त्रिदशचापकणा इव विच्युताः ॥२९॥कलकलैर्विलसन्नगपन्नग-स्मितमतिः स्म वलारिणि वारिणि ।उदधिरे वरसंहतिसंहतिक्षितिधरो मृति विध्यति विध्यति ॥३०॥हतसमुत्पतितोदकसन्तति-स्फटिकदण्डयुतं क्षणमाबभौ ।किरणमौक्तिकजालवृतं तदासकलचन्द्रसितातपवारणम् ॥३१॥प्रथममुद्गतवारिततिः पत-द्गिरितटाहतकोटिरुदन्वतः ।क्षणमरोचत वृष्टिषु बिभ्रतोभुज इवाद्रिवरं मुरविद्विषः ॥३२॥हतकपोतकपोतगलच्छविःपरिततान तता नगसम्प्लवे ।द्रुतवितानवितानमभिस्फुट-त्तटपरागपरागततिर्नभः ॥३३॥पटुविकम्प्रविकम्पततान्नरैरलवने लवनेन मनोहरैः ।अभिससर्प ससर्पकुलानगैःप्रहितवारितवारिततिस्तटात् ॥३४॥पतितशैलगुहाशतपूरणेरजतशैलनिभो जलबुद्बुदः ।जलनिमग्नसुरद्विपपुष्कर-श्वसितसृष्ट इवाम्बुनि पप्रथे ॥३५॥प्रचलतुङ्गतरङ्गदलान्तर-स्फुरितविद्रुमकेसरसम्पदि ।क्षुभितसिन्धुसरोरुहकर्णिका-वपुरुवाह पतत्कनकाचलः ॥३६॥कपिधुताचलधातसमुत्पत-ज्जलधिखण्डनिरस्तनिपातितः ।भुवि विवेष्टनपिष्टगिरिद्रुमःपृथुतनुः स्फुरति स्म तिमिङ्गिलः ॥३७॥असमकं समकम्पत वारिधेःस्वरचिता रचिता ततिरूर्मिभिः।अहितताऽऽहिततालकृतध्वनि-र्वलयिनी लयिनीव भुजावली ॥३८॥विससृपुः सितशंखविभक्तयःसलिलवेगधुताः परितस्तटम् ।शिखरिणाऽभिहतस्य पयोनिधे-र्विदलितास्थिलवा इव भूरिशः ॥३९॥गिरिहतक्षुभितो मकराकर-स्तटभुवं परिलङ्घ्य कटु क्वणन् ।अपससर्प नगोद्धरणाहित-प्रकटरन्ध्रनिपीततनूकृतः ॥४०॥द्रुततरङ्गतरङ्गमुखभ्रमन्-भुजगराजतनुस्पृशमानवः ।गगनगेन नगेन महार्णवःपरिननाद ननादरतोहतः ॥४१॥निहतये नु विरोचनतेजसःशशिनि लक्ष्म नु मार्ष्टुमसङ्गिनी ।उदपतत्कपिघूर्णमहीधर-क्षुभितभिन्नमहार्णवकन्ततिः ॥४२॥क्षितिधराहतदूरसमुत्प्लुत-प्रबलवारिरयेण निपातितः ।तनुभरेण रुजन्विषवह्निनातटवनानि ददाह महोरगः ॥४३॥अधिपयोधि नभश्चरसंहति-र्नभसि मीनततिर्भुवि तद्द्वयम् ।इति जगत्त्रितयं कपिभिः क्षणा-द्विवशजङ्गमवृत्ति विमिश्रितम् ॥४४॥उपनिषेदुरदृष्टतटद्वयानभसि दीर्घपरिभ्रमणातुराः ।सलिलवेगवशेन परिभ्रमन्महिषशृङ्गवनेषु शिखण्डिनः ॥४५॥प्रतरतो रदिनः पुनरादधौमकरकृत्तकरस्य करश्रियम् ।क्षतजगन्धहतः सरसव्रण-ग्रसनगृध्नुरहिस्तनुसम्पदा ॥४६॥निनदता नदताडितमेखलंविगलताऽगलतावृतसानुना ।असुभुजा सुभुजाऽसुरसंहतिःप्रविदिता विदिता दिशि भूभृता ॥४७॥अथ निरीक्ष्य चिरं हरिचेष्टितंसपदि वन्ध्यमवन्ध्यपराक्रमः ।इदमुवाच गभीरतया जित-क्षुभितसिन्धुरवं नृवरो वचः ॥४८॥त्यजत सेतुविधानमनोरथंक्षुभितसम्पतितास्तिमिशङ्कया ।इह मिलन्ति तिमिङ्गिलपङ्क्तयःसलिलधौ तिमितं तिमितं नगम् ॥४९॥गिरिकुलानि कुलानि समीरण-क्षुभितरङ्गितरङ्गिजलोच्छ्रयम् ।शरभवन्ति भवन्ति न किञ्चनद्विपहितानि हितानि महोदधिम् ॥५०॥अयमुपाहितसेतुरकम्पित-स्थितमहातिमिदेहमहीधरैः ।नयतु वारिधिरेव परं तटंबलमिदं सकलं शरताडितः ॥५१॥मकरदन्तिगतो नृपलीलयाजलधिमुत्तरतु प्लवगेश्वरः ।भुजगसैन्यवृतः स्फुटविद्रुम-द्रुमवनं रदनेन विभञ्जयन् ॥५२॥मदितरोऽदितरोषधरै रण-क्षमकरैर्मकरैर्गजसन्निभैः ।ध्रुवदकं वद कम्पतिमाकुलंतरति कोऽरतिकोपवृतासुरम् ॥५३॥इति गिरा चलितो दृढकीलन-ध्वनितकम्पितदिग्विदिशो नलः ।मलयकुञ्जदरीषु महीभृतःपृथुरुतः प्रथमं समवेशयत् ॥५४॥धृढसमर्पितमूलनिबन्धनंहरिवरः क्रमशो गिरिसङ्क्रमम् ।सपदि बन्द्धुमभेदनमम्बुधौशिखरिणां निकरैरुपचक्रमे ॥५५॥तटसमर्पितमूलनिबन्धनःपृथुधराधरसेतुरकम्पनः ।जलनिधौ मलयस्य महीभृतःप्रसरदङ्कुरवद्ववृधे शनैः ॥५६॥अभिहतो गिरिणा रवभैरवःपतिरपामनिमेषविलोचनः ।हदि जघान रुषेव महाकपिंसमुदितोदकसन्ततिबाहुना ॥५७॥शमितरेणुकरेणुकटद्रव-स्रुतिलवासितवासितकन्दरैः ।कपिरशङ्कमशङ्कमधिक्षिपन््रविदधौ ततधौततटं नगैः ॥५८॥अधिपयोधि नलेन निपातितःसलिलनादनिनादितदिङ्मुखः ।धुततिमिङ्गिलपुच्छहतः पुन-र्गगनमुत्पतितो जगतीधरः ॥५९॥भ्रमयति स्म चिरं हरिसैनिकैःकृतरवैर्गुरुविस्मयमीक्षितः ।कठिनपृष्ठतटे वपुरायतंदधति कूर्मपतिः पतितं नगम् ॥६०॥मलयशैलमुखाहितबन्धनःकपिभिरर्धकृतो गिरिसङ्क्रमः ।जलनिधौ निहितो जलवाञ्छयाभुज इवास महासुरदन्तिनः ॥६१॥अपहसन्निव फेनरुचा चिरंगिरिहतोदितकन्ततिबाहुना ।अभिजघान पयोनिधिरुद्धतःकुसुमभाजि सुवेलशिरस्तटे ॥६२॥परिसरस्थसरस्थपुटाचलक्षत-विमानविमानमहोरगम् ।विततरागतरागमणिप्रभा-जनितरङ्गतरङ्गकृतध्वनिम् ॥६३॥विततधातुरसं धरणीधरक्षत-कृतव्रणचक्रमिवाम्बुधेः ।अभिचकर्त नलोऽनलभासुरःसलिलपृष्ठतटं गिरिसेतुना ॥६४॥अवसितो नगसेतुरलक्ष्यतक्षिपति विष्णुवराहरदे भुवम् ।विषमकृष्टतया जलपृष्ठतःसमुदितः क्षितिपार्श्व इवैकतः ॥६५॥उदधिसेतुरगद्वयसङ्गतःसरलपुच्छविदारितदन्तिनः ।वपुरुवाह परं ग्रसितुं गजंप्रसरतोऽजगरस्य गरीयसः ॥६६॥जलधिखातकृतान्तरसङ्गिनिद्विरदयुद्धविधौ गिरिसङ्क्रमः ।मलयतुङ्गसुवेलसुरद्विपद्वय-बृहद्भुजबन्ध इवाबभौ ॥६७॥मलयकुञ्जसुवेलतटाश्रयःस्थिरतरा नु धराधरसङ्क्रमः ।उभयकोटिगतौ धरणीधरातुलयितुं नु तुला परिनिर्मिता ॥६८॥अपरसेतुपथस्य विधित्सयाकठिनकोटियुगे विनिवेशितौ ।अजिनि काचवरो नु वनौकसागिरिवरावपनेतुमितोऽन्यतः ॥६९॥जलमुदस्य तिमिङ्गिलसम्पदःप्रसभमुद्धरणाय पयोनिधेः ।पृथुदुरुद्धरमन्तकधीवर-प्रणिहितं नु दृढालिनिबन्धनम् ॥७०॥उत भुवः कुलिशायुधविद्विष-द्विषयचक्रनितम्बसमाश्रयम् ।घटनसन्धिवलीततिमध्यमंवलितमङ्गमगस्तनसम्पदः ॥७१॥प्रथमपश्चिमसागरविग्रहंविपुलमद्रियुगेन महीयसा ।अथ निवारयितुं दृढमन्तराविरचितं नु भुजद्वयबन्धनम् ॥७२॥अतिनिमग्रमदीयमहाशर-व्रणरुजाकृतकार्श्यविभावितम् ।लवणसागरदानवदन्तिनःप्रकटमस्थि नु वंशसमुद्भवम् ॥७३॥प्रथिमनि प्रथिते कृतकौतुकै-रुदधिमापनदण्ड उताहितः ।इति चकार मनो मनुवंशज-श्चिरविचारपरम्परमादृतः ॥७४॥समधिरूढसमीरणसम्भव-प्रणयदत्तकरो रघुनन्दनः ।अधिरुरोह धराधरसङ्क्रमंभुवि निषण्णमिवासुरदन्तिनम् ॥७५॥नृतिमिना दितनादितवीचिकंशुभवयोधनयोधनयोऽर्णवम् ।सपदि वानरवानरमत्यगात्पिहितवेलसुवेलसुदम्भसः ॥७६॥तटविशालकपोलतले चलत्-तपनमण्डलकुण्डलमण्डनम् ।विविधभूरुहषण्डविनिर्जित-त्रिदशनन्दननन्दनचन्दनम् ॥७७॥मदगजैरगजैरगनिर्झर-ध्वनितबृंहितबृंहितसूचितैः ।प्रविततं सततं सपयःकणैःसरसितैरसितैरपि वारिदैः ॥७८॥निकषणेन युगस्य हिरण्मय-ज्वलितरूपधरस्य विघृष्टया ।रविगतिं प्रथयन्तमुदारयाकटकभित्तिषु काञ्चनरेखया ॥७९॥हरिसमानसमानमृगान्वितंस भवनोपवनोपवृतान्तरम् ।तटगुहासु गुहासु समैर्विभिःकृतरवं शरवंशवनावृतम् ॥८०॥क्षणमवेत्य मृगं मृगलक्ष्मणःरचयति क्रमबन्धमिभद्विषि ।नखरधातभयेन विदूरतःपरिहृतं प्रसभं हिमकान्तिना ॥८१॥कृतदवारणवारणशोणित-स्रवसदारुणदारुणलुव्धकम् ।मकरसारससारसनिम्नगा-ततमवारितवारितदिग्गजम् ॥८२॥अधिरुरोह सुवेलमगं विभु-र्ज्वलितरत्नचयेन नभस्स्पृशा ।प्रतिजनं जनयन्तमनारतंगगनलग्नदवानलसंशयान् ॥८३॥तत्र स्थित्वा वरुणनिलयं वैद्रुमाणां द्रुमाणांभास्वत्तोयं किरणनिकरन्यस्तरङ्गैस्तरङ्गैः ।पश्यन्रेमे सततसलिलं ह्रासमुक्तं समुक्तंशक्रत्रस्तक्षितिधरशतस्यानदन्तं नदन्तम् ॥८४॥इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्येचतुर्दशः सर्गः समाप्तः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP