संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| एकोनविंशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - एकोनविंशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत एकोनविंशः सर्गः Translation - भाषांतर अथारिणा मर्मणि कालनेमिनारयादयश्चक्रनिभेन निर्वृतः ।कथञ्चिदेनं विनिगृह्य मारुतिःसमुद्वहन्भूधरशृङ्गमाययौ ॥१॥हरिर्भिषग्भूधरसानुतो नुतोमहौषधं प्राप्य मुदा ततस्ततः ।चकार रामावरजं हृतक्लमंपुनः समुन्मीलितवीक्षणं क्षणात् ॥२॥ततो रथः सारथिना मरुत्वतोमरुन्नदीमारुतकम्पितध्वजः ।अरान्तरासक्तपयोदखण्डकःप्रभोरुपानीयत सूनवे भुवः ॥३॥सुरेश्वरप्राजितृहस्तसङ्गिनाकरेण सव्येन स वासवोपमः ।तदन्यहस्तस्थशरासनः शनैःसमारुरोह प्रधृतं वरूथिनम् ॥४॥रणं दिदृक्षुः सुरसंहतिर्घनंसमाक्षिपत्ससम्मुखमागतं रुषा ।परस्पराघातनिवृत्तवृत्तितद्वलं च तस्थौ निहितेक्षणं तयोः ॥५॥पुरन्दरारातिमरातिसूदनःशरं सलीलं शरधेः समुद्धरन् ।उपाययौ सायकदष्टकार्मुकंरणे रथस्थं रथिको महारथः ॥६॥शरं सृज त्वं प्रथमं प्रतीच्छवेत्युदीरणानन्तरमिन्द्रविद्विषः ।विपाटयन्तः श्रुतिमस्य निस्वनै-र्निपेतुरुग्रैरभिराममाशुगाः ॥७॥विभिद्य रामच्छलमादिपूरुषंहृता यथा दुष्प्रसहेन पाप्मना ।प्रपद्य तिर्यग्गतिमस्य सायकाःक्षणेन पातालमभि प्रपेदिरे ॥८॥मुखैरसक्तं दशभिर्दशाननोनदत्तटित्सन्निभहेमभूषणः ।युगान्तमेघप्रतिमो महेषुभि-स्ततान धाराभिरिवान्तरं दिवः ॥९॥वनं ततस्तत्र शरप्रभञ्जन-क्षतावनम्रीकृतभूरुहौषधि ।महापगापातपरास्तनामित-स्फुटत्तटीकाननकान्तिमाददे ॥१०॥न केवलं वारिणि वारिधेरगै-र्नरेन्द्रसूनुर्विजयाय विद्विषः ।बबन्ध भानोरपि सेतुमायतंपथि प्रतानेन घनेन पत्त्रिणाम् ॥११॥ससर्ज पूगं विजयं यथा रिपु-र्नृपाय यावद्वयसं पतत्रिणाम् ।क्षणादवाप द्विगुणं ततः स्वयंकृतानि साधोर्हि फलन्ति भूरिशः ॥१२॥निरन्तराकर्षणसृष्टसम्पदःप्रसक्तसंचारविधिर्धनुर्गुणः ।ररक्ष वक्षो नृवरस्य रक्षसःकृतप्रणादं पततोऽस्य पत्त्रिणः ॥१३॥शरस्य मोक्षः प्रथमं महीभुज-स्ततश्च तद्वैरिशरीरविक्षतिः ।इति क्रमोऽगादनुमानगम्यता-मलक्ष्यवेगेषु शरेषु धन्विनः ॥१४॥असौ शरातानमयं मरुन्नदीविधाय रूपं पतिता नु सस्वना ।जयश्रियः सङ्क्रमणाय भास्वतःपथि प्रयुक्तो नु महेषुसङ्क्रमः ॥१५॥कटु क्वणन्तस्तपनस्य दीधितिंतिरोदधाना निकरेण पत्त्रिणः।विहाय बाणासनमस्य विद्विषःस्वयं विहन्तुं नु नभः समुद्गताः ॥१६॥बृहत्पृषत्कग्रथिता मरुत्पथेमृगं ग्रहीतुं द्विजराजशायिनम् ।प्रसारिता नु प्रसरं निरुन्धतीरविप्रभाया गुरुवागुराततिः ॥१७॥विधाय नाराचमयं समन्ततःसृजन्ति धारानिकरं नु वारिदाः ।इति क्षणं क्षीणमुखेन तत्रतद्वलेन तीव्रं मुमुहे महाहवे ॥१८॥अशेषमन्तःकृतसैनिकं तयो-र्बृहद्भुजस्तम्भनिबद्धमायतम् ।निरस्ततिग्मद्युतिरश्मि भूयसारुरोध तद्वाणवितानमम्बरम् ॥१९॥चकर्त शत्रोरधिजत्रु राघवःशरेण बाहुं शरसन्ततिच्युतः ।बभार तच्छेदविनिर्गतो मुहुर्दृढंकरोऽन्यो निपतच्छरासनम् ॥२०॥ततस्ततं घर्मजलस्य रेखयारिपुर्महेन्द्रस्य सुतस्य भूभुजः ।लुठज्जटासन्ततिवेल्लितं ज्वलत्तटंललाटस्य बिभेद पत्त्रिणा ॥२१॥अथ भ्रुवोरन्तरलक्ष्यहाटक-प्रदीप्तपुङ्खेण शरेण राघवः ।श्रियं ज्वलत्पिङ्गललाटतारका-मुवाह रूपस्य विरूपचक्षुषः ॥२२॥शरैरुपाक्रोशपदे नृपात्मजःशिरो रिपोरच्छिनदर्धभाषिते ।प्रणादतः शेषमुदीरयन्मुहुःशिरोऽपरं प्रादुरभूदविक्षतम् ॥२३॥ददर्श भल्लाभिनिपातपातित-प्रशीर्णमौलीनि समुद्गताननः ।मुखानि दन्तक्रकचक्षताधर-प्रवर्तितासृञ्जि निजानि राक्षसः ॥२४॥बृहद्विषत्सक्तपूषत्कपातित-स्वमस्तकप्रस्तरणे रथे स्थितः ।स युध्यमानो महिमानमाहवेविदर्शयामास नृलोकदुर्लभम् ॥२५॥तयोरयोवाणरयोपबृंहितस्फुट-द्ध्वनिस्फोटितकर्णमाहवम् ।गरुत्मदाशीविषपातदुःसहंनिरीक्षितुं कोऽपि शशाक तत्समम् ॥२६॥अथो हिताय प्रथितं मरुत्वतासुरद्विषो मर्म निगद्य मातलिः ।नरेन्द्रपुत्राय तनुत्रभेदिनंविचित्रपत्त्रं विततार पत्त्रिणम् ॥२७॥विकर्षणादस्य मरुन्मरुत्सख-प्रसन्नससुत्पुङ्खफलेन वेगिना ।स्वयं च तन्मर्म विवक्षुणायथा शरेण मूलं श्रवणस्य शिश्रिये ॥२८॥स तेन भीमं रसता भुजान्तरेगिरीन्द्रसारेण शरेण मर्मणि ।हतः सुराणामहितो महीयसापपात भीमेन रवेण रावणः ॥२९॥निकृत्य रक्षोऽधिपमर्म मार्गणःपपात पातालतले महीयसः ।कृतापराधो भुवनत्रयाधिपं निहत्यभीत्येव तिरोबुभूषया ॥३०॥अथ क्षितिस्तत्क्षणबद्धनिस्वनंचचाल भीतेव शरेण ताडितापपात वृष्टिः कुसुमस्य राघवेदिवो निवृत्तेव रिपोर्यशस्ततिः ॥३१॥सुता नरेन्द्रस्य परासुरीश्वरस्त्वयाविपक्षक्षतवृत्तिरीक्षिता ।इतीव काञ्च्या विनिपत्य पादयो-र्निरुध्यमानाऽपि ययौ रणाजिरम् ॥३२॥द्विधा न यातं निजमिन्द्रजिद्गुरौसुता मयस्योपततेऽपि वैशसम् ।शुचा नु रोषेण नु मुक्तनिस्वनंरुरोज पाणिद्वयपातनैरुरः ॥३३॥नृपात्मजासङ्ग्रहविग्रहेण यद्बभूव यत्नादपि तेन दुर्लभम् ।तमिन्द्रशत्रुश्चिरवाञ्छितंक्षणादवाप देव्या मृदुबाहुबन्धनम् ॥३४॥हृदि प्रियाऽभावकृशानुदीपिताभिदामुपैतीति यथाऽविशङ्किनी ।विलोचने तामनुतापविह्वला-मसिञ्चतामश्रुजलेन सन्ततम् ॥३५॥प्रियस्य बाणव्रणरन्ध्ररोधिनंमहीरजस्सञ्चयमश्रुवर्षिणी ।प्रिया परासोरपि खेदशङ्कयासकम्पहस्ता शनकैरपाहरत् ॥३६॥मयात्मजाया नयने मुहुर्मुहुःप्रियेण पूर्वं परिचुम्ब्य लालिते ।तदाऽश्रुभिश्चक्षुपुटान्तनिस्सृतै-र्हतस्य तोयाञ्जलिमस्य तेनतुः ॥३७॥पुराऽनुरक्तो रतिदायिनि प्रियःप्रियामुखस्यावयवेषु यत्र सः ।तदा तदापत्कृतशोकशोषितःस एव सावेगमकम्पताधरः ॥३८॥कृशोदरी काञ्चनकुम्भसन्निभंकुचद्वयं रावणमित्रमात्मनः ।गते दिवं तत्र विलोचनच्युतै-र्जलैरपस्नानविधावयोजयत् ॥३९॥शुचं मुखेन व्यपनीतरोचिषासुता मयस्य व्यथिताऽनुबन्धिनी ।विलापमेवं करुणं समाददे दिशिक्षिपन्ती कृपणे विलोचने ॥४०॥प्रियस्य सोऽयं पिशिताभिकाङ्खिभिर्वृकै-र्विकृष्यावयवोऽपि कम्पितः ।प्रहर्षमाशाविषयं विधाय मे पुन-र्यथाऽर्थावगमे निरस्यते ॥४१॥त्रिलोकभर्तुर्वनितासु तादृशीन काचिदासीदनवद्यलक्षणा ।अलक्षणायामपि यत्प्रसादतः स्थितिंलभेताविधवायशोमयीम् ॥४२॥इयानलं विग्रह एव मानिनांधुरि व्यवस्थापयितुं विचेतसाम् ।प्रियं सुरारिक्षतविग्रहेऽपि यद्यशोहरन्ति श्वसितं न साधवः ॥४३॥पुरन्दरानेन पुरा पराभवं कृतंकृथाभ्रेतसि माऽतिमानिना ।मुखादिमं दण्डधरस्य तेजस-श्च्युतं नमन्तं तव पाहि पादयोः ॥४४॥प्रवेपमानाधरपत्त्रसन्ततिंविलोलदृष्टिभ्रमरं त्वदिष्टये ।स्मरासिना देव निकृत्तमुज्वल-त्रिलोकभर्तुर्मुखपद्मसञ्चयम् ॥४५॥विधाय वित्तस्य कृते कृती जनःकुबेरवैरं सह बन्धुभिर्बुघः ।सति प्रवृत्ते परतः पराभवेकुलस्य कुल्यः कुरुते सहार्थताम् ॥४६॥गुरुर्गुरोरस्य गुरुप्रसादनेचतुर्मुख त्वं चतुरस्य नेक्षसे ।विकीर्यमाणं भुवि विष्ण्वरे-रिमं शिखासमूहं मणिवन्मनस्विनः ॥४७॥तथाऽतिदीनैः परिदेविताक्षरैर्नलोकपालेषु गतेषु विक्रियाम् ।अतः प्रमाणेन च शब्दमात्र-मित्युदीरितं तत्र जनेन देवताः ॥४८॥विपाण्डुगण्डाधरबिम्बसंश्रयाविशेषकालक्तकमण्डनश्रियम् ।सखीव तत्कालविधेयवेदिनीममार्ज तस्या नयनाम्बुसन्ततिः ॥४९॥जने विधिज्ञे विधिमौर्ध्वदैहिकंसुरद्विषः तन्वति तस्य वह्निना ।प्रिया ततः स्नानविधौ जलाशयंबलेन नीता परिगृह्य बन्धुभिः ॥५०॥असौ विभिन्ने चरमे च कर्मणिकृशानुतामाकरदाहगाहने ।अभिन्नवृत्त्योरिह युक्तिमावयो-र्भृशं भजेते इति नादमाददे ॥५१॥शिखापरिस्पृष्टशिरोऽवकुञ्चनात्करेषु मुष्टिं वलयन्तुमानिनः ।हतेऽपि सम्यग्ज्वलितं नभस्वतान भीतभीतेन हिरण्यरेतसा ॥५२॥पुमानमित्रस्य पुरं पुरातनःप्रविश्य मायामनुजो विभीषणे ।निसृष्टराज्यो रजनीचरैरसौसभां स भेजे परितः सभाजितः ॥५३॥निधिं कलानामथ लक्ष्मणान्वितंहितावहन्तं कुमुदस्य सैनिकाः ।प्रणेमुरिन्द्रद्विषदास्यनिर्गतंशिवेन रामाह्वयमिन्दुमादृताः ॥५४॥कृतास्पदं धामनि कौशिकद्विषोजयेन दीप्तं दशकण्ठसूदनम्हृताऽनुरागेण जगाम वीक्षितुंसुता नृपस्य त्रिजटादिभिर्वृता ॥५५॥विपाण्डुनो धूसरवेणिरोचिषःपदं दधत्या वपुरीक्षितुं मनः ।तया शुचःस्थानमुपाहिता रतिंप्रियस्य चक्रे गलदश्रुधारया ॥५६॥भयं विमृश्य प्रतिसंहृतेक्षणेजनापवादादथ रावणद्विषि ।मनस्विनी मन्युनिरन्तरा गिरःपरिस्खलन्तीरिति दीनमाददे ॥५७॥अयं सरोजस्य परम्परा भवन्वपु-र्विनिद्रस्य कटाक्षषट्पदः ।निपातितस्ते यशसो विपर्ययंमयि स्वयं पुष्यति वीर कीदृशम् ॥५८॥अविच्छिदामस्य विवृद्धिमेयुष-स्तवाननादर्शनजन्मनस्त्वया ।चिरप्रवृत्तस्य कृतं कृतात्मनाकथं न विच्छेदनमात्रमश्रुणः ॥५९॥दुःखासितामसुतरां सुतरां प्रपद्यवैवर्ण्यसम्पदमिता दमिता तपोभिः ।तस्थौ गुणैरविकलं विकलङ्कमेव-मुक्वा वचः क्षतमदान्तमदान्तमृत्युम् ॥६०॥शोकं तयाऽनुपरमं परमं प्रपद्यप्रोक्तं कृपारसहितं सहितं स बाष्पैः ।श्रुत्वा विशुद्धिजननं जननन्दनार्थंचक्रेनलं तरुचितं रुचितं प्रियायै ॥६१॥आत्मप्रभावरमितैरमितैरुदस्रंदृष्टाऽथ वानरबलैरबलैनमग्निम् ।क्षत्रौजसा कृतरसा तरसा विविक्षुःसा सत्यवाग्रसमयं समयं चकार ॥६२॥क्रोधाकृष्टत्रिदशवनितोत्तंसमच्छेदशास्यंचेतस्यस्मिन्विनिहितपदं तं समच्छे दशास्यम् ।नाथाकर्षं यदि हतमहासत्व सा राम दाहंगच्छेयं तद्रिपुहतमहासत्वसारामदाऽहम् ॥६३॥स्यप्नेनापीन्द्रशत्रुर्यदि सह न मया जातु वै श्वा न रेमेदाहः स्वल्पोऽपि मा भूत्तत इह सुमहत्यद्य वैश्वानरे मे ।वाक्यं स्मैवं सुदीना बहुविगलितदृग्वारिसत्याह तेनक्रूरं धाम स्वकीयं सपदि हुतभुजाऽवारि सत्याहतेन ॥६४॥इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्येएकोनविंशः सर्गः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP