संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|जानकीहरणम्| पञ्चदशः सर्गः जानकीहरणम् प्रथमः सर्गः द्वितीयः सर्गः तृतीयः सर्गः चतुर्थः सर्गः पञ्चमः सर्गः षष्ठः सर्गः सप्तमः सर्गः अष्टमः सर्गः नवमः सर्गः दशमः सर्गः एकादशः सर्गः द्वादशः सर्गः त्रयोदशः सर्गः चतुर्दशः सर्गः पञ्चदशः सर्गः षोडशः सर्गः सप्तदशः सर्गः अष्टादशः सर्गः एकोनविंशः सर्गः विंशः सर्गः जानकीहरणम् - पञ्चदशः सर्गः 'जानकीहरणम्' ह्या महाकाव्याच्या रचयिताचे नाव 'कुमारदास' होते, Tags : janakiharanamkumardassanskritकुमारदासजानकीहरणम्संस्कृत पञ्चदशः सर्गः Translation - भाषांतर अङ्गदाख्यमथ वानरवीरंरक्षसां पुरमजीगमदीशः ।वेदितुं चतुरुपायविधीनांकस्य गम्य इति कौशिकशत्रुः ॥१॥संसदं च विदितः सुरशत्रोःप्राविशत्स रहितादरवृत्तिःराक्षसानधिपथोपनिविष्टान्संस्पृशन्सपदि पुच्छगुणेन ॥२॥सन्निषद्य निभृतं स मुहूर्तंस्वागतादिविधिलम्भितमानः ।साधुरूढनयपद्धति पश्चा-दाददे वच इदं विनयस्थः ॥३॥निर्गुणोपि यदि शौर्यविशिष्ट-स्तत्र भक्तिमधिगच्छति लोकः ।तद्द्वयेन परिदीपितवृत्ते-र्दाशवद्भवति सर्वजनौघः ॥४॥त्वय्यनन्यजनखण्डितशक्तौसर्वगुण्यजनगीतगुणौघे ।स्नेहबन्धनियतेन गुणज्ञ-श्चेतसा ह्रियत एव कपीशः ॥५॥तद्वचांस्यवितथानि विपाकेकर्तृमिष्टफलवन्ति यतेथाः ।वल्लभस्य नयविद्विषतो वासूक्तमेव हृदयेऽभिनिधत्ते ॥६॥निःस्पृहोऽथ पर एव हितानिव्याहरत्यगणितप्रभुकोपः ।निष्फलप्रियमुखस्तु न भृत्यःपथ्यमाह पतिमानतवृत्तिः ॥७॥स्वाभिमानपरिबोधनहेतो-र्भावशून्यमभिधाय वचांसि ।स्वामिनं युधि नियुज्य विमर्दंद्रष्टुमप्युपसरन्ति न केचित् ॥८॥वारितेऽपि कलहाय यतन्तेदूरदृष्टरिपुकेतुशिखाग्राः ।ताड्यमानशिरसोऽपि पुरस्तात्न प्रयान्ति शरवृष्टिनिपाते ॥९॥मुञ्च घातमभितो भव वीरे-त्यन्ययोधमभिधाय जिघांसुम् ।लीलया युधि पुरोऽभिसरन्तःपञ्चषा अपि न सन्ति पुमांसः ॥१०॥यत्स्वयं युवतिमित्रवतीषुव्याहृतं मधुमदेन सभासु ।तत्स्मरन्ति शरजालकरालंकेचिदेव रणमध्यमुपेताः ॥११॥के न सन्ति पुरुषस्य सहायाभोक्तृमिद्धविभवस्य समृद्धिम् ।युद्धमध्यवधमिच्छति तस्मिन्दुर्लभाः सहकृतव्यवसायाः ॥१२॥निर्व्यपेक्षमवधूय वच-स्तत्सेवकैरभिहितं श्रुतिहारि ।यन्नयेन न समेति विरोधंतद्विचारनिपुणेन विधेयम् ॥१३॥कर्म यद्विविघमागमविद्भि-र्गीयते सुकृतदुष्कृतभेदात् ।सिद्धिदेयगुणदोषवशात्तद्भेदमेति पुनरेव चतुर्धा ॥१४॥पक्षयुग्मगतसिद्धिविधेयंतद्विचिन्त्य गुणदोषविशेषम् ।यः करोति करणीयमनिन्द्यंविद्धि नीतिफलमस्य करस्थम् ॥१५॥दोषदुष्टफलनिन्द्यविरामंयोऽर्थमर्थविपरीतमुदस्य ।सेवते सदनुबन्धविशुद्धंधाम तत्र न तनोति विपत्तिः ॥१६॥दुर्जयेन सह वैरमनर्थंस्त्री परस्य न हिताय परत्र ।तत्कलत्रमपहाय सुहृत्त्वंराघवस्य मृगयस्व सुखार्थम् ॥१७॥इन्द्रियाणि मतिमन्तमजय्यंयोजयन्ति विषयेषु विजित्य ।तद्वशत्वमवधूय यशोभि-र्यस्तनोति भुवनानि स धीरः ॥१८॥यौवनं चलमपायि शरीरंगत्वरं वसु विमृश्य विशिष्टः ।नान्यजन्मगततिक्तविपाकंदृष्टसौख्यमपि कर्म विधत्ते ॥१९॥हेतुरन्यभवभोगविवृद्धे-र्यद्यतश्च भवतीह विभुत्वम् ।स्थास्नु यत्तु वितनोति यशस्तत्साधनीयमितरत्तु न धीरैः ॥२०॥रूपवन्तमपि हन्ति जरार्तिःसङ्गमे महति चास्ति वियोगः ।याति दीर्घमपि विच्युतिमायुःपुण्यमेव निरपायि भजध्वम् ॥२१॥लोकयुग्मगतशर्मविनाशंस्पर्शमस्य मनसाऽपि युवत्याः ।दुर्जयस्य सुनितुल्यमहिम्नःतद्विहाय सुखमेहि यशोभिः ॥२२॥स प्रियावितरणेन कृतज्ञ-स्तोषितः सफलहार्दविरोषः ।स्वर्गिवर्गमवजित्य समस्तंभृत्यवत्तव पुरीह विधत्ते ॥२३॥ये भवन्तमतिवश्यममात्यानूतनं पतिमिहाभिलषन्ति ।कारयन्ति यदि नीतिविरुद्धंमा तदीयमनुरोधि वचस्ते ॥२४॥हेतुरस्ति नरवानरभावेनैव दर्पविरहस्य चिरज्ञाः ।यत्सुरेन्द्रकृतवीर्यसुताभ्या-मस्तशक्तिमिह कश्विदुशन्ति ॥२५॥शासनं यदि शिरोभिरुदग्रंमौलिवन्नृपसुतस्य न धत्से ।शैलशृङ्गगुरुमस्तकभार-त्यागसौख्यमवगच्छ द्रुतं ते ॥२६॥शक्रलोकजयदत्तमजय्यंदिक्षु फुल्लमिव काशवनं तत् ।रामधामदवपावकदीप्त्यादग्धमेव समवैहि१ यशस्ते ॥२७॥गर्वमस्य वचनानि वहन्तिश्रोतुमन्तविरसानि मृदूनि ।न प्रपद्य विततार विकारंक्रोधबद्धमिव राक्षसलोकः ॥२८॥अट्टहासनिनदोऽतिगभीरःक्रोधगर्भमतिकायविमुक्तः ।विष्फुलिङ्गनिकरेण सदस्तंदीपयन्दशदिशोऽथ ससर्प ॥२९॥कम्पनोऽपि परिकम्पितमूर्धादन्तकान्तिनिचिताधररागः ।उन्नतैकचपलभ्रुकटाक्षंविक्षिपन्द्विषति तत्र विरेजे ॥३०॥आहतान्यथ परस्परमेवक्रुध्यतस्त्रिशिरसोऽपि शिरांसि ।धातविस्फुटितमौलिमणित्विड्-द्योतिताम्बरतलानि विरेजुः ॥३१॥इन्द्रजित्प्रथमदानदशायांदिग्द्विपेन्द्र इव गण्डतटाभ्याम् ।निर्मुमोच मदसेकमनोज्ञंघर्मवारि मदमन्थरनेत्रः ॥३२॥मानगर्भमवकर्णितदूत-व्याहृतो भुवि नमय्य मुखेन्दुम् ।भूमिभक्तिकुसुमेन निवेशंमण्डलस्य विततान निकुम्भः ॥३३॥क्रोधवेगविधुतश्च तथाऽऽसी-च्छोणिताक्षमुखतिग्ममरोचिः ।यत्सदःस्थकिरणाधिपरत्न-स्तम्भवह्निरपि तेन विवव्रे ॥३४॥रक्तपद्मरुचिहारिकराग्र-प्रस्थितालिकुलरोचिषि कुम्भः ।न्यस्यति स्म भुजवर्तिनिमन्दं ज्याभिघातकिणवर्त्मनि चक्षुः ॥३५॥सेन्द्रनीलमथ वक्षसि हारंचूर्णयत्सपदि पाणितलेन ।बद्धकृष्णमृगचर्मवदासीत्तद्रजस्तुविततेषु करालः ॥३६॥न्यस्य वक्त्रमधिपाणि विसृष्ट-स्वेदबिन्दुविकटोऽपि चिराय ।विस्मयेन किल दूतमनन्य-व्यापृतेन नयनेन ददर्श ॥३७॥लोचनस्थघनरागशिखाभि-र्व्यक्तरोषबडवानलराशिः ।न्यस्तहस्तचलवीचिकरालःक्षुभ्यति स्म दशकण्ठसमुद्रः ॥३८॥राक्षसेषु विकृतेषु न सद्योमाल्यवानिति विकारमियाय ।युक्तिमुक्तमपि वाक्यमभीष्टंस्वीकरोति न हि दुर्जनलोकः ॥३९॥ईहिताहितमतीव विकारंवीक्ष्य वीतधृति भर्तुरधीरः ।बन्द्धुमिन्द्रसुतसूनुमथैकःक्रोधनः समुदियाय सदस्तः ॥४०॥आत्मपुच्छलतयैव स पश्चा-द्वाहुसंयमनमिच्छति कर्तुम् ।राक्षसे हतनिपातितशत्रुःस्वं जगाम बलमम्बरवर्त्मा ॥४१॥राक्षसेष्वथ विलज्जितमेषुप्रेक्ष्य नम्रवदनाम्बुजपुञ्जम् ।रावणं स्म नयनिर्मलबुद्धि-र्मातुलस्य गुरुराह वचांसि ॥४२॥उक्तमत्र हितमेव विधातुंतत्क्षमस्व यदि वाक्यमहारि ।औषधानि विरसानि विधायद्वेष्यभावमुपयाति न वैद्यः ॥४३॥अप्रियाणि रिपुराह गुरुर्वानष्टशीलमयमत्र विभागः ।क्षेप्तुमेव कटु जल्पति पूर्वःप्रेमगर्भमितरस्तु हितैषी ॥४४॥यत्त्वयाऽहमवकर्णितपूर्वंव्याहुतोऽपि विरमामि न वक्तुम् ।तत्र हेतुरितरैरसमान-स्नेह एव न तु जीविततृष्णा ॥४५॥यस्य वृद्धिमधिगम्य समृद्धि-र्जायते विपदि यस्य विपत्तिः ।तं स एव हितमाह जनस्तुश्रोत्रहारिवचनैरविदग्धः ॥४६॥स्वार्थरागपरिशुद्धमतीनांसद्विवेकपटुदृष्टफलानि ।यः शृणोति वचनानि गुरूणांतं न जातु विपदेति न यज्ञम् ॥४७॥ऋश्यमूकमितवत्यरिवीरेत्वं तदैव घटनामकरिष्यः ।यद्युपेत्य कुलिशायुषसूनुंनाभविष्यदियमत्र विपत्तिः ॥४८॥सम्पतन्ति कपयोऽस्य न यावत्तावदेनमभिगम्य सवेगम् ।विग्रहीतुमपि युक्तमभूद्व-स्तत्कृतं न हदयेषु मदेन ॥४९॥आसनं तव रसातलमेत्यस्तोककालमसुराधिपबन्धो ।युक्तमत्र परिणश्यति याव-ज्जीवितेन बलमप्रतिबन्धम् ॥५०॥प्रेरणाय दिवसस्य नयज्ञै-र्व्याहृतस्य भवताऽत्र विधातुम् ।द्वैधमुग्ररिपुसैन्यसमुद्र-ग्रस्तसर्वविषयेण न शक्यम् ॥५१॥सद्धनेन पणबद्धमरातौकल्पयन्ति बलभाजि नयज्ञाः ।तत्प्रियावितरणेन यदि स्यात्सिद्धिरत्र परमोऽयमुपायः ॥५२॥त्वय्यलङ्घ्यनलकूबरशाप-क्रूरवज्रपतनं न न वेत्सि ।केवलं तु कुलहिंसनहेतोःपासि विष्णुतुलितस्य कलत्रम् ॥५३॥अस्ति काचिदिति नूनमनूनाराघवेऽपि तव दुर्जयशङ्का ।येन वर्णिवपुरेत्य कलत्रंतस्य हर्तुमभवत्तव यत्नः ॥५४॥तस्य दूतमपि वेत्सि च येनपातितस्तव सुतोऽक्षकुमारः ।इत्युदारमभिभाष्य स तूष्णी-मास्त मौनमुचितं खलु मूर्खे ॥५५॥इतीरितं मातृगुरोर्वचस्तत्प्रशंसतः संसदि यातुधानान् ।अङ्गारवर्षेरिव लोचनानांव्रातैः किरन्निन्द्ररिपुर्बभाषे ॥५६॥पथ्यं तथा तथ्यमयं व्यपेतंवशी विशङ्कं वदतु प्रसह्य ।निन्दन्ति ये तद्व्यपदेशलाभात्तद्दत्त औष विनष्टिमुष्टिः ॥५७॥शङ्काकृतो मस्करिवेषलक्ष्म्यावयं न संचस्करिमात्मरूपम् ।मा योषितं नीनशदुग्रमग्रेदृष्टं वपुस्तामिति गोपितं नः ॥५८॥विनोपभोगं भवने भवन्तुसीतादयो मे वशगाश्च देव्यः ।अनन्तकोशस्य नृपस्य रलंशिखान्तमारोहति किञ्चिदेव ॥५९॥दिग्दन्तिदन्तायुधभिन्नरत्न-केयूरबन्धज्वलितासपीठः ।सोऽयं भुजो मे पणबन्धबुद्धिंयुद्धैकलुब्धो न ददाति कर्तुम् ॥६०॥यं शक्रः प्रतिपद्य खण्डितबृहद्धामाऽऽनतो मानतोविभ्रष्टैरुपवीज्यते प्रतिदिनं यश्चामरैश्चामरैः ।कातर्यातुरचेतसः प्रति कथा च मानवान्मानवा-न्विष्णुस्तं न जयेज्जितद्विरदराड्वैरावणं रावणम् ॥६१॥कर्तुं शक्तोऽहमाजौ शरभमुखगतं न्यङ्कुमारं कुमारंनो वै मन्ये तृणाय त्रिभुवनमखिलं संहरन्तं हरं तम् ।युद्धे वेदाम्बुनाथं प्रथमतरजितं पाशवन्तं शवं तंकाऽऽस्था जन्येषु भीत्यातरलतरदृशी स्यां नरे वानरे वा ॥६२॥भीमं सङ्ग्रामभूमौ रिपुकुलजयसंयोगदाया गदायावक्षःशैलेन सोढ्वाऽचलितगुरुधृतिः कम्प्रहारं प्रहारम् ।लीलोदस्तैकहस्तक्षतदलितमुखच्छिन्नदन्तं नदन्तंसोऽहं नेतुं समर्थो भुजतरुघटनाबन्धने शं धनेशम् ॥६३॥एवं नेतुं न शक्त््यो नयविदुशनसा यः समोहं समोहंनिर्दोषो वः समूहे क्षितिपतितनयं यानवन्तं नवन्तम् ।तद्यातेति प्रतस्थे कुलिशहतकृतव्यासमासे समासेन्यस्य स्कन्धे पतन्तं त्रिदशजनवधूहासहारं स हारम् ॥६४॥इति श्रीकुमारदासस्य कृतौ जानकीहरणे महाकाव्येपञ्चदशः सर्गः॥ N/A References : N/A Last Updated : September 29, 2022 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP