तर्कसंग्रह - अथ प्रथमोऽध्याय

’तर्कसंग्रह’ग्रंथातील आठ अध्यायातून तर्कशास्त्राचे अचूक ज्ञान मिळते.


निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् ।

बालानां सुखबोधाय क्रियते तर्कसंग्रह ॥१ ॥

दीपिका

विश्वेश्वरं साम्बमूर्तिं प्रणिपत्य गिरां गुरुम् ।

टीकां शिशुहितां कुर्वे तर्कसंग्रहदीपिकाम् ॥

चिकीर्षितस्य ग्रनथस्य निर्विघ्नपरिसमाप्त्यर्थं

शिष्टाचारानुमितश्रुतिबोधितकर्तव्यताक्- इष्टदेवतानमस्कारात्मकं

मङ्गलं शिष्यशिक्षायै ग्रन्थतो निबध्नंश्चिकीर्षितं प्रतिजानीते ।

निधायेति । ननु मङ्गलस्य समाप्तिसाधनत्वं नास्ति । मङ्गले कृतेऽपि

किरणवल्यादौ समाप्त्यदर्शनात्, मङ्गलाभावेऽपि कादम्बर्मादौ

समाप्तिदर्शनाच्च अन्वयव्यतिरेकाभ्यां व्यभिचारादिति चेत् न ।

किरणावल्यादौ विघ्नबाहुल्यात्समाप्त्यभावः । कादम्बर्यादौ ग्रन्थाद्वहिरेवमङ्गलं कृत्मतो न व्यभिचारः ।

ननु मङ्गलस्य (ग्रन्थादौ)कर्तव्यत्वे किं प्रमाणमिति चेत् न ।

शिष्टाचारानुमितश्रुतेरेव्प्रमाणत्वात् ।

तथा हि मङ्गलंवेद- बोधित्कर्तव्यताकमलौकिकाविगीतशिष्टाचारविषयत्वाद्दर्शादिवत् ।

भोजनादौ व्यभिचार वारणाय अलौकिकेति ।

रात्रिश्राद्धादौव्यभिचारवारणाय अविगीतेति ।

शिष्टपदं स्पष्टार्थम् । नकुर्यान्निष्फलं कर्म इति जलताडनादेरपि निषिद्धत्वात् ।

तर्क्यन्तेप्रतिपाद्यन्ते इति तर्काः द्रव्यादिपदार्थास्तेषां संग्रहः संक्षेपेणस्वरूपकथनं क्रियत इत्यर्थः ।

कस्मै प्रयोजनायेत्यत आह ।सुखबोधायेति ।

सुखेनानायासेन यो बोधः पदार्थज्ञानं तस्मा इत्यर्थः ।

ननु बहुषु तर्कग्रथेषु सत्सु किमर्थम्पूर्वोऽयं ग्रन्थः क्रियत इत्यत आह ।

बालानामिति ।

तेषामतिविस्तृतत्वाद्वालानां बोधो न जायत इत्यर्थः ।

ग्रहणधारणपुटुर्बालः न तु स्तनन्धयः ।

किं कृत्वा क्रियत इत्यत आह ।

निधायेति ।

विश्वेशं जगन्नियन्तारम् ।

हृदि निधाय नितरां स्थापयित्वा सदा तद्धयानपरो भूत्वेत्यर्थः ।

गुरूणां

विद्यागुरूणां, वन्दनं नम्स्कारं, विधाय कृत्वेत्यर्थः ॥

द्रव्यगुणकर्मसामान्यविशेषसमवायाऽभावाः सप्तपदार्थाः ॥२ ॥

दीपिका

पदार्थान् विभ्जते । द्रव्येति ।

पदस्यार्थः पदार्थः इति व्युत्पत्त्याभिधेयत्वं पदार्थसामान्यलक्षणम् (लभ्यते)।

ननु विभागादेव सप्तत्वे सिद्धे सप्त (पद)ग्रहणं व्यर्थमिति चेत्, न अधिकसंख्याव्यवच्छेदार्थकत्वात् ।

नन्वतिरिक्तः पदार्थः प्रमितो वा न वा ।

नाऽद्यः प्रमितस्य निषेधायोगात् ।

न द्वितीयःप्रतियोगिप्रमितिं विना निषेधानुपपत्तेरिति चेत्, न ।

पदार्थत्वंद्रव्यादिसप्तान्यतमत्वव्याप्यमिति व्यवच्छेदार्थकत्वात्

(सप्तग्रहणम्)। ननु सप्तान्यतमत्वं सप्तभिन्नभिन्नत्वमिति वक्तव्यम् ।

सप्तभिन्नस्याप्रसिद्धया कथं सप्तान्यतमत्वव्याप्तिनिश्चय इति चेत्, न ।

द्रव्यादिसप्तान्यतमत्वं नाम द्रव्यादिभेदसप्तकाभाववत्त्वम् ।

अतो दोषविरहात् ।

एवमग्रेऽपि द्रष्टव्यम् ॥

तत्र द्रव्याणी पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव ॥३ ॥

दीपिका

दव्यं (द्रव्याणि)विभजते ।

तत्रेति ।

तत्र द्रव्यादिमध्ये ।

द्रव्याणि नवैवेत्यन्वयः ।

कानि तानि इत्यत आह ।

पृथिवीति ।

ननु तमसो दशमद्रव्यस्य विद्यमानत्वात्कथं नवैव द्रव्याणीति । तथा हि ।

नीलं तमश्चलतीत्यबाधितप्रतीतिबलान्नीलरूपाधारतया क्रियाधारतया च

तमसो द्रव्यत्वं ताव्त् सिद्धम् ।

तत्र तमसो नाकाशादिपञ्चकेऽन्तर्भावः रूपवत्त्वात् ।

अत एव न वायौ, स्पर्शाभावात् सदागतिमत्त्वाभावाच्च ।

नापि तेजसि, भास्वरूपाभावात् उष्णस्पर्शाभावाच्च ।

नापि जले, शीतस्पर्शाभावात् नीलरूपवत्त्वाच्च ।

नापि पृथिव्यां, गन्धाभावात् स्पर्शरहितत्वाच्च । तस्मात्तमो दशमद्रव्यमिति चेत्, न ।

तमसस्तेजोऽभावरूपत्वात् ।

तथा हि ।

तमो न रूपिद्रव्यमालोकासहकृतचक्षुर्ग्राह्यत्वादालोकाभाववत् ।

रूपिद्रव्यचाक्षुषप्रमायामालोकस्य कारणत्वात् ।

तस्मात् प्रौढप्रकाशकतेजस्सामान्याभावस्तमः, तत्र नीलं तमश्चलति इति

प्रत्ययो भ्रमः ।

अतो नव द्रव्याणीति सिद्धम् ।

द्रव्यत्वजातिमत्त्वं गुणवत्त्वं वा द्रव्यसामान्यलक्षणम् । लक्ष्यैकदेशावृत्तित्वमव्याप्तिः ।

यथा गोः कपिलत्वम् ।

अलक्ष्ये लक्षणस्य वर्तनमतिव्याप्तिः ।

यथा गोःश्रृङ्गित्वम् ।

लक्ष्यमात्रावृत्तित्वमसंभवः ।

यथा गोरेकशफवत्त्वम् ।

एतद्दूषणत्रयरहितधर्मो लक्षणम् ।

स एवासाधारणधर्म इत्युच्यते ।

लक्षयतावच्छेदकसमनियतत्वमसाधारणत्वम् ।

व्यावर्तकस्यैव

लक्षणत्वे व्यावृत्तावभिदेयत्वादौ चातिव्याप्तिरतस्तद्वारणाय तद्भिन्नत्वं धर्मविशेषणं देयम् ।

व्यवहारस्यापि लक्षणप्रयोजनत्वे तन्न देयम् । व्यावृत्तेरपि व्यवहारसाधनत्वात् ।

ननु गुणवत्त्वं न द्रव्यलक्षणम्, आद्यक्षणावच्छिन्नघटे उत्पन्नविनिष्टघटे चाव्याप्तेरिति चेत्, न ।

गुणसमानाधिकरणसत्ताभिन्नजातिमत्त्वस्य विवक्षितत्वात् ।

नन्वेवमपि एकं रूपं रसात्पृथक् इति व्यवहाराद्रूपादावतिव्याप्तिरिति चेत्, न ।

एकार्थसमवायादेव तादृशव्यवहारोपपत्तौ गुणे गुणानङ्गीकारात् ।

रूप- रस- गन्ध- स्पर्श- संख्या- परिमाण- पृथक्त्व- संयोग- विभाग- पर्

अत्वा- ऽपरत्व- गुरूत्व- द्रवत्व- स्नेह- शब्द- बुद्धि- सुख- दुःखेच्छा

द्वेष- प्रयत्न- धर्माधर्म- संस्काराः चतुर्विंशतिर्गुणाः ॥४ ॥

दीपिका

गुणान्विभजते ।

रूपेति ।

द्रव्यकर्मभिन्नत्वे सति सामान्यवान् गुणः ।

गुणत्वजातिमान्वा ।

ननु लघुत्वकठिनत्वमृदुत्वादीनां विद्यमानत्वात् कथं चतुर्विंशतिर्गुणा इति चेत्, न ।

लघुत्वस्य गुरूत्वाभावरूपत्वान्मृदुत्वकठिनत्वयोः अवयवसंयोगविशेषत्वात् ।

उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि ॥५ ॥

दीपिका

कर्म विभजते ।

उत्क्षेपणेति ।

संयोगभिन्नत्वे सति संयोगासमवायिकारणं कर्म कर्मत्वजातिमद्वा ।

भ्रमणादीनामपि गमने अन्तर्भावान्न पञ्चत्वविरोधः ॥

परमपरं चेति द्विविधं सामान्यम् ॥६ ॥

दीपिका

सामान्यं विभजते ।

परमिति ।

परमधिकदेशवृत्ति ।

अपरं न्यूनदेशवृत्ति ।

सामान्यादिचतुष्टये जातिर्नास्ति ॥

नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव ॥७ ॥

दीपिका

विशेषं विभजते ।

नित्येति ।

पृथिव्यादिचतुष्टयपरमाणवः आकाशादिपञ्चकं च नित्यद्रव्याणि ।

समवायस्त्वेक एव ॥८ ॥

दीपिका

समवायस्य भेदो नास्तीत्याह । समवायस्त्विति ।

अभावश्चतुर्विधः - प्रागभावः, प्रध्वंसाभावः,

अत्यन्ताभावः, अन्योन्याभावश्चेति ॥९ ॥

दीपिका

अभावं विभजते ।

प्रागभावेति ।

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP