अनुमितिकरणमनुमानम् ॥१॥
दीपिका
अनुमानं लक्षयति ------अनुमितिकरणमिति ।
परामर्शजन्यं ज्ञानमनुमितिः ॥२॥
दीपिका
अनुमितिं लक्षयति ---परामर्शेति ।
ननु संशयोत्तरप्रत्यक्षेऽतिव्याप्तिः स्थाणुपुरूषसंशयानन्तरं
पुरूषत्वव्याप्यकरादिमानयम् इति परामर्शे सति पुरूष एव इति प्रत्यक्षजननात् ।
न च तत्रानुमितिरेवेति वाच्यम् ।
पुरूषं साक्षात्करोमि इत्यनुव्यवसायविरोधादिति चेत् न, पक्षतासहकृतपरामर्शजन्यत्वस्य विविक्षित्वात् ।
सिषाधयिषाविरहविशिष्टसिद्धयभावः पक्षता ।
साध्यसिद्धिरनुमितिप्रतिबन्धिका ।
सिद्धिसत्त्वेऽपि अनुमियुयाम् इतीच्छायामनुमितिदर्शनात् ।
सिषाधयिषोत्तेजिका ।
तत्श्चोत्तेजकाभावविशिष्टमण्यभावस्य दाहकारणत्ववत्सिषाधयिषाविरहविशिष्टसिद्धयभावस्याप्यनुमितिकारणत्वम् ।
व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः ।
यथा वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानं परामर्शः ।
तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः ॥३॥
दीपिका
परामर्शं लक्षयति -----व्याप्तीति ।
व्याप्तिविषयकं यत्पक्षधर्मताज्ञानं स परामर्श इत्यर्थः ।
परामर्शमभिनीय दर्शयति ------यथेति ।
अनुमितिमभिनीय दर्शयति -------
तज्जन्यमिति ।
परामर्शजन्यमित्यर्थः ।
व्याप्तिलक्षणमाह ---- यत्रेति ।
यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः ॥४॥
दीपिका
यत्र धूमस्तत्राग्निः इति व्याप्तेरभिनयः ।
साहचर्यनियमः इति लक्षणम् ।
साहचर्यं सामानाधिकरण्यं, तस्य नियमः ।
हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्यापाप्तिरित्यर्थः ।
व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता ॥५॥
दीपिका
पक्षधर्मतारूपमाह --------व्याप्यस्येति ।
अनुमानं द्विविधं --स्वार्थं परार्थं च ॥६॥
तत्र स्वार्थं स्वानुमितिहेतुः, तथाहि, स्वयमेव भूयोदर्शनेन
यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा
पर्वतसमीपं गतः, तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन्
व्याप्तिं स्मरति यत्र यत्र धूमस्तत्र तत्राग्निः इति ।
तदन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते, अयमेव
लिङ्गपरामर्श इत्युच्यते ।
तस्मात् पर्वतो वह्निमानिति ज्ञानमनुमितिः उत्पद्यते ।
तदेतत् स्वार्थानुमानम् ॥७॥
दीपिका
अनुमानं विभजते --------अनुमानमिति ।
स्वार्थानुमानं दर्शयति स्वयमेवेति ।
ननु पार्थिवत्वलोहलेख्यत्वादौ शतशः सहचारदर्शनेऽपि वज्रमणौ व्यभिचारोपलब्धेर्भूयोदर्शनेन कथं
व्याप्तिग्रह इति चेत् न ।
व्यभिचारज्ञानविरहसहकृतसहचारज्ञानस्य व्याप्तिग्राहकत्वात् ।
व्यभिचारज्ञानं निश्चयः शङ्का च ।
तद्विरहः क्वचित्तर्कात्, क्वचित्स्वतः सिद्ध एव ।
धूमाग्न्योर्व्याप्तिग्रहे कार्यकारणभावभङ्गप्रसङ्गलक्षणस्तर्को व्यभिचारशङ्कानिवर्तकः ।
ननु सकलवह्निधूमयोरसन्निकर्षात्कथं व्याप्तिग्रह इति चेत् न ।
वह्नित्वधूमत्वरूपसामान्यप्रत्यासत्त्यासकलवह्निधूमज्ञानसंभवात् ।
तस्मादिति ।
लिङ्गपरामर्शादित्यर्थः ।
यत्तु स्वयं धूमादग्निमनुमाय परंप्रतिबोधयितुं पञ्चावयव वाक्यं प्रयुज्यते तत् परार्थानुमानम् ।
यथा पर्वतो वह्निमान्, धूमत्वात् , यो यो धूमवान् स वह्निमान् यथा महानसः, तथा चायं,
तस्मात्तथेति ।
अनेन प्रतिपादितात् लिङ्गात् परोऽप्यग्निं प्रतिपद्यते ।
दीपिका
परार्थानुमानमाह ----------यत्त्विति ।
यच्छब्दस्य ` तत्परार्थानुमानम् 'इति तच्छब्देनान्वयः ।
पञ्चावयववाक्यमुदाहरति -----यथेति ।
प्रतिज्ञा -हेतु -उदाहरण -उपनय -निगमनानि पञ्चावयवाः ।
पर्वतो वह्निमानिति प्रतिज्ञा ।
धूमवत्वात् इति हेतुः ।
यो यो धूमवान् स वह्निमान् यथा महानस इत्युदाहरणम् ।
तथा च अयमिति उपनयः ।
तस्मात्तथेति निगमनम् ॥९॥
दीपिका
अवयवस्वरूपमाह ---------प्रतिज्ञेति ॥
उदाहृत्वाक्ये प्रतिज्ञादिविभागमाह -------पर्वतो वह्निमानिति ॥
साध्यवत्तया पक्षवचनं प्रतिज्ञा ।
पञ्चम्यन्तं लिङ्गप्रतिपादकं हेतुः ।
व्याप्तिप्रतिपादकं उदाहरणम् ।
व्याप्तिविशिष्टलिङ्गप्रतिपादकंवचनमुपनयः ।
हेतुसाध्यवत्तया पक्षप्रतिपादकं वचनं निगमनम् ।
अबाधितत्वादिकं निगमनप्रयोजनम् ।
स्वार्थानुमितिपरार्थानुमित्योः लिङ्गपरामर्श एव करणम् ।
तस्मात् लिङ्गपरामर्शोऽनुमानम् ॥१०॥
दीपिका
अनुमितिकरणमाह ---स्वार्थेति ।
ननु व्याप्तिस्मृतिपक्षधर्मताज्ञानाभ्यामेव अनुमितिसंभवे विशिष्टपरामर्शः किमर्थमङ्गीकर्तव्य इति चेत् न, `
वह्निव्याप्यवानयम् 'इति शाब्दपरामर्शस्थले
परामर्शस्यावश्यकतया लाघवेन सर्वत्र परामर्शस्यैव कारणत्वात् ।
लिङ्गं न करणम्, अतीतादौ व्यभिचारात् ।
`व्यापारवत्वकारणं करणम् 'इति मते परामर्शद्वारा व्याप्तिज्ञानं करणम् ।
तज्जन्यत्वे सति तज्जन्यजनको व्यापारः ।
अनुमानमुपसंहरति -तस्मादिति ।
लिङ्गं त्रिविधम् ।
अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति ।
अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि ।
यथा वह्नौ साध्ये धूमवत्त्वम् ।
यत्र धूमस्तत्राग्नियर्था महानस इत्यन्वयव्याप्तिः ।
यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा महाहृद इति व्याप्तिरेकव्याप्तिः ॥११॥
दीपिका
लिङ्गं विभजते ---लिङ्गमिति ॥
अन्वयव्यतिरेकिणं लक्षयति --- अन्वयेनेति ॥
हेतुसाध्ययोर्व्याप्तिरन्वयव्याप्तिः, तदभावयोर्व्याप्तिर्व्यतिरेकव्याप्तिः ।
अन्वयमात्रव्याप्तिकं केवलान्वयि ।
यथा घटः अभिधेयः प्रमेयत्वात् पटवत् ।
अत्र प्रमेयत्वाभिधेयत्वयोः व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वात् अभिधेयत्वाच्च ॥१२॥
दीपिका
केवलान्वयिनो लक्षणमाह --------अन्वयेति ॥
केवलान्वयिसाध्यकं लिङ्गं केवलान्वयि ।
(वृत्तिमत्)अत्यन्ताभावाप्रतियोगित्वं केवलान्वयित्वम् ।
ईश्वरप्रमाविषयत्वं सर्वपदाभिधेयत्वं च सर्वत्रास्तीति व्यतिरेकाभावः ।
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि, यथा पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् ।
यदितरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम् ।
न चेयं तथा ।
तस्मान्न तथेति ।
अत्र यद्गन्धवत् तदितरभिन्नम् इत्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् ॥१३॥
दीपिका
केवलव्यतिरेकिणो लक्षणमाह ---व्यतिरेकेति ।
तदुदाहरति-यथेति ।
नन्वितरभेदः प्रसिद्धो वा न वा ।
आद्ये यत्र प्रसिद्धस्तत्र हेतुसत्त्वे अन्वयित्वम्, असत्त्वे असाधारण्यम् ।
द्वितीये साध्यज्ञानाभावात्कथं तद्विशिष्टानुमितिः ।
विशेषणज्ञानाभावे विशिष्टज्ञानानुदयात्प्रतियोगिज्ञानाभावाद्वयतिरेकव्याप्तिज्ञानमपि न
स्यादिति चेत् न ।
जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां मेलनं पृथिव्यां साध्यते ।
तत्र त्रयोधत्वावच्छिन्नभेदात्मक - साध्यस्यैकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये ।
प्रत्येकाधिकरणप्रसिद्धया साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं चेति ।
सन्दिग्धसाध्यवान् पक्षः । यता धूमवत्त्वे हेतौ पर्वतः ॥१४॥
दीपिका
पक्षलक्षणमाह -------सन्दिग्धेति ॥
ननु श्रवणान्तरभाविमननस्थले अव्याप्तिः ।
तत्र वेदवाक्यैरात्मनो निश्चित्वेन सन्देहाभावात् ।
किञ्च प्रत्यक्षेऽपि वह्नौ यत्रेच्छयानुमितिस्तत्राव्याप्तिरिति चेत् न, उक्तपक्षताश्रयत्वस्य पक्षलक्षणत्वात् ।
निश्चितसाध्यवान् सपक्षः, यथा तत्रैव महानसम् ॥१५॥
दीपिका
सपक्षलक्षणमाह --------निश्चितेति ॥
निश्चितसाध्याऽभाववान् विपक्षः ।
यथा तत्रैव महाह्रदः ॥१६॥
दीपिका
विपक्षलक्षणमाह -----निश्चितेति ॥
सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः ॥१७॥
दीपिका
एवं सद्धेतून्निरूप्य असद्धेतून्निरूपयितुं विभजते ------ सव्यभिचारेति ॥
अनुमितिप्रतिबन्धकयथार्थज्ञानविषयत्वं हेत्वाभासत्वम् ।
सव्यभिचारः अनैकान्तिकः ।
स त्रिविधः साधारणासाधारणानुपसंहारिभेदात् ॥१८॥
दीपिका
सव्यभिचारं विभजते ----स त्रिविध इति ॥
तत्र साध्याभाववद्वृत्तिः साधारणः अनैकान्तिकः, यथा पर्वतो वह्निमान् प्रमेयत्वात् इति ।
प्रमेयत्वस्य वह्नयभाववति ह्रदे विद्यमानत्वात् ॥१९॥
दीपिका
साधारणं लक्षयति -----तत्रेति ॥
उदाहरति ----यथेति ॥
सर्वसपक्षविपक्षव्यावृत्तः पक्षमात्रवृत्तिः असाधारणः ।
यथा शब्दो नित्यः शब्दत्वात् इति ।
शब्दत्वं हि सर्वेभ्यो नित्येभ्योऽनित्येभ्यश्च व्यावृत्तं शब्दमात्रवृत्तिः ॥२०॥
दीपिका
असाधारणं लक्षयति -----सर्वेति ॥
अन्वयव्यतिरेकदृष्टान्तरहितोऽनुपसंहारी ।
यथा सर्वमनित्यं प्रमेयत्वादिति ।
अत्र सर्वस्यापि पक्षत्वात् दृष्टान्तो नास्ति ॥२१॥
दीपिका
अनुपसंहारिणो लक्षणमाह --------अन्वयेति ॥
साध्याभावव्याप्तो हेतुर्विरूद्धः ।
यथा शब्दो नित्यः कृतकत्वादिति ।
कृतकत्वं हि नित्यत्वाभावेनाऽनित्यत्वेन व्याप्तम् ॥२२॥
दीपिका
विरूद्धं लक्षयति -----साध्येति ॥
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स सत्प्रतिपक्षः ।
यथा शब्दो नित्यः श्रावणत्वात् शब्दत्ववत् ।
शब्दोऽनित्यः कार्यत्वात् घटवत् ॥२३॥
दीपिका
सत्प्रतिपक्षं लक्षयति ----यस्येति ॥
असिद्धस्त्रिविधः ----आश्रयासिद्धः, स्वरूपासिद्धो व्याप्यत्वासिद्धश्चेति ॥२४॥
दीपिका
असिद्धं विभजते ---असिद्ध इति ॥
आश्रयासिद्धो यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दत् ।
अत्र गगनारविन्दमाश्रयः स च नास्त्येव ॥२५॥
दीपिका
आश्रयासिद्धमुदाहरति ---गगनेति ॥
स्वरूपासिद्धो यथा शब्दो गुणश्चाक्षुषत्वात् ।
अत्र चाक्षुषत्वं शब्दं नास्ति शब्दस्य श्रावणत्वात् ॥२६॥
दीपिका
स्वरूपासिद्धमुदाहरति ---यथेति ॥
सोपाधिको हेतुः व्याप्यत्वासिद्धः ।
साध्यव्यापकत्वे सति साधनाव्यापकत्वं उपाधिः ।
साध्यसमानाधिकरणात्यन्ताभावाप्रतियोगित्वं साध्यव्यापकत्वम् ।
साधनवन्निष्ठात्यन्ताभावप्रतियोगित्वं साधनाव्यापकत्वम् ।
पर्वतो धूमवान्वह्निमत्वादित्यत्र आर्द्रेन्धनसंयोग उपाधिः ।
तथाहि ।
यत्र धूमस्तत्रार्द्रेन्धनसंयोग इति साध्यव्यापकता ।
यत्र वह्निस्तत्रार्द्रेन्धनसंयोगो नास्ति अयोगोलके आर्द्रेन्धनसंयोगाभावादिति साधनाव्यापकता ।
एवं साध्यव्यापकत्वे सति साधनाव्यापकत्वादार्द्रेन्धनसंयोग उपाधिः ।
सोपाधिकत्वात् वह्निमत्त्वं व्याप्यत्वासिद्धम् ॥२७॥
दीपिका
व्याप्यत्वासिद्धस्य लक्षणमाह ---सोपाधिक इति ॥
उपाधेर्लक्षणमाह---साध्येति ॥
उपादिश्चतुर्विधः केवलसाध्यव्यापकः, पक्षधर्मावच्छिन्नसाध्यव्यापकः,
साधनावच्छिन्नसाध्यव्यापकः, उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति ।
आद्यः आर्द्रेन्धनसंयोगः ।
द्वितीयो यथा वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् इत्यत्र बहिर्द्रव्यत्वावच्छिन्नप्रत्यक्षत्वव्यापकमुद्भूतरूपवत्त्वम् ।
तृतीयो यथा ---प्रागभावो विनाशी जन्यत्वादित्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् ।
चतुर्थो यथा --- प्रागभावो विनाशी प्रमेयत्वात् इत्यत्र जन्यत्वावच्छिन्नानित्यत्वव्यापकं भावत्वम् ।
यस्य साध्याभावः प्रमाणान्तरेण निश्चितः स बाधितः ।
यथा वह्निरनुष्णो द्रव्यत्वात् जलवत् ।
अत्रानुष्णत्वं साध्यं तदभाव उष्णत्वं स्पर्शनप्रत्यक्षेण गुह्यात इति बाधितत्वम् ॥२८॥
दीपिका
बाधितस्य लक्षणमाह ----यस्येति ॥
अत्र बाधस्य ग्राह्याभावनिश्चयत्वेन, सत्प्रतिपक्षस्य विरोधिज्ञानसामग्रीत्वेन साक्षादनुमितिप्रतिबन्धकत्वम् ।
इतरेषां तु परामर्शप्रतिबन्धकत्वम् ।
तत्रापि साधारणस्याव्यभिचाराभावरूपतया, विरूद्धस्य
समानाधिकरण्याभावतया व्याप्यत्वासिद्धस्य विशिष्टव्याप्त्यभावतया,
असाधारणनुपसंहारिणोः व्याप्तिसंशयाधायकत्वेन
व्याप्तिज्ञानप्रतिबन्धकत्वम्, आश्रयासिद्धिस्वरूपासिद्धयोः पक्षधर्मताज्ञानप्रतिबन्धकत्वम् ।
उपाधिस्तु व्यभिचारज्ञानद्वारा व्याप्तिज्ञानप्रतिबन्धकः ।
सिद्धसाधनं तु पक्षताविघटकतया आश्रयासिद्धावन्तर्भवतीति प्राञ्चः ।
निग्रहस्थानान्तरमिति नवीनाः ॥