तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् ॥३१॥
दीपिका
प्रत्यक्षलक्षणमाह ------तत्रेति ।
प्रमाणचतुष्टयमध्ये इत्यर्थः ।
इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् ।
तद्द्विविधं निर्विकल्पकं सविकल्पकं चेति ।
तत्र निष्प्रकारकं ज्ञानं निर्विकल्पकं यथेदं किञ्चित् ।
सप्रकारकं ज्ञानं सविकल्पकं यथा डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयं, पाचकोऽयमिति ॥३२॥
दीपिका
प्रत्यक्षज्ञानस्य लक्षणमाह --------इन्द्रियेति ।
इन्द्र्यियं चक्षुरादिकम्, अर्थो घटादिः, तयोः संनिकर्षः संयोगादिः, तज्जन्यं ज्ञानमित्यर्थः ।
तद्विभजते तद्द्विविधमिति ।
निर्विकल्पस्य लक्षणमाह -------निष्प्रकारकमिति ।
विशेषणविशेष्यसंबन्धानवगाहि ज्ञानमित्यर्थः ।
ननु निर्विकल्पके किं प्रमाणमिति चेत् न, गौरिति विशिष्टज्ञानं
विशेषणज्ञानजन्यं, विशिष्टज्ञानत्वात्, दण्डीति ज्ञानवत्
इत्यनुमानस्य प्रमाणत्वात् ।
विशेषणज्ञानस्यापि सविकल्पकत्वेऽनवस्थाप्रसङ्गान्निर्विकल्पकसिद्धिः ।
सविकल्पकं लक्षयति ।
सप्रकारकमिति ।
नामजात्यादिविशेष्यविशेषणसंबन्धावगाहि ज्ञानमित्यर्थः ।
सविकल्पकमुदाहरति ।
यथेति ।
प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसंनिकर्षः षड्विधः ।
सन्योगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः,
समवेतसमवायः, विशेषणविशेष्यभावश्चेति ॥३३॥
दीपिका
इन्द्रियार्थसंनिकर्षं विभजते ।
प्रत्यक्षेति ।
चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः ॥३४॥
दीपिका
संयोगसंनिकर्षमुदाहरति ।
चक्षुषेति ।
द्रव्यप्रत्यक्षे सर्वत्र संयोगः संनिकर्षः ।
आत्मा मनसा संयुज्यते, मन इन्द्रियेण, इन्द्रियमर्थेन, ततः प्रत्यक्षज्ञानमुत्पद्यते इत्यर्थः ।
घटरूपप्रत्यक्षजनने संयुक्त समवायः संनिकर्षः ।
चक्षुः संयुक्ते घटे रूपस्य समवायात् ॥३५॥
दीपिका
संयुक्तसमवायमुदाहरति ।
घटरूपेति ।
तत्र युक्तिमाह ।
चक्षुःसंयुक्त इति ।
रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः ।
चक्षुः संयुक्ते घटे रूपं समवेतं, तत्र रूपत्वस्य समवायात् ॥३६॥
दीपिका
संयुक्तसमवेतसमवायमुदाहरति ।
रूपत्वेति ।
श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः कर्णविवरवर्त्याकाशस्य श्रोत्रत्वात् शब्दस्याकाशगुणत्वात् गुणगुणिनोश्च समवायात् ॥३७॥
दीपिका
समवायमुदाहरति ।
श्रोत्रेणेति ।
तदुपपादयति ।
कर्णेति ।
ननु दूरस्थशब्दस्य कथं श्रोत्रसम्बन्ध इति चेत् न,
वीचीतरङ्गन्यायेन वा शब्दान्तरोत्पत्तिक्रमेण श्रोत्रदेशे जातस्य
श्रोत्रेण संबन्धात्प्रत्यक्षसंभवः ।
शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः श्रोत्रसमवेते शब्दे शबत्वस्य समवायात् ॥३८॥
दीपिका
समवेतसमवायमुदाहरति ।
शब्दत्वेति ।
अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्भूतलमित्यत्र चक्षुः संयुक्ते भूतले घटाभावस्य
विशेषणत्वात् ॥३९॥
दीपिका
विशेषणविशेष्याभावमुदाहरति ।
अभावेति ।
तदुपपादयति ।
घटाभाववदिति ।
भूतले घटो नास्तीत्यत्र अभावस्य विशेष्यत्वं द्रष्टव्यम् ।
एतेन अनुपलब्धेः प्रमाणान्तरत्वं निरस्तम् ।
यद्यत्र
घटोऽभविष्यत्तर्हि भूतलमिवाद्रक्ष्यत, दर्शनाभावान्नास्तीति
तर्कितप्रतियोगिसत्वविरोध्यनुपलब्धिसहकृतेन्द्रियेणैव
अभावज्ञानोत्पत्तौ अनुपलब्धेः प्रमाणान्तरत्वासंभवात् ।
अधिकरणज्ञानार्थमपेक्षणीयेन्द्रियस्यैव करणत्वोपपत्तावनुपलब्धेः करणत्वयोगात् ।
विशेषणविशेष्यभावो विशेषणविशेष्यस्वरूपमेव, नातिरिक्तः संबन्धः ।
प्रत्यक्षज्ञानमुपसंहरस्तस्य करणमाह ।
एवमिति ।
एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम्, तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् ॥४०॥
दीपिका
असाधारणकारणत्वादिन्द्रियं प्रत्यक्षज्ञानकरणमित्यर्थः ।
प्रत्यक्षप्रमाणमुपसंहरति ।