चक्षुर्मात्रग्राह्यो गुणो रूपम् ।
तच्च शुक्लनीलपीतरक्तहरितकपिशचित्र भेदात्सप्तविधम् ।
पृथिवीजलतेजोवृत्ति ।
तत्र पृथिव्यां सप्तविधम् ।
अभावस्वरशुक्लं जले ।
भावस्वरशुक्लं तेजसि ॥१॥
दीपिका
रूपं लक्षयति ।
चक्षुरिति ।
संख्यादावतिव्याप्तिवारणाय मात्रपदम् ।
रूपत्वेऽतिव्याप्तिवारणाय गुणपदम् ।
नन्वव्याप्यवृत्तिनीलादिसमुदाय एव
चित्ररूपमिति चेत् न ।
रूपस्य व्याप्यवृत्तित्वनियमात् ।
ननु चित्रपटे अवयवरूपस्यैव प्रतीतिरिति चेत् न ।
रूपरहितत्वेन पटस्याप्रत्यक्षत्वप्रसंगात् ।
न च रूपवत्समवेतत्वं प्रत्यक्षत्वप्रयोजकं गौरवात् ।
तस्मात्पटस्य प्रत्यक्षत्वान्यथानुपपत्त्या चित्ररूपसिद्धिः ।
रूपस्याश्रयमाह ।
पृथिवीति ।
आश्रयं विभज्य दर्शयति ।
तत्रेति ।
रसनग्राह्यो गुणो रसः ।
स च मधुराम्ललवणकतुकषायतिक्तभेदात् षड्विधः ।
पृथिवीजलवृत्तिः ।
तत्र पृथिव्यां षड्विधः ।
जले मधुर एव ॥२॥
दीपिका
रसं लक्षयति ।
रसनेति ।
रसत्वेऽतिव्याप्तिवारणाय गुणपदम् ।
रसस्याश्रयमाह ।
पृथिवीति ।
आश्रयं विभज्य दर्शयति ।
तत्रेति ।
घ्राणाग्राह्यो गुणो गन्धः ।
स द्विविधः सुरभिरसुरभिश्च ।
पृथिवीमात्रव्रित्तिः ॥३॥
दीपिका
गन्धं लक्षयति ।
घ्राणेति ।
गन्धत्वेऽतिव्याप्तिवारणाय गुणपदम् ।
त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः ।
स च त्रिविधः शीतोष्णानुष्णाशीतभेदात् ।
पृथिव्यप्तेजोवायुवृत्तिः ।
तत्र शीतो जले ।
उष्णस्तेजसि ।
अनुष्णाशीतः पृथिवीवायव्योः ॥४॥
दीपिका
स्पर्शं लक्षयति ।
त्वगिति ।
स्पर्शत्वेऽतिव्याप्तिवारणाय गुणपदम् ।
संयोगादावतिव्याप्तिवारणाय मात्रपदम् ।
रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च ।
अन्यत्र अपाकजं नित्यमनित्यम् च ।
नित्यगतं नित्यम् अनित्यगतमनित्यम् ॥५॥
दीपिका
पाकजमिति ।
पाकस्तेजः संयोगः ।
तेन पूर्वरूपं नश्यति रूपान्तरमुत्पद्यत इत्यर्थः ।
तत्र परमाणुष्वेव पाको न द्वयणुकादौ ।
आमनिक्षिप्ते घटे परमाणुषु रूपान्तरोत्पत्तौ श्यामघटनाशे पुनद्वर्यणुकादिक्रमेण रक्तघटोत्पत्तिः ।
तत्र परमाणवः समवायिकारणम् ।
तेजः संयोगोऽसमवायिकारणम् ।
अदृष्टादिकं निमित्तकारणम् ।
द्वयणुकादिरूपे कारणरूपसमवायिकारणमिति पीलुपाकवादिनो वैशेषिकाः ।
पूर्वघटस्य नाशं विनैव् अवयविनि अवयवेषु च परमाणुपर्यन्तेषु युगपद्रूपान्तरोत्पत्तिरिति पिठरपाकवादिनो नैयायिकाः ।
अत एव पार्थिवपरमाणुरूपादिकमनित्यमनित्यर्थः ।
अन्यत्र जलादावित्यर्थः ।
नित्यगतमिति ।
परमाणुगतमित्यर्थः ।
अनित्यगतमिति ।
द्वयणुकादिगतभित्यर्थः ।
रूपादिचतुष्टयम् उद्भूतं प्रत्यक्षम् ।
अनुद्भूतमप्रत्यक्षम् ।
उद्भूतत्वं प्रत्यक्षत्वप्रयोजको धर्मः ।
तदभावोऽनुद्भूतत्वम् ।
एकत्वादिव्यवहारहेतुः संख्या ।
सा नवद्रव्यवृत्तिः एकत्वादिपरार्धपर्यन्ता ।
एकत्वं नित्यमनित्यं च ।
नित्यगतं नित्यम् ।
अनित्यगतमनित्यम् ।
द्वित्वादिकं तु सर्वत्राऽनित्यमेव ॥६॥
दीपिका
संख्या लक्षयति ।
एकेति ।
मानव्यवहारासाधारणकारणं परिमाणम् ।
नवद्रव्यवृत्तिः ।
तच्चुर्विधम् ।
अणु महत् दीर्घं हृअस्वं चेति ॥७॥
दीपिका
परिमाणं लक्षयति ।
मानेति ।
परिमाणं विभजते ।
तच्चेति ।
भावप्रधानो निर्देशः ।
अणुत्वं, महत्त्वं, दीर्घत्वं, ह्रस्वत्वं चेत्यर्थः ।
पृथग्व्यवहारासाधारणकारणं पृथक्वत्वम् ।
सर्वद्रव्यवृत्तिः ॥८॥
दीपिका
संयुक्तव्यवहारहेतुः संयोगः ।
सर्वद्रव्यवृत्तिः ॥९॥
दीपिका
संयोगं लक्षयति ।
संयुक्तेति ।
इमौ संयुक्तौ इतिव्यवहारहेतुरित्यर्थः ।
संख्यादिलक्षणे सर्वत्र दिक्कालादावतिव्यप्तिवारणाय असाधाराणेति विशेषणीयम् ।
संयोगो द्विविधः कर्मजः संयोगजश्चेति ।
आद्यो हस्तक्रियया हस्तपुस्तकसंयोगः ।
द्वितीयो हस्तपुस्तकसंयोगात्कायपुस्तकसंयोगः ।
अव्याप्यवृत्तिः संयोगः ।
स्वात्यन्ताभावसमानाधिकरणत्वमव्याप्यवृत्तित्वम् ।
संयोगनाशको गुणो विभागः ।
सर्वद्रव्यवृत्तिः ॥१०॥
दीपिका
विभागं लक्षयति ।
संयोगेति ।
कालादावतिव्याप्तिवारणाय गुण इति ।
रूपादावतिव्याप्तिवारणाय संयोगनाशक इति ।
विभागोऽपि द्विविधः कर्मजो विभागजश्चेति ।
आद्यो हस्तपुस्तकविभागः ।
द्वितीयो हस्तपुस्तकविभागात्कायपुस्तकविभागः ।
परापरव्यवहारासाधारणकारणे परत्वापरत्वे ।
पृथिव्यादिचतुष्टय मनोवृत्तिनी ।
ते द्विविधे दिक्कृते कालकृते च ।
दूरस्थे दिक्कृतं परत्वम् ।
समीपस्थे दिक्कृतमपरत्वम् ।
ज्येष्ठे कालकृतं परत्वम् ।
कनिष्ठे कालकृतमपरत्वम् ॥११॥
दीपिका
परत्वापरत्वयोर्लक्षणमाह ।
परापरेति ।
परव्यवहारासाधारणकारणं परत्वम् ।
अपरव्यवहारासाधारणकारणमपरत्वम् इत्यर्थः ।
ते विभजते ।
ते द्विविधे इति ।
दिक्कृतयोरूदाहरणमाह ।
दूरस्थ इति ।
कालकृते उदाहरति ।
ज्येष्ठ इति ।
आद्यपतनासमवायिकारणं गुरूत्वम् ।
पृथिवीजलवृत्ति ॥१२॥
दीपिका
गुरूत्वं लक्षयति ।
आद्येति ।
द्वितीयादिपतनस्य वेगासमवायिकारणत्वद्वेगेऽतिव्याप्तिवारणाय आद्येति ।
आद्यस्यन्दनासमवायिकारणं द्रवत्वम् ।
पृथिव्यप्तेजोवृत्ति ।
तद्द्विविधं सांसिद्धिकं नैमित्तिकं च।
सांसिद्धिकं जले ।
नैमित्तिकं पृथिवीतेजसोः ।
पृथिव्यां घृतादावग्नि संयोगजं द्रवत्वम् ।
तेजसि सुवर्णादौ ॥१३ ॥
दीपिका
द्रवत्वं लक्षयति ।
आद्येति ।
स्यन्दनं प्रस्रवणम् ।
तेजःसंयोगजं नैमित्तिकम् ।
तद्भिन्नं सांसिद्धिकम् ।
पृथिव्यां नैमित्तिकमुदाहरति ।
घृतादाविति ।
तेजसि तदाह ।
सुवर्णादाविति ।
चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः ।
जलमात्रवृत्तिः ॥१४॥
दीपिका
स्नेहं लक्षयति ।
चूर्णेति ।
कालादावतिव्याप्तिवारणाय गुणपदम् ।
रूपादावतिव्याप्तिवारणाय पिण्डीभावेति ।
श्रोत्रग्राह्यो गुणः शब्दः, आकाशमात्रवृत्तिः ।
स द्विविधः, ध्वन्यात्मकः वर्णात्मकश्च ।
तत्र ध्वन्यात्मकः भेर्यादौ ।
वर्णात्मकः संस्कृतभाषादिरूपः ॥१५॥
शब्दं लक्षयति ।
श्रोत्रेति ।
शब्दत्वेऽतिव्याप्तिवारणाय गुणपदम् ।
रूपादावतिव्याप्तिवारणाय श्रोत्रेति ।
शब्दास्त्रिविधः संयोगजः, विभागजः, शब्दजश्चेति ।
तत्र आद्यो भेरीदण्डसंयोगजन्यः ।
द्वितीयो वंशे पाटयमाने दळद्वयविभागजन्यश्चटाशब्दः ।
भेर्यादिदेशमारभ्य श्रोत्रदेशपर्यन्तं द्वितीयादिशब्दाः शब्दजाः ।
सर्वेव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् ।
सा द्विविधा स्मृतिरनुभवश्च ॥१६॥
दीपिका
बुद्धेर्लक्षणमाह ।
सर्वव्यवहारेति ।
कालादावतिव्याप्तिवारणाय गुण इति ।
रूपादावतिव्याप्तिवारणाय सर्वव्यवहार इति ।
जानामीत्यनुव्यवसायगम्यं ज्ञानमेव लक्षणमिति भावः ।
बुद्धिं विभजते ।
सेति ।
संस्कारमात्रजन्यं ज्ञानं स्मृतिः ॥१७॥
दीपिका
स्मृतेर्लक्षणमाः ।
संस्कारेति ।
भावनाख्यः संस्कारः ।
संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति ।
घटादिप्रत्यक्षेऽतिव्याप्तिवारणाय संस्कारजन्यमिति ।
प्रत्यभिज्ञायाम् अतिव्याप्तिवारणाय मात्रपदम् ।
तद्भिन्नं ज्ञानमनुभवः ।
स द्विविधः, यथार्थोऽयथार्थश्च ॥१८॥
दीपिका
अनुभवं लक्षयति ।
तद्भिन्नमिति ।
स्मृतिभिन्नं ज्ञानमनुभव इत्यर्थः ।
अनुभवं विभजते ।
स द्विविध इति ।
तद्वति तत्प्रकारकोऽनुभवो यथार्थः ।
यथा रजते इदं रजतमिति ज्ञानम् ।
सैव प्रमेत्युच्यते ॥१९॥
दीपिका
यथार्थानुभवस्य लक्षणमाह ।
तद्वतीति ।
ननु घटे घटत्वम् इति
प्रमायामव्याप्तिः, घटत्वे घटाभावादिति चेत् न, यत्र
यत्संबन्धोऽस्ति तत्र तत्संबन्धानुभवः इत्यर्थाद्धटत्वे
घटसंबन्धोऽस्तीति नाव्याप्तिः ।
सैवेति ।
यथार्थानुभव एव शास्त्रे प्रमेत्युच्यत इत्यर्थः ।
तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः ।
यथा शुक्ताविदंरजतमिति ज्ञानम् ।
सैव अप्रमा इत्युच्यते ॥२०॥
दीपिका
अयथार्थानुभवं लक्षयति ।
तदभाववतीति ।
नन्विदं संयोगीति प्रमायामतिव्याप्तिरिति चेत् न ।
यदवच्छेदेन
यत्संबन्धाभावस्तदवच्छेदेन तत्संबन्धज्ञानस्य विविक्षितत्वात् ।
संयोगाभावावच्छेदेन संयोगज्ञानस्य भ्रमत्वात्संयोगावच्छेदेन संयोगसंबन्धस्य सत्त्वान्नातिव्याप्तिः
यथार्थानुभवः चतुर्विधः प्रत्यक्षानुमित्युपमितिशाब्दभेदात् ॥२१॥
दीपिका
यथार्थानुभवं विभजते ।
यथार्थेति ।
तत् करणमपि चतुर्विधं प्रत्यक्षानुमानोपशब्द भेदात् ॥२२॥
दीपिका
प्रसङ्गात्प्रमाकरणं विभजते ।
तत्करणमपीति ।
प्रमाकरणमित्यर्थः ।
प्रमाकरणं प्रमाणमिति प्रमाणसामान्यलक्षणम् ।
असाधरणं कारणं करणम् ॥२३॥
दीपिका
करणलक्षणमाह ।
असाधारणेति ।
दिक्कालादावतिव्याप्तिवारणाय असाधारणेति ।
कार्यनियतपूर्ववृत्ति कारणम् ॥२४॥
दीपिका
कारणलक्षणमाह ।
कार्येति ।
पूर्ववृत्ति कारणमित्युक्ते रासभादावतिव्याप्तिः स्यादतो नियतेति ।
तावन्मात्रे कृते
कार्येऽतिव्याप्तिरतः पूर्ववृत्तीति ।
ननु तन्तुरूपमपि पटं प्रति कारणं स्यादति चेत् न, अनन्यथासिद्धत्वे सतीति विशेषणात् ।
अनन्यथासिद्धत्वमन्यथासिद्धिरहितत्वम् ।
अन्यथासिद्धिः त्रिविधा - येन सहैव यस्य यं प्रति पूर्ववृत्तित्वमवगम्यते तं प्रति तेन तदन्यथासिद्धम् ।
यथा तन्तुनां तन्तुरूपं तन्तुत्वं च पटं प्रति ।
तं प्रति तदन्यथासिद्धम् ।
यथा शब्दं प्रति पूर्ववृतित्त्वे ज्ञात एव पटं प्रत्याकाशस्य ।
अन्यत्र कॢप्तनियतपूर्ववतिर्न एव कार्यसंभवे तत्सहभूतमन्यथासिद्धम् ।
यथा पाकजस्थले गन्धं प्रति रूपप्रागभावस्य ।
एवञ्च अनन्यथासिद्धनियतपूर्ववृत्तित्वं कारणत्वम् ।
कार्यं प्रागभावप्रतियोगि ॥२५॥
दीपिका
कार्यलक्षणमाह ।
कार्यमिति ।
कारणं त्रिविधम् -समवाय्यसमवायिनिमित्तभेदात् ॥२६॥
यत् समवेतं कार्यं उत्पद्यते तत् समवायिकारणम् ।
यथा तंतवः पटस्य, पटश्च स्वगतरूपादेः ॥२७॥
दीपिका
कारणं विभजते ।
कारणमिति ।
समवायिकारणस्य लक्षणमाह ------ यत्समवेतमिति ।
यस्मिन् समवेतमित्यर्थः ।
असमवायिकारणं लक्षयति ----कार्यणेति ।
कार्येणेत्येतदुदाहरति -----तन्तुसंयोग इति ।
कार्येण कारणेन वा सह एकस्मिन्नर्थे समवेतत्वे सति यत्कारणं तदसमवायिकारणम् ।
यथा तंतुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य ॥२८॥
दीपिका
कार्येण पटेन सह एकस्मिंस्तन्तौ समवेतत्वात्तन्तुसंयोगः पटस्यासमवायिकारणमियर्थः ।
कारणेनेत्येतदुदाहरति ---- तन्तुरूपमिति ।
कारणेन पटेन सह एकस्मिंस्तन्तौ समवेतत्वात् ।
तदुभयभिन्नं कारणं निमित्तकारणम् ।
यथा तुरीवेमादिकं पटस्य ॥२९॥
दीपिका
तन्तुरूपं पटरूपस्यासमवायिकारणमित्यर्थः ।
निमित्तकारणं लक्षयति ---तदुभयेति ।
समवाय्यसमवायिभिन्नकारणं निमित्तकारणमित्यर्थः ।
तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् ॥३०॥
दीपिका
करणलक्षणमुपसंहरति ----तदेतदिति ।