तत्र गन्धवती पृथिवी ।
सा द्विविधा- नित्याऽनित्या च ।
नित्या
परमाणुरूपा ।
अनित्या कार्यरूपा ।
पुनस्त्रिविधा शरीरेन्द्रिय विषयभेदात् ।
शरीरमस्मदादीनाम् ।
इन्द्रियं गन्धग्राहकं घ्राणम् ।
तच्च नासाग्रवर्ति ।
विषयो मृत्पाषाणादिः ॥१॥
दीपिका
तत्रोद्देशक्रमानुसारात् प्रथमं पृथिव्या लक्षणमाह ।
तत्रेति ।
नाना पदार्थसंकीर्तनमुद्देशः ।
उद्देशक्रमे च सरवत्रेच्छैवं नियामिका ।
ननु सुरभ्यसुरभ्यवयवाख्धे द्रव्ये परस्परविरोधेन गन्धानुत्पादादव्याप्तिः ।
न च तत्र गन्धप्रतीत्यनुपपत्तिरिति वाच्यम् ।
अवयवगन्धस्यैव तत्र प्रतीतिसंभवेन चित्रगन्धानङ्गीकारात् किं चोत्पन्नविनष्टघटादावव्याप्तिरिति चेत् न ।
गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वस्य विवक्षितत्वात् ।
ननु जलादावपि गन्धप्रतीतिरिति चेत् न ।
अन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव तत्र भानाङ्गीकारात् ।
ननु कालस्य सर्वाधारतया सर्वेषां लक्षणानां कालेऽतिव्याप्तिरिति चेत् न ।
सर्वाधारताप्रयोजकभिन्नसंबन्धेन लक्षणत्वस्य विवक्षितत्वात् ।
पृथिवीं विभजते ।
सा द्विविधेति ।
नित्यत्वं ध्वंसाप्रतियोगित्वम् ।
अनित्यत्वं ध्वंसप्रतियोगित्वम् ।
प्रकारान्तरेण विभजते ।
पुनरिति ।
आत्मनो भोगायतनं शरीरम् ।
यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनम् ।
सुखदुःखसाक्षात्कारो भोगः ।
शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वम् ।
शरीरेन्द्रियभिन्नो विषयः ।
एवं च गन्धवच्छरीरं पार्थिवशरीरम्,
गन्धवदिन्द्रियं पार्थिवेन्द्रियम्, गन्धवान् विषयः पार्थिवविषय
इति तत्तल्लक्षणं बोध्यम् ।
पार्थिवशरीरं दर्शयति ।
शरीरमिति ।
इन्द्रियं दर्शयति ।
इन्द्रियमिति ।
गन्धग्राहकमिति प्रयोजनम् ।
घ्राणमिति संज्ञा ।
नासाग्रेत्याश्रयोक्तिः ।
एवमुत्तरत्र ज्ञेयम् ।
पार्थिवविषयं दर्शयति ।
मृतपाषाणादीति ।
शीतस्पर्शवत्यः आपः ।
ता द्विविधाः नित्या अनित्याश्च ।
नित्याः परमाणुरूपाः ।
अनित्याः कार्यरूपाः ।
पुनः त्रिविधाः शरीरेन्द्रियविषयभेदात् ।
शरीरं वरूणलोके ।
इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति ।
विषयः सरित् समुद्रादिः ॥२॥
दीपिका
अपां लक्षणमाह ।
शीतेति ।
उतपन्नविनिष्टजलेऽव्याप्तिवारणाय शीतस्पर्शसमानाधिकरणद्रव्यत्वापरजातिमत्त्वम् ।
``शीतं शिलातलम्"इत्यादौ जलसंबन्धादेव शीतस्पर्शभानमिति नातिव्याप्तिः ।
अन्यत्सर्वं पूर्वरीत्या व्याख्येयम् ॥
उष्णस्पर्शवत् तेजः ।
तच्च द्विविधं, नित्यमनित्यं च ।
नित्यं परमाणुरूपम् ।
अनित्यं कार्यरूपम् ।
पुनः त्रिविधं शरीरेन्द्रियविषयभेदात् ।
शरीरं आदित्यलोके प्रसिद्धम् ।
इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति ।
विषयः चतुर्विधः, भौम- दिव्य- औदर्य- आकरज भेदात् ।
भौमं वह्नयादिकम् ।
अबिन्धनं दिव्यं विद्युदादि ।
भुक्तस्य परिणामहेतुरौदर्यम् ।
आकरजं सुवर्णादि ॥३॥
दीपिका
तेजसो लक्षणमाह ।
उष्णस्पर्शवदिति ।
`उष्णं जलम्'इति प्रतीतेस्तेजः संयोगानुविधायित्वान्नातिव्याप्तिः ।
विषयं विभजते ।
भौमेति ।
ननु `सुवणं पार्थिवं'पीतत्वाद्गुरूत्वात् हरिद्रावत् इति चेत् न ।
अत्यन्तानलसंयोगे सति घृतादौ द्रव्त्वनाशदर्शनेन,
जलमध्यस्थघृतादौ तन्नाशादर्शनेन च असति प्रतिबन्धके
पार्थिवद्रवत्वनाशाग्निसंयोगयोः कार्यकारणभावावधारणात्सुवर्णस्य
अत्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन
पार्थिवत्वाऽनुपपत्तेः पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया
द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः
रूपवत्तया वाय्वादिष्वनन्तर्भावात्तेजसत्वसिद्धिः ।
तस्योष्णस्पर्शभास्वररूपयोरूपष्टम्भक पार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः ।
तस्मात् सुवर्णं तैजसमिति सिद्धम् ।
रूपरहितः स्पर्शवान् वायुः ।
स द्विविधः नित्यः अनित्यश्च ।
नित्यः परमाणुरूपः ।
अनित्यः कार्यरूपः ।
पुनः त्रिविधः शरीरेन्द्रियविषय भेदात् ।
शरीरं वायुलोके ।
इन्द्रियं स्पर्शग्राहकं त्वक् सर्वशरीरवर्ति ।
विषयो वृक्षादिकम्पनहेतुः ।
शरीरान्तःसंचारी वायुः प्राणः ।
स च एकोऽपि उपाधिभेदात् प्राणापानादिसंज्ञां लभते ॥४ ॥
दीपिका
वायुं लक्षयति ।
रूपरहितेति ।
आकाशादावतिव्याप्तिवारणाय स्पर्शवानिति ।
पृथिव्यादावतिव्याप्तिवारणाय रूपरहितेति ।
प्राणस्य कुत्रान्तर्भाव इत्यत आह ।
शरीरेति ।
स चेति ।
एक एवः प्राणः स्थानभेदात्प्राणापानादिशब्दैः व्यवह्रियत इत्यर्थः ।
स्पर्शानुमेयो वायुः ।
तथा हि -योऽयं वायौ वाति सति अनुष्णाशीतस्पर्श उपलभ्यते स क्कचिदाश्रितः गुणत्वाद्रूपवत् ।
न चास्य आश्रयः पृथिवी उद्भूतस्पर्शवत्पार्थिवस्योद्भूतरूपत्त्वनियमात् ।
न जल तेजसि अनुष्णाशीतस्पर्शवत्त्वात् ।
न विभुचतुष्टयम् सर्वत्रोपलब्धिप्रसङ्गात् ।
न मनः परमाणुस्पर्शस्यातीन्द्रियत्वात् ।
तस्माद्यः प्रतीयमानस्पर्शाश्रयः स वायुः (एव)।
ननु वायुः प्रत्यक्षः प्रत्यक्षाश्रयत्वात् घटवत् इति चेत् न ।
उद्भूतरूपस्योपाधित्वात् ।
`यत्र द्रव्यत्वे सति बहिरिन्द्रियजन्यप्रत्यक्षत्वं, तत्र उद्भूतरूपवत्त्वम् 'इति साध्यव्यापकत्वम् ।
पक्षे साधनाव्यापकत्वम् ।
न चैवं तप्तवारिस्थतेजसोऽपि अप्रत्यक्षत्वापत्तिः इष्टत्वात् ।
तस्माद्रूपरहितत्वाद्वायुरप्रत्यक्षः ।
इदानीं कार्यरूपपृथिव्यादिचतुष्टयस्योत्पत्तिविनाशक्रमः कथ्यते ।
ईश्वरस्य चिकीर्षावशात्परमाणुषु क्रिया जायते ।
ततः परमाणुद्वयसंयोगे द्वयणुकमुत्पद्यते ।
त्रिभिरेव द्वयणुकैस्त्रयणुकमुत्पद्यते ।
एवं चतुरणुकादिक्रमेण महती पृथिवीः, महत्य आपः, महत्तेजः, महान्वायुरूत्पद्यते ।
एवमुत्पन्नस्य कार्यद्रव्यस्य संजिहीर्षावशात् क्रियया परमाणुद्वयविभागे द्वयणुकनाशः ।
इत्येवं पृथिव्यादिनाशः ।
असमवायिकारणाशात् द्वयणुकनाशः ।
समवायिकारणाशात् त्र्यणुकनाश इति संप्रदायः सर्वत्रासमवायिकारणनाशात् द्रव्यनाश इति नवीनाः ।
किं पुनः परमाणुसद्भावे प्रमाणम् ।
उच्यते --जालसूर्यमरीचिस्थं सर्वतः सूक्षमतमं यत् द्रव्यं उपलभ्यते तत्सावयवं चाक्षुषद्रव्यत्वाद्धटवत् ।
त्र्यणुकावयवोऽपि सावयवः महदारम्भकत्वात्कपालवत् ।
यो द्वयणुकावयवः स परमाणुः ।
स च नित्यं, तस्यापि कार्यत्वे अनवस्थाप्रसङ्गात् ।
सृष्टिप्रलयसद्भावे `धाता यथापूर्वमकल्पयत् ।
'इति श्रुतिरेव प्रमाणम् ।
`सर्वकार्यद्रव्यध्वंसोऽवान्तरप्रलयः ।
सर्वभावकार्यध्वंसो महाप्रलयः'इति विवेकः ।
शब्दगुणकमाकाशम् ।
तच्चैकं नित्यञ्च ॥५॥
दीपिका
आकाशं लक्षयति ।
शब्दगुणकमिति ।
नन्वाकाशमपि पृथिव्यादिवन्नाना, किं नेत्याह ।
तच्चैकमिति ।
भेदे प्रमाणाभावादित्यर्थः ।
एकत्वादेव सर्वत्र शब्दोपलब्धेर्विभुत्वमङ्गीकर्तव्यमित्याह विभ्विति ।
सर्वमूर्तद्रव्यसंयोगित्वं विभुत्वं, मूर्तत्वं परिच्छिन्नपरिमाणवत्त्वं क्रियावत्त्वं वा।
विभुत्वादेव आत्मवन्नित्यमित्याह ।
नित्यं चेति ।
अतीतादिव्यवहारहेतुः कालः ।
स चैको विभुर्नित्यश्च ॥६॥
दीपिका
कालं लक्षयति ।
अतीतेति ।
सर्वाधारः कालः सर्वकार्यनिमित्तकारणम् ।
प्राच्यादिव्यवहारहेतुर्दिक् ।
सा चैका विभ्वी नित्या च ॥७॥
दीपिका
दिशो लक्षणमाह ।
प्राचीति ।
दिगपि कार्यमात्रनिमित्तकारणम् ।
ज्ञानाधिकरणमात्मा ।
स द्विविधः परमात्मा जीवात्मा च ।
तत्रेश्वरः सर्वज्ञः परमात्मैक एव ।
जीवात्मा प्रतिशरीरं भिन्नो विभुर्नित्यश्च ॥८॥
दीपिका
आत्मनो लक्षणमाह ।
ज्ञानेति ।
आत्मानं विभजते ।
स द्विविध इति ।
परमात्मनो लक्षणमाह ।
तत्रेति ।
नित्यज्ञानाधिकरणत्वमीश्वरत्वम् ।
नन्वीश्वरसद्भावे किं प्रमाणम् ।
न तावत्प्रत्यक्षम् ।
तद्धि बाह्यामान्तरं वा ।
नाद्यः अरूपिद्रव्यत्वात् ।
न द्वितीयः आत्मसुखदुःखादिव्यतिरिक्तत्वात् ।
नाप्यनुमानं लिङ्गाभावादिति चेत् न ।
अङ्कुरादिकं सकर्तृकं कार्यत्वाद्धटवत् इत्यनुमानस्यैव प्रमाणत्वात् ।
उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वं कर्तृत्वम् ।
उपादानं समवायिकारणम् ।
सकलपरमाण्वादिसूक्ष्मदर्शित्वात्सर्वज्ञत्वम् ।
यः सर्वज्ञः स सर्ववित् इत्यागमोऽपि तत्र प्रमाणम् ।
जीवस्य लक्षणमाह ।
जीव इति ।
सुखाद्याश्रयत्वं जीवलक्षणम् ।
ननु मनुष्योऽहं ब्राह्मणोऽहम् इत्यादौ सर्वत्राहंप्रत्यये शरीरस्यैव विषयत्वाच्छरीरमेवात्मेति चेत् न ।
शरीरस्यात्मवे करपादिनाशे शरीरनाशादात्मनोऽपि नाशप्रसंगात् ।
नापीन्द्रियाणामात्मत्वम् , `योऽहं घटमद्राक्षं सोऽहमिदानीं स्पृशामि'इत्यनुसन्धानाभावप्रसङ्गात् ।
अन्यानुभूतेऽर्थे अन्यस्यानुसंधानायोगात् ।
तस्माद्देहेइन्द्रियव्यतिरिक्तो जीवः सुखदुःखादिवैचित्र्यात्प्रतिशरीरं भिन्नः ।
स च न परमाणुः ।
सर्वशरीरव्यापिसुखाद्यनुपलब्धिप्रसङ्गात् ।
न मध्यमपरिमाणवान् तथा सति अनित्यत्वप्रसङ्गेन कृथानाकृताभ्यागमप्रसङ्गात् ।
तस्मान्नित्यो विभुर्जीवः ॥
सुखाद्युपलब्धिसाधनमिन्द्रियं मनः ।
तच्च प्रत्यात्मनियतत्वादनन्तं परमाणुरूपं नित्यं च ॥९॥
दीपिका
मनसो लक्षणमाह ।
सुखेति ।
स्पर्शरहित्वे सति क्रियावत्वं मनसो लक्षणम् ।
तद्विभजते ।
तच्चेति ।
एकैकस्यात्मन एकैकं मन इत्यात्मनामनेकत्वान् मसोऽप्यनेकत्वमित्यर्थः ।
परमाणुरूपमिति ।
मध्यमपरिमाणवत्त्वे अनित्यत्वप्रसङ्गादित्यर्थः ।
ननु मनो विभु स्पर्शरहित्वे सति द्रव्यत्वादाकाशादिवदिति चेत् न ।
मनसो विभुत्वे आत्ममनः संयोगस्याऽसमवायिकारणस्याभावाज्ज्ञानानुत्पत्तिप्रसङ्गः ।
न च विभुद्वयसंयोगोऽस्त्विति वाच्यम् ।
तत्संयोगस्य नित्यत्वेन सुषुप्त्यभावप्रसङ्गात, पुरीतद्रव्यतिरिक्तस्थले आत्ममनः संयोगस्य सर्वदा विद्यमानत्वात् ।
अणुत्वे तु यदा मनः पुरीतत् प्रविंशति तदा सुषुप्तिः यदा निस्सरति तदा ज्ञानोत्पत्तिरित्यणुत्वसिद्धिः ।