तर्कसंग्रह - अथ सप्तमोऽध्याय

’तर्कसंग्रह’ग्रंथातील आठ अध्यायातून तर्कशास्त्राचे अचूक ज्ञान मिळते.


आप्तवाक्यं शब्दः ।

आप्तस्तु, यथार्थवक्ता ।

वाक्यं पदसमूहः ।

यथा गामानयेति ।

शक्तं पदम् ।

अस्मात्पदात् अयमर्थो बोद्धव्य इतीश्वरसंकेतः शक्तिः ॥१॥

दीपिका

शब्दं लक्षयति ---आप्तेति ॥

आप्तं लक्षयति ---आप्तस्त्विति ॥

वाक्यलक्षणमाह ----वाक्यमिति ॥

पदलक्षणमाह ---शक्तमिति ॥

अर्थस्मृत्यनुकूलपदपदार्थसंबन्धः शक्तिः ।

सा च पदार्थान्तरमिति मीमांसकाः ।

तन्निरासार्थमाह ---अस्मादिति ॥

डित्थादीनामिव घटादीनामपि संकेत एव शक्तिः न तु पदार्थान्तरमित्यर्थः ।

ननु गवादिपदानां जातावेव शक्तिः, विशेषणतया जातेः प्रथममुपस्थित्वात् ।

व्यक्तिलाभास्तु आक्षेपादिति केचित् ।

तत् न, गामान्येत्यादौ वृद्धव्यवहारेण सर्वत्रानयनादेर्व्यक्तावेव संभवेन, जातिविशिष्टव्यक्तावेव शक्तिकल्पनात् ।

शक्तिग्रहश्च वृद्धव्यवहारेण ।

व्युत्पित्सुर्बालो `गामानय' इत्युत्तमवृद्धवाक्यश्रवणान्तरं मध्यमवृद्धस्य

प्रवृत्तिमुपलभ्य गवानयनं च दृष्ट्वा मध्यमवृद्धप्रवृत्तिजनकज्ञानस्यान्वयव्यतिरेकाभ्यां वाक्तजन्यत्वं

निश्चित्य `अश्वमानय गां बधान'इति वाक्यान्तरे आवापोद्वापाभ्यां

गोपदस्य गोत्वविशिष्टे शक्तिः, अश्वपदस्य अश्वत्वविशिष्टे शक्तिरिति व्युत्पद्यते ।

ननु सर्वत्र कार्यपरत्वाद्वयवहारस्य कार्यपरवाक्य एव व्युत्पर्त्तिन सिद्धपर इति चेत् न ।

`काश्यां त्रिभुवन्तिलको भूपतिरास्ते 'इत्यादौ सिद्धेऽपि व्यवहारात्, `

विकसितपद्मे मधुकरस्तिष्ठति 'इत्यादौ प्रसिद्धपदसमभिव्यवहारात्सिद्धेऽपि मधुकरादिव्युत्पत्तिदर्शनाच्च ।

लक्षणापि शब्दवृत्तिः ।

शक्यसंबन्दो लक्षणा ।

गङ्गायां घोष इत्यत्र गङ्गापदवाच्यप्रवाहसंबन्धादेव तीरोपस्थितौ तीरेऽपि शक्तिर्न कल्प्यते ।

सैधवादौ लवणाश्वयोः परस्परसंबन्धाभावान्नानाशक्तिकल्पनम् ।

लक्षणा त्रिविधा ---- जहल्लक्षणा, अजहल्लक्षणा, जहदजल्लक्षणा चेति ।

यत्र वाच्यार्थस्यान्वयाभावः तत्र जहल्लक्षणा ।

यथा मञ्चाः क्रोशन्तीति ।

यत्र वाच्यार्थस्याप्यन्वयः, तत्र अजहदिति ।

यथा छत्रिणो गच्चन्तीति ।

यत्र वाच्यैकदेशत्यागेन एकदेशान्वयः, तत्र जहदजहदिति ।

यथा तत्त्वमसीति ।

गौण्यपि लक्षणैव लक्ष्यमाणगुणसंबन्धस्वरूपा यथा अग्निर्माणवक इति ।

व्यञ्चनापि शक्तिलक्षणान्तर्भूता, शब्दशक्तिमूला अर्थशक्तिमूला च ।

अनुमानादिना अन्यथासिद्धा ।

तात्पर्यानुपपत्तिर्लक्षणाबीजम् ।

तत्प्रीतीतीच्छयोच्चरितत्वं तात्पर्यम् ।

तात्पर्यज्ञानञ्च वाक्यार्थज्ञाने हेतुः नानार्थानुरोधात् ।

प्रकरणादिकं तात्पर्यग्राहकम् ।

द्वारमित्यादौ पिधेहीति शब्दाध्याहारः ।

ननु अर्थज्ञानार्थत्वाच्छब्दस्यार्थमविज्ञाय

शब्दाध्याहारासंभवादर्थाध्याहार एव युक्त इति चेत् न ।

पदविशेषजन्यपदार्थोपस्तिथेः शाब्दज्ञाने हेतुत्वात् ।

अन्यथा `घटः कर्मत्वमानयं कृतिः 'इत्यत्रापि शाब्दज्ञानप्रसङ्गात् ।

पङ्कजादिपदेषु योगरूढिः ।

अवयवशक्तिर्योगः ।

समुदायशक्ती रूढिः ।

नियतपद्मत्वादिज्ञानार्थं समुदायशक्तिः ।

अन्यथा कुमुदेऽपि प्रयोगप्रसङ्गात् ।

`इतरान्विते शक्तिः 'इति प्राभाकराः ।

अन्वयस्य वाक्यार्थतया भानसम्भवादन्वयांशेऽपि शक्तिर्न कल्पनीया इति गौतमीयाः ।

आकांक्षा योग्यता संनिधिश्च वाक्यार्थज्ञानहेतुः पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वम् आकांक्षा ।

अर्थाबाधो योग्यता ।

पदानामविलम्बेनोच्चारणं संनिधिः ॥२॥

दीपिका

आकांक्षेति ॥

आकाङ्क्षादिज्ञानमित्यर्थः ।

अन्यथा आकांक्षादिभ्रमाच्छाब्दभ्रमो न स्यात् ।

आकाङ्क्षां लक्षयति --- पदस्येति ॥

योग्यतालक्षणमाह ----अर्थेति ॥

संनिधिलक्षणमाह----पदानामिति ।

अविलम्बेन पदार्थोपस्थितिः संनिधिः ।

उच्चारणं तु तदुपयोगितयोक्तम् ।

आकांक्षादिरहितं वाक्यप्रमाणम् ।

यथा गौरश्वः पुरूषो हस्तीति न

प्रमाणमाकांक्षाविरहात् ।

अग्निना सिञ्चेदिति न प्रमाणं योग्यताविरहात् ।

प्रहरे प्रहरेऽसहोच्चारितानि गामानयेत्यादिपदानि न प्रमाणं सांनिध्याभावात् ॥३॥

दीपिका

गौरश्व इति ॥

घटकर्मत्वमित्यप्यनाकांक्षोदाहरणं द्रष्टव्यम् ।

वाक्यं द्विविधम् ।

वैदिकं लौकिकं च ।

वैदिकमीश्वरोक्तत्वात्सर्वमेव

प्रमाणम् ।

लौकिकं त्वाप्तोक्तं प्रमाणम् ।

अन्यदप्रमाणम् ॥४॥

दीपिका

वाक्यं विभजते ---वाक्यमिति ॥

वैदिकस्य विशेषमाह --- वैदिकमीश्वरोक्तत्वादिति ॥

ननु वेदस्यानादित्वात्कथमीश्वरोक्तत्वमिति चेत् न ।

`वेदः पौरूषेयः वाक्यसमूहत्वात् भारतादिवत् 'इत्यनुमानेन पौरूषेयत्वसिद्धेः ।

न च स्मर्यमाणकर्तृकत्वमुपाधिः, गौतमादिभिः शिष्यपरम्परया वेदेऽपि सकर्तृकत्वस्मरणेन साधनव्यापकत्वात् ।

`तस्मात्तेपानात्त्रयो वेदा अजायन्त 'इति श्रुतेश्च ।

ननु वर्णा नित्याः, स एवायं गकार इति प्रत्यभिज्ञाबलात् ।

तथा च कथं वेदस्यानित्यत्वमिति चेत् न, `उत्पन्नो गकारो विनिष्टो गकार'इत्यादिप्रतीत्या वर्णानामनित्यत्वात्, `सोऽयं

गकार'इति प्रत्यभिज्ञायाः `सेएयं दीपज्वाला ' इतिवत्साजात्यावलम्बनत्वात्, वर्णानां

नित्यत्वेऽप्यानुपूर्वाविशिष्टवाक्यस्यानित्यत्वाच्च ।

तस्मादीश्वरोक्ता वेदाः ।

मन्वादिस्मृतीनामाचाराणां च वेदमूलकतया प्रमाण्यम् ।

स्मृतिमूलवाक्यानामिदानीमनध्ययनात्तन्मूलभूता काचिच्छारवोत्सन्नेति कल्प्यते ।

ननु पठ्यमानवेदवाक्योत्सादनस्य कल्पयितुमशक्यतया

विप्रकीर्णवादस्यायुक्तत्वान्नित्यानुमेयो वेदो मूलमिति चेत् न, तथा सति

कदापि वर्णानामानुपूर्वीज्ञानासंभवेन बोधकत्वास/न्भवात् ।

वाक्यार्थज्ञानं शाब्दज्ञानम् । तत्करणं शब्दः ॥५॥

दीपिका

ननु एतानि पदानि स्मारितार्थसंसर्गवन्ति आकांक्षादिमत्पदकदम्बकत्वात्

मद्वाक्यवत् इत्यनुमानादेव संसर्गज्ञासंभवाच्छब्दो न प्रमाणान्तरमिति चेन्न ।

अनुमित्यपेक्षया विलक्षणस्य शाब्दज्ञानस्य `शाब्दात्प्रत्येमि 'इत्वनुव्यवसायंसाक्षिकस्य सर्वसंमतत्वात् ।

नन्वर्थापत्तिरपि प्रमाणान्तरमस्ति `पीनो देवदत्तो दिवा न भुङ्क्ते

'इति दृष्टे श्रुते वा पीनत्वान्यथानुपपत्त्या रात्रिभोजनमर्थापत्त्या कल्प्यत इति चेन्न ।

`देवदत्तो रात्रौ भुङ्क्ते दिवाऽभुञ्जानत्वे सति पीनत्वात् 'इत्यनुमानेनैव रात्रिभोजनस्य सिद्धत्वात् ।

शते पञ्चाशदिति सम्भवोऽप्यनुमानमेव ।

`इह वटे यक्षस्तिष्ठति 'इत्यैतिह्यमपि अज्ञातम्लवक्तृकशब्द एव ।

चेष्टापि शब्दानुमानद्वारा व्यवहारहेतुरिति न प्रमाणान्तरम् ।

तस्मात्प्रत्यक्षानुमानोपमानशब्दाश्चत्वार्येव प्रमाणानि ॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP