ज्ञानानां तद्वति तत्प्रकारकत्वं स्वतोग्राह्यं परतो वेति विचार्यते ।
तत्र विप्रतिपत्तिः ------ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा इति ।
अत्र विधिकोटिः स्वतस्त्वम् ।
निषेधकोटिः परतस्त्वम् ।
अनुमानादिग्राह्यत्वेन सिद्धसाधनवारणाय यावदिति ।
'इदं ज्ञानमप्रमा `इति ज्ञानेन प्रामाण्याग्रहाद्वाधवारणाय -----अप्रामाण्याग्राहकेति॥
इदं ज्ञानमप्रमा इत्यनुव्यवसायनिष्ठप्रामाण्यग्राहकस्यापि अप्रामाण्याग्राहकत्वाभावात्स्वतस्त्वं न स्यादतस्तदिति ।
तस्मिन्ग्राह्यप्रामाण्याश्रयेऽप्रामाण्याग्राहिकेत्यर्थः ।
उदाहृतस्थले व्यवसायाप्रामाण्यग्राहकस्याप्यनुव्यवसाये तद्ग्राहकत्वात्स्वतस्त्वसिद्धिः ।
ननु स्वत एव प्रामाण्यं गृह्यते, `घटमहं जानामि ' इत्यनुव्यवसायेन घटघटत्वयोरिव तत्संबन्धस्यापि विषयीकरणात्
व्यवसायरूप प्रत्यासत्तेस्तुल्यत्वात् ।
पुरोवर्तिनि प्रकारसंबन्धस्यैव प्रमात्वपदार्थत्वादिति चेत् न ।
स्वतःप्रामाण्यग्रहे `जलज्ञानं प्रमा न वा 'इत्यनभ्यासदशायां प्रमात्वसंशयो न स्यात् ।
अनुव्यवसायेन प्रामाणस्य निश्चितत्वात् ।
तस्मात्स्वतोग्राह्यत्वाभावात्परतो ग्राह्यत्वमेव ।
तथाहि ।
प्रथमं जलज्ञानान्तरं प्रवृत्तौ सत्यां जललाभे सति पूर्वोत्पन्नं जलज्ञानं प्रमा सफलप्रवृत्तिजनकत्वात् यन्नैवं
तन्नैवं यथा अप्रमा इति व्यतिरेकिणा प्रमात्वं निश्चीयते ।
द्वितीयादिज्ञानेषु पूर्वज्ञानदृष्टान्तेन तत्सजातीयत्वलिङ्गेनान्वयव्यतिरेकिणापि गृह्यते ।
प्रमाया गुणजन्यत्वमुत्पत्तौ परतस्त्वम् ।
प्रमासाधारणकारणं गुणः, अप्रमासाधारणकारणं दोषः ।
तत्र प्रत्यक्षे विशेषणवद्विशेष्यसंनिकर्षो गुणः ।
अनुमितौ व्यापकवति व्याप्यज्ञानम् ।
उपमितौ यथार्थसादृश्यज्ञानम् ।
शाब्दज्ञाने यथार्थयोग्यताज्ञानम् । इत्याद्यूहनीयम् ।
पुरोवर्तिनि प्रकाराभावस्यानुव्यवसायेनानुपस्थितत्वादप्रमात्वं परत एव गृह्यते ।
पित्तादिदोषजन्यत्वमुत्पत्तौ परतस्त्वम् ।
ननु सर्वेषां ज्ञानानां यथार्थत्वादयथार्थज्ञानमेव नास्तीति ।
न च `शुक्ताविदं रजतम्' इति ज्ञानात्प्रवृत्तिदर्शनादन्यथाख्यातिसिद्धिरिति वाच्यम् ।
रजतस्मृतिपुरोवर्तिज्ञानाभ्यामेव प्रवृत्तिसंभवात् ।
स्वतन्त्रोपस्थितेष्टभेदाग्रहस्यैव सर्वत्र प्रवर्तकत्वेन `नेदं रजतम् 'इत्यादौ अतिप्रसङ्गाभावादिति चेत् न ।
सत्यरजस्थले पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानस्य लाघवेन
प्रवृत्तिजनकतया शुक्तावपि रजतार्थि प्रवृत्तिजनकत्वेन विशिष्टज्ञानस्यैव कल्पनात् ।
तर्कसंग्रहः समाप्तः ॥