श्रीशुक उवाच
एवमेतन्निगदितं पृष्टवान यद्धवान मम ।
नृणां यन्म्रियमाणानां मनुष्येषु मानीषिणाम ॥१॥
ब्रह्मावर्चसकामस्तु यजेत ब्रह्मणस्पतिम ।
इन्द्रमिन्द्रिकामस्तु प्रजाकामः प्रजापतीन ॥२॥
देवीं मायां तु श्रीकामस्तेजस्कामो विभावसूम ।
व्सूकामो वसून रुद्रान वीर्यकामोऽथ वीर्यवान ॥३॥
अन्नाद्यकामस्त्वदितं स्वर्गस्कामोऽदितेः सूतान ।
विश्वान्देवान राज्यकामः साध्यान्ससाधको विशाम ॥४॥
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत ।
प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥५॥
रुपाभिकामो गन्धर्वान स्त्रीकामोऽप्सरर्वशीम ।
आधिपत्यकामः सर्वषां यजेत परमेष्ठिनम ॥६॥
यज्ञं यजेद यशस्कामः कोमकामः प्रचेतसम \
विद्याकामास्तु गिरिशं दाम्पत्यार्थ उमां सतीम ॥७॥
धर्मार्थ उत्तमश्लोकं तन्तु तन्वन पितृन यजेत ।
रक्षाकामह पुण्यजनानोजस्कामो मरुद्गजाण ॥८॥
राज्यकामो मनून देवान निऋतिं त्वभिचरन यजेत ।
कामकामो यजेत सोममकामः पुरुषं परम ॥९॥
अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्तेयोगेन यजेत पुरुष परमः ॥१०॥
एतावानेव यजतामिह निःश्रेयसोदयः ।
भगवत्यचलो भावो यद भागवतसंगतः ॥११॥
ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्र मात्मप्रसाद उत यत्र गुणेष्वसंगः ।
कैवल्यसम्मतपथस्त्वथ भक्तियोगः को निवृतो हरिकथासू रतिं न कुर्यात ॥१२ \॥
शौनक उवाच
इत्यभिव्याहतं राजा निशम्य भरतर्षभः ।
किमन्त्यत्पॄष्टवान भुयो वैयुआसकिमृषिं कविम । \१३॥
एतच्छुश्रुषतां विद्वन सूत नोऽर्हसि भिषितुम ।
कथा हरिकथोदर्काः सतां स्युः सदासि ध्रुवम ॥१४॥
स वै भागवतो राजा पाण्डवेयो महारथः ।
बालक्रीडकैः क्रीडन कृष्णक्रीडां य आददे ॥१५॥
वैयासकिश्च भगवान वासूदेवपरायणः ।
उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥१६॥
आयुर्हरति वै पुंसामुद्यन्नरस्तं च यन्नसौ ।
तस्यर्ते यत्क्षणो नीत उत्तमश्लोकवार्तया ॥१७॥
तरवः किं न जीवन्ति भस्त्राः किं न श्वसन्त्युज ।
न खादन्ति न मेहन्ति कीं ग्रामपशवोऽपरे ॥१८॥
श्वविडवराहोष्ट्रखरैः संस्तुतः पुरुषः पशुः ।
न यत्कर्णपथोपतो जातु नाम गदाग्रजः ॥१९॥
बिले बतोरुक्रमविक्रमान ये न श्रृण्वतः कर्णपुटे नरस्य ।
जिन्हासती दार्दुरिकेव सूत न चोपगायत्युरुगायगाथाः ॥२०॥
भारः परं पट्टकिरीटजुष्ट मप्युत्तमांग न नमेन्मुकुन्दम ।
शावौ करौ नो कुरुतः सपर्या हरेर्लसत्कांचनकंकणौ वा ॥२१॥
बर्हायिते ते नयने नराणां लिंगांने विष्णोर्न निरीक्षतो ये ।
पादौ नृणां तौ द्रुमजन्मभाजी क्षेत्राणि नानुव्रजतो हरेर्यौ ॥२२॥
जीवत्र्छवो भागवतांड्घ्रिरेणुं न जातु मर्त्योऽभिलभेत यस्तु ।
श्रीविष्णुपद्मा मनुजस्तुलस्याः श्वसत्र्छवो यस्तु न वेद गन्धम ॥२३॥
तदश्मसारं हृदयं बतेदं यद गृहामाणिअर्हरिनामधेयैः ।
न विक्रियेताथ यदा विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥२४॥
अथाभिधेह्रांग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः ।
यदाह वैयासकिरात्मविद्याविशारदो नृपतिं साधु पुष्टः ॥२५॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या सहितांयां द्वितीयस्कन्धे तृतीयोऽध्यायः ॥३॥