नारद उवाच
देवदेव नमस्तेऽस्तु भूतभावन पूवज ।
तद विजानीहि यज्ज्ञानमात्मतत्वनिदर्शनम ॥१॥
यद्रुपं यदधिष्ठानं यतः सृष्टमिदं प्रभो ।
यत्सस्थं यत्परं यच्च तत्तत्वं वद तत्त्वतः ॥२॥
सर्वं ह्योतद भवान वेद भूतभव्यभवत्प्रभुः ।
करामलकवद विश्वं विज्ञानावसितं तव ॥३॥
यद्विज्ञानो यदधारो यत्परस्त्वं यदात्मकः ।
एकः सृजसि भुतानि भूतैरेवात्ममायया ॥४॥
आत्मन भावयसे तानि न पाराभावयम स्वयम ।
आत्म्यशक्तिमवष्टभ्य ऊर्णनाभिरिवाक्लमः ॥५॥
नाहं वेद परं ह्र्स्मिन्नापरं न समं विभो ।
नामरुपगुणैर्भाव्यं सदसतं किंचिदन्यतः ॥६॥
स भवानचरद घोरं यत तपः सूसमाहितः ।
तेन खेदयसे नस्त्वं पराशंका प्रयच्छसि ॥७॥
एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर ।
विजानीहि यथैवेदमहं बुध्येऽनुशासितः ॥८॥
ब्रह्मोवाच
सम्यक कारुणिकस्येदं वत्स ते विचिकित्सितम ।
यदहं चोदितः सौम्यः भगवद्वीर्यदर्शने ॥९॥
नानृतं तव तच्चापि यथा मां प्रब्रवीषि भोः ।
अविज्ञय परं मत्त एतावत्त्वं यतो हि मे ॥१०॥
येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम ।
यथार्कोऽग्निर्यथा सोमो यथर्क्षग्रहतारकाः ॥११॥
तस्मै नमो भगवते वासूदेवाय धीमहि ।
यन्मायया दुर्जयया मां ब्रुवान्ति जगदगुरुम ॥१२॥
विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।
विमोहिता विकत्थन्ते ममाहामिति दुर्धियः ॥१३॥
द्र्व्यं कर्म च कालस्च स्वभावो जीव एव च ।
वासूदेवात्परो ब्रह्मान्न चान्यॊऽर्थोऽस्ति तत्त्वतः ॥१४॥
नरायणपरा वेदा देवा नारायणांगजाः ।
नारायणपरा लोका नारायणपरा मखाः ॥१५॥
नारायणपरो योगो नरायणपरं तपः ।
नारायणपरं ज्ञानं नारायणपरा गतिः ॥१६॥
तस्यापि द्रष्टुरीशस्य कुटस्थस्याखिलात्मनः ।
सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः ॥१७॥
सत्त्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।
स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥१८॥
कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।
बन्धार्ति नित्यदा मुक्तं मायिनं पुरुष गुणाः ॥१९॥
स एष बगवाँलिंगैस्त्रिभिरेभिरधोक्षजः ।
स्वलक्षितागतिर्ब्रहान सर्वेषा मम चेश्चरः ॥२०॥
कालं कर्म स्वभावं च मायेशो मायया स्वया ।
आत्मनं यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥२१॥
कालाद गुणव्यतिकारः परिणामः स्वभावतः ।
कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत ॥२२॥
महतस्तु विकृर्णाणाद्रजः सत्त्वोपबृंहितात ।
तमः प्रधानस्त्वभवद द्रव्यज्ञानक्रियात्मकः ॥२३॥
सोऽहकांर इति प्रोक्तो विकृर्वन समभूत्त्रिधा ।
वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।
द्रव्यशक्तिः क्रियशक्तिर्ज्ञानशक्तिरिती प्रभो ॥२४॥
तामसदपि भूतादेर्विकुर्वाणादभुन्नभः ।
तस्य मात्रा गुणः शब्दो लिंग यद द्रष्टदृश्ययोः ॥२५॥
नभसोऽथ विकुर्वाणदभुत स्पर्शगुणोऽनिलः ।
परान्वयाच्छब्दवांश्च प्राण ओजः सहोबलम ॥२६॥
वायोरपि विकृर्वाणादभूत स्पर्शगोणोऽनिलः ।
उदपद्यत तेजो वै रुपवत स्पर्शशब्दवत ॥२७॥
तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम ।
रुपवत स्पर्शवच्चाम्भो घोषवच्च परान्वयात ॥२८॥
विशेषस्तु विकुर्वाणादम्भसो गन्धवानभुत ।
परान्वयाद रसस्पर्शशब्ददरुपगुणान्वितः ॥२९॥
वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।
दिग्वातार्कप्रचेतोऽश्विवह्निन्द्रोपेन्द्रमित्रकाः ॥३०॥
तैजसत तु विकुर्वाणादिन्द्रियाणि दशाभवन ।
ज्ञानशक्तिः क्रियाशक्तिर्बुद्धि प्राणश्च तैजसौ ।
श्रोत्रं त्वग्घ्राणदृग्विह्नावाग्दोमेंढ्राडघ्रिपायवः ॥३१॥
यदैतेऽसंगता भावा भेतेन्द्रियमनोगुणाः ।
यदायतननिर्माण न शेकर्ब्रह्मावित्तम ॥३२॥
तदा संहात्य चान्योन्यं भगवाच्छक्तिचोदिताः ।
सदसत्त्वमुपादाय चोभयं ससृजुर्ह्यादं ॥३३॥
वर्षपुगसहस्त्रान्ते तदण्डमुदकेशयम ।
कालकर्मस्वभावस्थे जीवोऽजीवमजीवयत ॥३४॥
स एव पुरुशस्तस्मादण्डं निर्भिद्य निर्गतः ।
सहस्त्रोर्वडघ्रिबाह्मक्षः सहस्त्राननशीर्षवान ॥३५॥
यस्येहावयवैर्लोकान कल्पयन्ति मनीषिषः ।
कट्यादिभिरधः सप्त सप्तोर्ध्व जघनादिभिः ॥३६॥
पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।
उर्वोवैश्यो भगवतः पदभ्यां शुद्रोऽभ्यजायत ॥३७॥
भूर्लोकः कल्पितः पदभ्यां भुवर्लोकोऽस्य नाभिस्तः ।
हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥३८॥
ग्रीवायां जनलोकश्च तपोलोकः स्तनद्वयात ।
मुर्धभिः सत्यलोकस्तु ब्रह्मालोकः सनातनः ॥३९॥
तत्कट्यां चातलं क्लृत्पमूरुभ्यां वितलं विभोः ।
जानुभ्यां सूतलं शुद्धं जंघाभ्यां तु तलातलम ॥४०॥
महातलं तु गुल्पाभ्यां प्रपदांभ्यां रसातलम ।
पातालं पादतलत इति लोकमयः पुमान ॥४१॥
भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।
स्वर्लोकः कल्पितो मूर्धा इति वा लोककल्पनाः ॥४२॥
इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां द्वितीयस्कन्धे पंचमोऽध्यायः ॥५॥