सूत उवाच
वैयासकेरिती व्चस्तत्त्वनिश्चयमात्मनः ।
उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात ॥१॥
आत्मजायसूतागारपशुद्रविणबन्धुषु ।
राज्ये चाविकले नित्यं विरुढां ममतां जहौ ॥२॥
पप्रच्छं चेममेवार्थ यन्मां पृच्छथ सत्तमाः ।
कॄष्णानुभवश्रवणे श्रद्धधाने महामनाः ॥३॥
संस्थां विज्ञाय संन्यस्य कर्म त्रैवर्गिकं च यत ।
वासूदेवे भगवति आत्मभावं दृढ गतः ॥४॥
राजोवाच समीचीनं वचो ब्रह्मन सर्वज्ञस्य तवानघ ।
तमो वेशिर्यते मह्यं हरेः कथयतः कथाम ॥५॥
भूय एव विवित्सामि भगवानात्ममायया ।
यथेदं सृजते विश्वं दुर्विभाअव्यमधीश्वरैः ॥६॥
यथा गोपयति विभुर्यथा संयच्छते पुनः ।
यां यां शक्तिमुपाश्चित्य पुरुषक्तिः परः पुमान ।
आत्मानं क्रीडयन क्रीडय करोति विकरोति च ॥७॥
नुनं भगवतो ब्रह्मान हरेरद्भुतकर्मणः ।
दुर्विभाव्यमिवाभाति कविभिश्चापि चेष्टितम ॥८॥
यथा गुणांस्तु प्रकृतेर्युगत क्रमशोऽपि वा ।
बिभर्ति भुरिषस्त्वेकः कुर्वन कर्माणि जन्मभिः ॥९॥
विचिकित्सितमेतन्मे ब्रवीतु भगवान यथा ।
शाब्दे ब्रह्माणि निष्णातः परस्मिंश्च भवान खलु ॥१०॥
सूत उवाच
इत्युपामन्त्रितो राज्ञा गुणानुकथने हरेः ।
हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥११॥
श्रीशुक उवाच
नमः परस्मै पुरुषाय भुयसे सदुद्भवस्थाननिरोधलीलया ।
गृहितशक्तित्रितयाय देहिना मन्तर्भवायानुपलक्ष्यवर्त्मने ॥१२॥
भूयो नमः सदवृजिनच्छिदेऽसतामसम्भवायखिलसत्त्वमर्तये ।
पुंसं पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥१३॥
नमो नमस्तेऽस्त्वृषभाय सात्वतां विदुरकाष्ठाय मुहुः कुयोगिनाम ।
निरस्तसाम्यातिशयेन राधसा स्वधामानि ब्रह्माणि रंस्यते नमः ॥१४॥
यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम ।
लोकस्य सद्यो विधुनोति कल्मषं तस्मै सूभद्रश्रवसे नमो नमः ॥१५॥
विचक्षण यच्चरणोपसादनात संग व्युदस्योभयतोऽन्तरात्मनः ।
विन्दन्ति हि ब्रह्मागतिं गतक्लमास्तस्मै सूभद्रश्रवसे नमो नमः ॥१६॥
तपस्विनो दानपरा यशस्विनो मनस्विनी मन्त्रविदः सूमंगलाः ।
क्षेमं न विन्दन्ति विना यदर्पण तस्मै सूभद्रश्रवसे नमो नमः ॥१७॥
किरातहुणान्ध्रपुलिन्दपुल्कसा आभीरकंका यवनाः खसादयः ।
येऽन्ये च पापा यदुपा श्रयश्रयाः शुद्धन्ति तस्मै प्रभाविष्णवे नमः ॥१८॥
स एष आत्माऽऽत्मवतामधीश्वर स्त्रयीमयो धर्ममयस्तपोमयः ।
गतव्यलीकैरजशंकरादिभि र्वित्रर्क्यलिंगो भगवान प्रसीदतम ॥१९॥
श्रियः पतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः ।
पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान सतां पतिः ॥२०॥
यदड्घ्रयभिध्यानसमाधिधौतया धियनुपश्यन्ति हि तत्वमात्मनः ।
वदन्ति चैतत कवयो यथारुचं स मे मुकुन्दो भगवान प्रसीदताम ॥२१॥
प्रचोदित येन पुरा सरस्वती वितन्वताजस्य सतीं स्मतिम हृदि ।
स्वलक्षणा प्रादुरभुत किलास्यतः स मे ऋषीणामॄषभः प्रसीदताम ॥२२॥
भूतैर्महद्भिर्य इमाः पुरो विभु र्निमाय शेते यदमुषु पुरुषः ।
भुडक्ते गुणान षोडने षोडशात्मकः
सोऽलकृषीष्ट भगवान वंचासि मे ॥२३॥
नमस्तस्मै भगवते वासूदेवाय वेधसे ।
पपुर्ज्ञनमयं सौम्या यन्मुखाम्बुरुहासवम ॥२४॥
एतदेवात्मभु राजन नारदाय विपृच्छते ।
वेदगर्भोऽभ्यधात साक्षाद यदाह हरिरात्मनः ॥२५॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितांयां द्वितीयस्कन्धे चतुर्थाऽध्यायः ॥४॥