द्वितीयः स्कन्धः - अथ षष्ठोऽध्यायः

’ श्रीमद्‍भागवतमहापुराणम्’ ग्रंथात ज्ञान, वैराग्य व भक्ति यांनी युक्त निवृत्तीमार्ग प्रतिपादन केलेला आहे, अशा या श्रीमद्‍भागवताचे भक्तिने श्रवण, पठन आणि निदिध्यासन करणारा मनुष्य खात्रीने वैकुंठलोकाला प्राप्त होतो.


ब्रह्मोवाच

वाचां वह्नेर्मुखं क्षेत्रं छन्दसां सप्त धातवः ।

हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥१॥

सर्वासूनां च वयोश्च तन्नासे परमायने ।

अश्विनोरोषधीनों च घ्राणो मोदप्रमोदयोः ॥२॥

रूपाणां तेजसां चक्षुर्दिवः सूरस्य चाक्षिणी ।

कर्णौ दिशां च तीर्थांनां श्रोत्रमाकाशशब्दयोः ।

तद्गात्रं वस्तुसाराणां सौभागस्य च भाजनम ॥३॥

त्वगस्य स्पर्शवायोश्व सर्वमेधस्य चैव हि ।

रोमाण्युद्भिज्जजातींनां यैर्वा यज्ञस्तु सम्भृतः ॥४॥

केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम ।

बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम ॥५॥

विक्रमो भूर्भुवः स्वश्च क्षेमस्य शरणस्य च ।

सर्वकामवरस्यापि हरेश्वरण आस्पदम ॥६॥

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजपयेः ।

पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥७॥

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।

हिंसाया निऋतेर्मृत्यार्निरयस्य गुअः स्मृतः ॥८॥

पराभुतेरधर्मस्य तमसश्चापि पश्चिमः ।

नाड्यो नदनदीनां तु गोत्राणामस्थिसंहतिः ॥९॥

अव्यक्तरसिन्धुनां भूतांना निधनस्य च ।

उदरं विदितं पूंसो हृदयं मनसः पदम ॥१०॥

धर्मस्य मम तुभ्यं च कुमाराणां भवस्य च ।

विज्ञानस्य च सत्त्वस्य परस्यात्मा परायणम ॥११॥

अहं भवान भवश्चैव त इमे मुनयोऽग्रजाः ।

सूरासूरनरा नागाः खगा मृगसरीसृपाः ॥१२॥

गन्धर्वाप्सरसो यक्षा रक्षो भुतगणोरगाः ।

पशवः पितरः सिद्धा विद्याध्राश्चारणा द्रुमाः ॥१३॥

अन्ये च विविधा जीवा जलस्थलनभौकसः ।

ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्‍नवः ॥१४॥

सर्व पुरुश एवेदं भुतं भव्यं भवच्च यत ।

तेनेदमावृतं विश्वं वितस्त्माधितिष्ठति ॥१५॥

स्वधिष्णयं प्रतपण प्राणो बहिश्च प्रतपत्यसौ ।

एवं विराज प्रतपंस्तपत्यन्तर्बहिः पुमान ॥१६॥

सोऽमृतस्याभयस्येशी मर्त्यमन्नं यदत्यगात ।

महिमैत ततो ब्रह्मन पुरुषस्य दुरत्ययः ॥१७॥

पादेषु सर्वभुतानि पुसः स्थितिपदो विदुः ।

अमृतं क्षेममभयं त्रिमूर्धोऽधायि मूर्धसू ॥१८॥

पादास्त्रयो बहिश्चासन्नप्रजानां य आश्रमाः ।

अन्तस्त्रिलोक्यास्त्वपरो गृहमेधोऽबृहदव्रतः ॥१९॥

सृती विचक्रमे विष्वड साशनानशने उभे ।

यदविद्या च विद्या च पुरुषस्तुभयाश्रयः ॥२०॥

यस्मादण्डं विराड जज्ञे भुतेन्द्रियगुणात्मकः ।

तद द्रव्यमत्यगाद विश्वं गोभिः सूर्य इवातपन ॥२१॥

यदास्य नाभ्यान्नलिनादहमांस महात्मनः ।

नाविदं यज्ञसम्भारान पुरुषावयावादृते ॥२२॥

तेषु यज्ञस्य पशवः सवनस्पतयः कुशाः ।

इदं च देवयजनं कालश्चोगुणन्वितः ॥२३॥

वस्तुन्योषधनः स्नेहा रसलोहमृदो जलम ।

ऋचो यजूंषि सामानि चातुर्होत्रं च सत्तम ॥२४॥

नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।

देवतानुक्रमः कल्प संकल्पस्तन्त्रमेव च ॥२५॥

गतयो मतयः श्रद्धा प्रायश्चित्तं समर्पणम ।

पुरुषावयवैरेते सम्भाराः सम्भॄता मया ॥२६॥

इति सम्भृतसम्भारः पुरुषावयवैरहम ।

तमेव पुरुषं यज्ञं तेनैवाजमीश्वरम ॥२७॥

ततस्ते भ्रातर इमे प्रजानां पतयो नव ।

अयजन व्यक्तमव्यक्तं पुरुष सूसमाहिताः ॥२८॥

ततश्च मनवः काले ईजिरे ऋषयोऽपरे ।

पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम ॥२९॥

नारायणे भगवति तदिदं विश्वमाहितम ।

गृहितमायोरुगुणः सर्वादावगुणः स्वतः ॥३०॥

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।

विश्व पुरुषपेण परिपाति त्रिशक्तिधृक ॥३१॥

इति तेऽभिहितं तात यथे दमनुपृच्छसि ।

नान्यद्भगवतः किंचिद्भाव्यं सदसदत्मकम ॥३२॥

न भारती मेऽगं मृषोपलक्ष्यते न वै क्वचिन्मे मनसो मृषा गतिः ।

न मे हृषीकाणि पतन्त्यसप्तथे यन्मे हृदौत्कण्ठ्यवता धृतो हरिः ॥३३॥

सोऽहं समाम्रयमयस्तपोमयः प्रजापतीनामभिवन्दितः पतिः ।

आस्थायं योगं निपुण समाहित स्तं नाध्यगच्छं यत आत्मसम्भवः ॥३४॥

नतोऽसम्यहं तच्चरणं समीयुषां भवच्छिदं स्वस्त्ययनं सूमंगलम ।

यो ह्यात्ममायाविभवं स्म पर्यगाद यथा नभः स्वान्तमथापरे कूतः ॥३५॥

नाहं न युयं यदृतां गतिं विदु र्न वामदेवः किमतुपापरे सूराः ।

तन्मायया मोहितबुद्धायस्त्विदं विनिमंत चात्मसमं विचक्ष्महे ॥३६॥

यस्यावतारकर्माणि गायन्ति ह्यास्मदादयः ।

न यं विदन्ति तत्वेन तस्मै भगवते नमः ॥३७॥

स एष आद्यः पुरुशः कल्पे कल्पे सृजत्यजः ।

आत्माऽऽत्मन्यात्मनाऽऽत्मानं संयच्छति च पातिच ॥३८॥

विशुद्ध केवलं ज्ञानं प्रत्यक सम्यगवस्थितम ।

सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम ॥३९॥

ऋषे विदन्तिः मुनियः प्रशान्तात्मेन्द्रियाशयाः ।

यदा तदेवासत्तर्कैस्तिरोधीयेत विप्लुतम ॥४०॥

आद्योऽवतारः पुरुषः परस्य कालः स्वभावः सदसन्मचश्च ।

द्रव्यं विकारो गुण इन्द्रियाणि विराट स्वराट स्थास्नु चरिष्णु भुम्नः ॥४१॥

अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदाद्यश्च ।

स्वर्लोकपालः खगलोकपाला नृलोकपालास्तललोकापालाः ॥४२॥

नन्धर्वविद्यादह्रचारणेशा ये यक्षरक्षोरगनागनाथाः ।

ये वा ऋशेहेणामृषभाः पितृणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः ।

अन्ये च ये प्रेतपिशाचभुत कूष्माण्डयादोमृगपक्ष्यधीशाः ॥४३॥

यत्किंच लोके भगवन्महस्वदोजः सहस्वद बलवत क्षमावत ।

श्रीह्नीविभुत्यात्मवदद्भुतार्णं तत्त्वं परं रुपवदस्वरुपम ॥४४॥

प्राधान्यतो यानृष आमनन्ति आपीयतां कर्णकषायशोषा ननुक्रमिष्ये त इमान सूपेशान ॥४५॥

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां द्वितीयस्कन्धे षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP