श्रीशुक उवाच
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥१॥
दशमस्य विशुद्धर्थं नवानामिह लक्षणम ।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चात्र्जासा ॥२॥
भुतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।
ब्रह्माणो गुणवैषम्याद विसर्गः पौरुषः स्मृतः ॥३॥
स्थितिवैकुण्ठविजयः पोषणं तदनुग्रह ।
मन्वन्तराणि सद्धर्म ऊतयः कर्मवासनाः ॥४॥
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम ।
सतामीशकथाः प्रोक्ता नानख्यनोपबृंहिताः ॥५॥
निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः ।
मुक्तिर्हित्वान्यथारुपं स्वरुपेण व्यवस्थितः ॥६॥
आभासश्च निरोधश्च यतश्चाध्यवसीयते ।
स आश्रयः परं ब्रह्मा परमात्मेति शब्द्यते ॥७॥
योऽध्यात्मिकोऽयं पुरुषः सोऽसावेवाधिदैविकः ।
यस्तत्रोभयविच्छेदः पुरुषो ह्याधिभौतिकः ॥८॥
एकमेकतराभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥९॥
पुरुषोऽण्डं विनिर्भिद्यं यदासौ स विनिर्गतः ।
आत्मनोऽयनमन्विच्छन्नपोऽस्त्राक्षीच्छुतिः शुची ॥१०॥
तास्ववात्सीत स्वसृष्टासू सहस्त्रपरिवत्सरान ।
तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥११॥
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥१२॥
एको नानात्वमन्विच्छन योगतल्पात समुत्थित ।
वीर्यं हिरण्मयं देवो मायया व्यसृजत त्रिधा ॥१३॥
अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः ।
यथैकं पौरुषं वीर्य त्रिधाभिद्यत तच्छृणु ॥१४॥
अन्तः शरीर आकाशात पुरुषस्य विचेष्टतः ।
ओजः सहो बलं यज्ञे ततः प्राणो महानसूः ॥१५॥
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुष ।
अपानन्तमपानन्ति नरदेवमिवानुगाः ॥१६॥
प्राणेन क्षिपता क्षुत तृडन्तरा जायते प्रभोः ।
पिपासतो जक्षतश्च प्राडमुखं निरभिद्यत ॥१७॥
मुखतस्तालु निर्भिन्नं जिह्ला तत्रोपतायते ।
ततो ननारसो जज्ञे जिह्लया योऽधिगम्यते ॥१८॥
विवक्षोर्मुखतो भूम्रो वह्निर्वाग व्याहृतं तयोः ।
जले वै तस्य सूचिरं निरोधः समजायत ॥१९॥
नासिके निरभिद्येतां दोधुयति नभस्वति ।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः ॥२०॥
यदाऽऽत्मानि निरालोकमात्मानं च दिदृक्षतः ।
निर्भिन्ने ह्याक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः ॥२१॥
बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघ्रुक्षतः ।
कर्णो च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥२२॥
वस्तुनो मृदुकाठिन्यलघुगुर्वोष्णशीतताम ।
जिगृक्षतस्त्वडनिर्भिन्ना तस्यां रोममहीरुह्या ।
तत्र चान्तर्बहिर्वातस्त्वच लब्धगुणो वृतः ॥२३॥
हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया ।
तत्योस्तु बलमिन्द्रश्च आदानमुभयाश्रयम ॥२४॥
गतिं जिगीषतः पादौ रुरुहातेऽभिकामिकाम ।
पद्भयां यज्ञःस्वयं हव्यं कर्मभिः क्रियते नृभिः ॥२५॥
निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः ।
उपस्थ आसीत कामानां प्रिय तदुभयाश्रयम ॥२६॥
उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम ।
ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥२७॥
आसिसृप्सोः पुरह पुर्या नाभिद्वारमपानतः ।
तत्रापानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम ॥२८॥
आदित्सोरन्नपानानामासन कुक्ष्यन्त्रनाड्यः ।
नद्यः समुद्राश्च तयोस्तुष्टिः पुष्टिस्तदश्रये ॥२९॥
निदिध्यसोरात्ममायां हृदयं निरभिद्यत ।
ततो मनस्ततश्चन्दः संकल्प काम एव च ॥३०॥
त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः ।
भूम्यत्पेजोमयाः सत्प प्राणो व्योमाम्बुवायुभिः ॥३१॥
गुणात्मकानीन्द्रियाणि भूताणिप्रभवा गुणाः ।
मनः सर्वविकारात्मा बुद्धिर्विज्ञानरुपिणी ॥३२॥
एतद्भगवतो रुपं स्थुलं ते व्याहृतं मया ।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम ॥३३॥
अतः परं सूक्ष्मतममव्यक्तं निर्विशेषणम ।
अनादिमध्यनिधनं नित्यं वांगनसः परम ॥३४॥
अमुनी भगवद्रूपे मया ते अनुवर्णिते ।
उभे अपि न गृह्णन्ति मायासृष्टे विपश्चितः ॥३५॥
स वाच्यवाचकतय भगवान ब्रह्मारुपधृक ।
नामरुपक्रिया धत्ते सकर्माकर्मकः परः ॥३६॥
प्रजापतीन्मनुन देवानृषीन पितृगणान पृथक ।
सिद्धचारणगन्धर्वान विद्याध्रासूरगुह्याकान ॥३७॥
किन्नराप्सरसो नागान सर्पान किम्पुरुषोरगान ।
मातृ रक्षः पिशाचांश्च प्रेतभुतविनायकान ॥३८॥
कुष्माण्डोन्मादवेतालान यातुधानान ग्रहानपि ।
खगान्मृगान पशुन वृक्षान गिरिन्नृप सरीसृपान ॥३९॥
द्विविधाश्चतुर्विधा येऽन्ये जलस्थलनभौकसः ।
कुशलाकुशला मिश्राः कर्मणां गतयस्त्विमाः ॥४०॥
सत्त्वं रजस्तम इति तिस्त्रः सूरनॄनारकाः ।
तत्राप्येकैकशो राजन भिद्यन्ते गतयस्त्रिधा ।
यदैकैकतरोऽन्याभ्यां स्वभाव उपहन्यते ॥४१॥
स एवेदं जगद्भातां भगवान धर्मरुपधृक ।
पृष्णाति स्थापयन विश्वं तिर्यडनरसूरात्मभिः ॥४२॥
ततः कालग्निरुद्रात्मा यत्सृष्टमिदमात्मनः ।
संनियच्छति कालेन घनानीकमिवानिलः ॥४३॥
इत्थंभावेन कथितो भगवान भगवत्तमः ।
नेत्थंभावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥४४॥
नास्य कर्मणि जन्मादौ परस्यानुविधीयते ।
कर्तृत्वप्रतिषेधार्थं माययारोपितं हि तत ॥४५॥
अयं तु ब्रह्माणः कल्पः सविकल्प उदाहॄतः ।
विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥४६॥
परिमाणां च कालस्य कल्पलक्षणविग्रहम ।
यथा पुरस्तादव्याख्यास्ये पाद्मं कल्पमथो श्रुणु ॥४७॥
शौनक उवाच
यदाह नो भवान सूत क्षत्ता भागवतोत्तमः ।
चचारतीर्थोनि भुवस्त्यक्त्वा बन्धुन सूदुस्त्यजान ॥४८॥
कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसंश्रितः ।
यद्वा स भगवांस्तस्मै पृष्टस्तत्त्वमुवाच ह ॥४९॥
ब्रुहि नस्तदिदं सौम्य विदुरस्य विचेष्ठितम ।
बन्धुत्यागनिमित्तं च तथैवागतवान पुनः ॥५०॥
सूत उवाच
राज्ञा परिक्षिता पृष्टो यदवोचन्महामुनिः ।
तद्वोऽभिधास्ते श्रृणुत राज्ञः प्रश्नानुसारतः ॥५१॥
इति श्रीमद्भागवते महापुराणे वैयासिक्यामष्टादशसाहस्रयां पारमहंस्य सहिंताया द्वितीयस्कन्धे पुरुषसंस्थानुवर्णनं नाम दशमोऽध्यायः ॥१०॥
इति द्वितीयः स्कन्धः समाप्तः ।
॥ हरिः ॐ तत्सत ॥