ब्रह्मक्षत्रियविट्शूद्रा वर्णास्त्वाद्यास्रयो द्विजाः ।
निषेकाद्याः श्मशानान्तास्तेषां वै मन्त्रतः क्रिया ॥१०॥
गर्भाधानमृतौ पुंसः सवनं स्यन्दनात्पुरा ।
षष्ठेऽअष्टमे वा सीमान्तो मास्येते जातकर्म च ॥११॥
अहन्येकादशे नाम चतुर्थे मासि निष्क्रमः ।
षष्ठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् ॥१२॥
एवमेनः शमं याति बीजगर्भसमुद्भवम् ।
तूष्णीमेताः क्रियाः स्त्रीणां विवाहस्तु समन्त्रकः ॥१३॥
गर्भाष्टमेऽष्टमे वाब्दे ब्राह्मणस्योपनायनम् ।
राज्ञामेकादशे चैके विशामेके यथाकुलम् ॥१४॥
उपनीय गुरुः शिष्यं महाव्याहृतिपूर्वकम् ।
वेदमध्यापयेदेनं शौचचारांश्र्च शिक्षयेत् ॥१५॥
दिवा संध्यासु कर्णस्थब्रम्हसूत्र उदङ्मुखः ।
कुर्यान्मूत्रपुरीषे च रात्रौ चेद्दक्षिणामुखः ॥१६॥
गृहीतशिश्र्चोत्थाय मृद्भिरभ्युद्धृतैर्जलैः ।
गन्धलेपक्षयकरं शौचं कुर्यादतन्द्रितः ॥१७॥
अन्तर्जानुः शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थन द्विजो नित्यमुपस्पृशेत् ॥१८॥
कनिष्ठादेशिन्यङ्गष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मदेवतीर्थान्यनुक्रमात् ॥१९॥
त्रिःप्राश्यापो द्विरुन्मृज्य खान्यद्भिः समुपस्पृशेत् ।
अद्भिस्तु प्रकृतिस्थाभिर्हींनाभिः फेनबुद्बुदैः ॥२०॥
हत्कण्ठतालुगाभिस्तु यथासंख्यं द्विजातयः ॥
शुद्ध्य़ेरन्स्त्री च शुद्रश्र्च सकृत्स्पृष्टाभिरन्ततः ॥२१॥
स्नानमब्दैवतैर्मन्त्रैर्मार्जनं प्राणसंयमः ॥
सूर्यस्य चाप्युपस्थानं गायत्र्याः प्रत्यहं जपः ॥२२॥
गायत्रीं शिरसा सार्धं जपेव्द्याहृतिपूर्विकाम् ।
प्रतिप्रणवसंयुक्तां त्रिरयं प्राणसंयमः ॥२३॥
प्राणानायम्य संप्रोक्ष्य तृचेनाब्दैवतेन तु ।
जपन्नासीत सावित्रीं प्रत्यगातारकोदयात् ॥२४॥
संध्या प्राक्प्रातरेवं हि तिष्ठेदासूर्यदर्शनात् ।
अग्निकार्यं ततः कुर्यात्संध्ययोरुभयोरपि ॥२५॥
ततोऽभिवादयेद्वृद्धानसावहमिति ब्रुबन् ।
गुरुं चैवाप्युपासीत स्वाध्यायार्थं समाहितः ॥२६॥
आहूतश्र्चप्यधीयीत लब्धं चास्मै निवेदयेत् ।
हितं चास्याऽऽचरेनित्यं मनोवाक्कायकर्मभिः ॥२७॥
कृतज्ञाद्रोहिमेधाविशुचिकल्पानसूयकाः ।
अध्याप्या धर्मतः साधुशक्ताप्तज्ञानवित्तदाः ॥२८॥
दण्डाजिनोपवीतानि मेखलां चैव धारयेत् ।
ब्राह्मणेषु चरेर्द्भक्षमनिन्द्येष्वात्मवृत्तये ॥२९॥
आदिमध्यावसोनषु भवच्छब्दोपलक्षिता
ब्राह्मणक्षत्रियाविशां भैक्षचर्या यथाक्रमम् ॥३०॥
कृताग्निकार्यो भुञ्जीत वाग्यतो गुर्वनुज्ञया ।
आपोशनक्रियापूर्वं सत्यकृत्यान्नमकुत्सयन् ॥३१॥
ब्रह्मचर्ये स्थितां नैकमन्नमद्यावदनापदि ।
ब्राह्मणः काममश्रीयाच्छ्राद्धे व्रतमपीडयन् ॥३२॥
मधुमांसञ्ज्नोच्छिशुक्तस्त्रीप्राणिहिंसनम् ।
भास्करालोकनाश्र्लीलपरिवादादि वर्जयेत् ॥३३॥
स गुरुर्यः क्रियाः कृत्वा वेदमस्मै प्रयच्छति ।
उपनीय ददद्वेदमाचार्यः स उदाहृतः ॥३४॥
एकदेशमुपाध्याय ऋृत्विग्यज्ञकृदुच्यते ।
एते मान्या यथापूर्वमेभ्यो माता गरीयसी ॥३५॥
प्रतिवेदं ब्रह्मचर्यं द्वादशाब्दानि पञ्च वा ।
ग्रहणान्तिकमित्येके केशान्तश्र्चैव षोडशे ॥३६॥
आषाडशाद्द्वाविंशाच्चतुर्विंशाच्च वत्सरात् ।
ब्रह्मक्षत्राविशां काल औपनायनिकः परः ॥३७॥
अत उर्ध्वं पतन्त्येते सर्वधर्मबहिष्कृताः ।
सावित्रीपतिता व्रात्या व्रात्यस्तोमादृते क्रतोः ॥३८॥
मातुर्यदग्रे जायन्ते द्वितीयं मोञ्जिबन्धनात् ।
ब्राह्मणक्षत्रियविशस्तस्मादेते द्विजाः स्मृताः ॥३९॥
यज्ञानां तपसां चैव शुभानां चैव कर्मणाम् ।
वेद एव द्विजातीनां निःश्रेयसकरः परः ॥४०॥
मधुना पयसा चैव स देवांस्तर्पयेद्द्विजः ।
पितृन्मधुघृताभ्यां च ऋृचोऽधीते च योऽवहम् ॥४१॥
यजूंषि शक्तितोऽधीते योऽन्वहं स घृतामृतैः ।
प्रीणाति देवानाज्येन मधुना च पितृंस्तथा ॥४२॥
स तु सोमघृतैर्देवांस्तर्पयेद्योऽन्वहं पठेत् ।
सामानि तृप्तिं कुर्याच्च पितृणां मधुसर्पिषा ॥४३॥
मेदसा तर्पयेद्देवानथर्वाङ्गरसः पठनृ ।
पितृंश्र्च मधुसर्पिर्भ्यामन्वहं शक्तितो द्विजः ॥४४॥
वाकोवाक्यं पुराणं च नाराशंसीश्र्च गाथिकः ।
इतिहासांस्तथा विद्याः शक्त्याधीते हि यो ऽन्वहम् ॥४५॥
मांसक्षीरौदनमधुतर्पणं स दिवौकसाम् ।
करोति तृप्तिं कुर्याच्च पितृणां मधुसर्पिषा ॥४६॥
ते तृप्तास्तपर्यन्त्येनं सर्वकामफलैः शुभैः ।
यं यं क्रतुमधीतेऽसौ तस्य तस्यान्नुयात्फलम् ॥४७॥
त्रिर्वित्तपूर्णपृथिवीदानस्य फलमश्नुते ।
तपसो यत्परस्येह नित्यं स्वाध्यायवान् द्विजः ॥४८॥
नैष्ठिको ब्रह्मचारी तु सवेदाचार्यसन्निधौ ।
तदभावेऽस्य तनये पत्न्यां वैश्र्वानरेऽपि वा ॥४९॥
अनेन विधिना देहं साधयन्विजितेन्द्रियः ।
ब्रह्मलोकमवान्पोति न चेह जायते पुनः ॥५०॥