कर्म स्मार्तं विवाहाग्रौ कुर्वीत प्रत्यहं गृही ।
दायकालाहृते वापि श्रौतं वैतानिकाग्निषु ॥९७॥
शरीरचिन्तां निर्वर्त्य कृतशौचविधिर्द्विजः ।
प्रातस्संध्यामुपासीत दन्तधावनपूर्वकम् ॥९८॥
हुत्वाग्नीन्सूर्य दैवत्यान् जपेन्मन्त्रान्समाहितः ।
वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥९९॥
उपेयादीश्र्वर चैव योगक्षेमार्थसिद्धये ।
स्नात्वा देवान्पितृंश्र्चैव तर्पयेदर्चयेत्तथा ॥१००॥
वेदार्थर्वपुराणानि संतिहासानि शक्तितः ।
जपयज्ञप्रसिद्ध्य़र्थ विद्यां चाध्यात्मिकीं जपेतू ॥१०१॥
बलिकर्मस्वधाहोमस्वाध्यायातिथिसत्क्रियांः ।
भूतपित्रमरब्रह्ममनुष्याणां महामखाः ॥१०२॥
देवेभ्यश्र्च हुतादन्नाच्छेषाद्भूतबलिं हरेत् ।
अन्नं भूमौ श्र्वचाण्डालवायसेभ्यश्र्च निक्षिपेत् ॥१०३॥
अन्नं पितृमनुष्येभ्यो देयमप्यन्वहं जलम् ।
स्वाध्यायं चान्वहं कुर्यान्न पचेदन्नमात्मेन ॥१०४॥
बालस्ववासिनीवृद्धगर्भिण्यातुरकन्यकाः ।
संभोज्यातिथिभृत्यांश्र्च दम्पत्योः शेषभोजनम् ॥१०५॥
आपेशनेनोपरिष्टादधस्तादश्र्नता तथा ।
अनग्रममृतं चैव कार्यमन्नं द्विजन्मना ॥१०६॥
अतिथित्वेन वर्णानां देयं शक्त्यानुपूर्वशः ।
अप्रणोद्योऽतिथिः सायमपि वाग्भूतृणोदकैः ॥१०७॥
सत्कृत्य भिक्षवे भिक्षा दातव्या सुब्रताय च ।
भोजयेच्चागतान्काले सखिसंबन्धिबान्धवान् ॥१०८॥
महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत् ।
सत्क्रियान्वासनं स्वादु भोजनं सनृतं वचः ॥१०९॥
प्रतिसंवत्सर त्वर्ध्याः स्नातकाचार्यपार्थिवाः ।
प्रियो विवाह्यश्र्च तथा यज्ञं प्रत्यृत्विंजः पुनः ॥११०॥
अध्वनीनोऽतिथिज्ञेयः श्रोत्रियो वेदपारगः ।
मान्यावेतौ गृहस्थस्य ब्रह्मलोकमभीप्सतः ॥१११॥
परपाकरुचिर्न स्यादनिन्द्यामन्त्रणादृते ।
वाक्यपाणिदचापल्यं वर्जयेच्चातिभोजनम् ॥११२॥
अतिथिं श्रोत्रियं तृप्तमासीमान्तमनुव्रजेत ।
अहःशेषं समासीत शिष्टैरिष्टैश्र्च बन्धूभिः ॥११३॥
उपास्य पश्र्चिमां सन्ध्यां हुत्वाग्नींस्तानुपास्य च ।
भृत्यैः परिवृतो भुक्त्वा नातितृप्याथ संविशेत् ॥११४॥
ब्राह्मे मुहूर्ते चोत्थाय चिन्तयेदात्मनो हितम् ।
धर्मार्थकामान्स्वे काले यथाशक्ति न हापयेत् ॥११५॥
विद्याकर्मक्योबन्धुवित्तैर्मान्या यथाक्रमम् ।
एतैः प्रभूर्तेः शूद्रोऽपि वार्धके मानमर्हति ॥११६॥
वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् ।
पन्था देयो नृपस्तेषां मान्यः स्राातश्र्च भूपतेः ॥११७॥
इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च ॥
प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥११८॥
प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् ।
कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥११९॥
शूद्रस्य द्विजशुश्रूषा तयाजीवन्वणिक् भवेत् ।
शिल्पैर्वा विविधैर्जीवेद्द्दिजातिहितमाचरन् ॥१२०॥
भार्यारतिः शुचिर्भुत्यभर्ता श्राद्धक्रियापरः ।
नमस्कारेण मन्त्रेण पञ्चयज्ञान्न हापयेत् ॥१२१॥
अहिंसा सत्यमस्तेयं शौचमिन्द्रियनिग्रहः ।
दानं दमो दया क्षान्तिः सर्वेषां धर्मसाधनम् ॥१२२॥
वयोबुर्ध्यथवाग्वेषश्रुताभिजनकर्मणाम् ।
आचरेत्सदृशीं वृत्तिमजिह्ममशठां तथा ॥१२३॥
त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद्द्दिजः ।
प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥१२४॥
प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा ।
कर्तव्याग्रयणेष्टिश्र्च चातुर्मास्यानि चैव हि ॥१२५॥
एषासंभवे कुर्यादिष्टिं वैश्र्वानरीं द्विजः ॥
हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥१२६॥
चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् ।
यज्ञार्थ लब्धमददद्भासः काकोऽपि वा भवेत् ॥१२७॥
कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्र्वस्तनोऽपि वा ।
जीवद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥१२८॥