तपस्तप्त्वासृजद्ब्रह्मा ब्राह्मणान्वेदगुप्तये ।
तृप्त्यर्थं पितृदेवांना धर्मसंरक्षणाय च ॥११८॥
सर्वस्व प्रभवो विप्राः श्रुताध्ययनशीलिनः ।
तेभ्यः क्रियापराः श्रेष्ठास्तेभ्योऽप्यध्यात्मवित्तमाः ॥११९॥
न विद्यया केवलया तपसा वापि पात्रता ।
यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ॥२००॥
गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् ।
नापात्रे बिदुषा किंचिदात्मनः श्रेय इच्छता ॥२०१॥
विद्यातपोभ्यां हीनेन न तु ग्राह्यः प्रतिग्रहः ।
गृह्णन्दातारमधो नयत्यात्मानमेव च ॥२०२॥
दातव्यं प्रत्यहं पात्रे निमित्ते तु विशेषतः ।
याचितेनापि दातव्यं श्रद्धापूतं तु शक्तितः ॥२०३॥
हेमश्रृङ्गी खुरैरैप्यैः सुशीला वस्त्रसंयुता ।
सकांस्यपात्रा दातव्या क्षीरिणी गौः सदक्षिणा ॥२०४॥
दातास्याः स्वर्गमाप्नोति वत्सरान्रोमसंमितान् ।
कपिला चेत्तारयति भूयश्र्चासप्तमं कुलम् ॥२०५॥
सवत्सारोमतुल्यानि युगान्युभयतोमुखीम् ।
दातास्याः स्वर्गमान्पोति पूर्वेण विधिना ददत् ॥२०६॥
यादवद्वत्सस्य पादौ द्वौ मुखं योन्यां च दृश्येत ।
तावद्रौः पृथिवी ज्ञेया यावद्रर्भ न मुञ्चति ॥२०७॥
यथाकथांचिद्दत्वा गां धेनु वाऽधेनुमेव वा ।
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥२०८॥
श्रान्तसंवाहनं रोगिपरिचर्या सुरार्चनम् ।
पादशौचं द्विजोच्छिष्टमार्जन गोप्रदानवत् ॥२०९॥
भूदीपांश्र्चान्नवस्त्राम्भस्तिलसर्पिःप्रतिश्रयान् ॥
नैवेशिकं स्वर्णधुर्यं दत्वा स्वर्गे महीयते ॥२१०॥
गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् ।
यानं वृक्षं प्रियं शय्यां दत्वात्यन्तं सुखी भवेत् ॥२११॥
सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः ।
तद्दत्समवाप्नोति ब्रह्मलोकं विमुच्य तम् ॥२१२॥
प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् ।
ये लोका दानशीलानां तान्स प्रान्पोति पुष्कलान् ॥२१३॥
कुशाः शाकं पयो मत्स्या गन्धाः पुष्पं दधि क्षितिः।
मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥२१४॥
अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः ।
अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥२१५॥
देवातिथ्यर्चनकृते गुरुभृत्यार्थमेव च ।
सर्वतः प्रतिगृह्णीयादात्मवृर्त्यथमेव च ॥२१६॥