विनायकः कर्मविघ्नसिद्धर्थ निवियोजितः ।
गणानामाधिपत्ये च रुद्रेण ब्रह्मणा तथा ॥२७१॥
तेनोपसृष्टो यस्तस्य लक्षणानि निबोधत ।
स्वप्नेऽवगाहतेऽत्यर्थ जलं मुण्डांश्र्च पश्यति ॥२७२॥
काषायवाससश्र्चैव क्रव्यादांश्र्चाधिरोहति ।
अन्त्यजैर्गर्दभैरुष्ट्रेः सहैकत्रावतिष्ठते ॥२७३॥
वज्रन्नपि तथात्मानं मन्येतेऽनुगतं परैः ।
विमना विफलारम्भः ससदित्यनिमित्ततः ॥२७४॥
तेनोपसृष्टो लभते न राज्यं राजनन्दनः ।
कुमारी च न भर्तारमपत्यं गर्भङ्गना ॥२७५॥
आचार्यत्वं श्रोत्रियश्र्च न शिष्योऽध्ययनं तथा ।
वणिग्लाभं न चाप्नोति कृषि चापि कृषीवलः ॥२७६॥
स्नपन तस्य कर्तव्यं पुण्यंऽह्नि विधिपूर्वकम् ।
गौरसर्षपल्केन साज्येनोत्सदितस्य च ॥२७७॥
सर्वोषधैः सर्वगन्धैर्विलिप्तशिरसस्तथा ।
भद्रासनोपविष्टस्य स्वस्ति वाच्या द्विजैः शुभाः ॥२७८॥
अश्र्वस्थानाद्रजस्थानाद्वल्मीकात्संगमाद्रदात् ।
मृत्तिकां रोचनां गन्धान्गुग्गुलं चाप्सु निक्षिपेत् ॥२७९॥
या आहृता ह्येकवर्णेश्र्चतुर्भिः कलशैर्ह्रदात् ।
चर्मण्यानडुहे रक्ते स्थाप्यं भद्रासन ततः ॥२८०॥
सहस्राक्षं शतधारमृषिभिः पावनं कृतम् ।
तेन त्वामभिषिञ्चमि पावमान्यः पुनन्तु ते ॥२८१॥
यत्ते केशेषु दौर्भाग्य सीमन्ते यच्च मूर्धनि ॥
ललाटे कर्णयोरक्ष्णोरापस्तद्घ्नन्तु सर्वदा ॥२८३॥
स्नातस्य सार्षपं तैलं स्रुवेणोदुम्बरेण तु ॥
जुहुयान्मूर्धनि कुशान्सव्येन परिगृह्य तु ॥२८४॥
मितश्र्च संमितश्र्चैव तथा शालकटङ्कटौ ॥
कूश्माण्डो राजपुत्रश्र्चेत्यन्ते स्वाहासमन्वितैः ॥२८५॥
नामभिर्बलिमन्त्रैश्र्च नमस्कारसमन्वितैः
दद्याच्चतुष्पथे शूर्पे कुशानास्तीर्य सर्वतः ॥२८६॥
कृताकृतांस्तन्दुलांश्र्च पललौदनमेव च ॥
मत्स्यान्पकांस्तथैवामान्मांसमेतावदेव तु ॥२८७॥
पुष्पं चित्रं सुगन्धं च सुरां च त्रिविधामपि ।
मूलकं पूरिकापूपं तथैवोण्डेरकस्रजः ॥२८८॥
दध्यन्नं पायसं चैव गुडपिष्टं समोदकम् ।
एतान्सर्वान्समाहृत्य भूमौ कृत्वा ततः शिरः ॥२८९॥
रूपं देहि यशो देहि भंग भवति देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्र्च देहि मे ॥२९१॥
ततः शुक्लाम्बरधरः शुक्लमाल्यानुलेपनः ।
ब्राह्मणान्भोजयेद्दद्याद्वस्रयुग्मं गुरोरपि ॥२९२॥
एवं विनायकं पूज्य ग्रहांश्र्चैव विधानतः ।
कर्मणां फलमाप्नोति श्रियं चाप्नोत्यनुत्तमाम् ॥२९३॥
आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा ॥
महागणपतेश्र्चैव कुर्वान्सिद्धिमवाप्नुयात् ॥२९४॥