न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः ।
न विरूद्धप्रसंगेन संतोषी च भवेत्सदा ॥१२९॥
राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा ।
दम्भिहैतुकपाखण्डिबकवृत्तींश्र्च वर्जयेत् ॥१३०॥
शुक्लाम्वरधरो नीचकेशश्मश्रुनखः शुचिः ।
न भार्यादर्शनेऽश्रीयान्नैकवासा न सांस्थितः ॥१३१॥
न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् ।
नाहीतं नानृतं चैव न स्तेनः स्नान्न वार्धुषी ॥१३२॥
दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः ।
कुर्यात्प्रदक्षिणं देवमृद्रो विप्रवनस्पतीन् ॥१३३॥
न तु मेहेन्नदीछायावर्त्मगोश्ठाम्बुभस्मसु ।
न प्रत्यग्य्रर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥१३४॥
नेक्षेतार्कं न नग्रां च स स्त्री न च संसृष्टमैथुनाम् ।
न च मूत्रं पुरीषं वा नाशुचा राहुतारकाः ॥१३५॥
अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयेत् ।
वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥१३६॥
ष्ठीवनासूक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाग्रौ न चैनमभिलङ्घयेत् ॥१३७॥
जलं पिबेन्नाञ्जलिना शयानं न प्रबोधयेत्
नाक्षैः कीडेत धर्मघ्नैर्व्याधितैश्र्च न संविशेत् ॥१३८॥
विरूद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् ।
केशभस्मतुषाङ्गरकपालेषु च संस्थितिम् ॥१३९॥
नाचक्षीत धयन्ती गां नाद्वारेण विशेत्क्वचित् ।
न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्रवर्तिनः ॥१४०॥
प्रतिग्रहे सूनिचक्रिध्वजिवेश्यामराधिपाः ।
दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥१४१॥
अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा ।
हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥१४२॥
पौषमासस्य रोहिण्यामष्टकायामथापि वा ।
जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥१४३॥
त्र्यहं प्रतेष्वनध्यायः शिष्यर्त्विग्गुरुवन्धुषु ।
उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥१४४॥
संध्यागर्जितानिर्घातभूकम्पोल्कानिपातने ।
समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥१४५॥
पञ्चदश्यां चतुर्दश्यामष्टभ्यां राहुसूतकं ।
ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य वा ॥१४६॥
पशुमण्डूकनकुलश्र्वाहिमार्जारमूषकैः ।
कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥१४७॥
श्र्वक्रोष्टुगर्दभोलूकसामबाणार्तनिःस्वने ।
अमेध्यशवशूद्रान्त्यश्मशानपतितान्त्रिके ॥१४८॥
देशेऽशुचावात्मनि च विद्युत्स्तनितसंप्लवे ।
भुक्त्वार्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥१४९॥
पांसुवर्षे दिशां दाहे संध्यानीहारभतिषु ।
धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥१५०॥
खरोष्ट्रयानहस्त्यश्र्वनौवृक्षेरिणरोहिणं ।
स्प्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१५१॥
देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः ।
नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥१५२॥
विप्रा हि क्षत्रियात्मानो नावज्ञेयाः कथंचन ।
आमृत्योः श्रियामाकांक्षेत्र कंचिन्मर्माणि स्पृशेत् ॥१५३॥
दूरादुच्छिविण्मूत्रपादाभ्भांसि समत्सृजेत् ।
श्रुतिस्मृत्युदितं सम्यङ्नित्यमाचारमाचरेत् ॥१५४॥
गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् ।
न निन्दाताडने कुयात्पुत्रं शिष्यं च ताडयेत् ॥१५५॥
कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ॥१५६॥
मातृपित्रतिथिभ्रातृजामिसंबन्धिमातुलैः ।
वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥१५७॥
ऋृत्विक्पुरोहितापत्यभार्यादाससनाभिभिः ॥
विवादं वर्जायित्वा तु सर्वांल्लोञ्जेयेद्रृही ॥१५८॥
पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु ।
स्नायान्नदीदेवखातह्नदप्रस्रवणेषु च ॥१५९॥
परशय्यासनोद्यानगृहयानानि वर्जयेत् ।
अदत्तान्यग्रिहीनस्य नान्नमद्यादनापदि ॥१६०॥
कदर्यबद्धचोराणां क्लीबरङ्गावतारिणाम् ।
वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥१६१॥
चिकित्सकातुरक्रुद्धपुंश्र्चलीमत्तविद्विषाम् ।
क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥१६२॥
अवीरास्त्रीस्वर्णकारस्त्री जितग्रामयाजिनाम् ।
शस्त्रविक्रयकर्मारतन्तुवायश्र्ववृत्तिनाम् ॥१६३॥
नृशंसराजरजककृतघ्नवधजीविनाम् ।
चैलधावसुराजीवसहोपपातिवेश्मनाम् ॥१६४॥
पिशुनानृतिनोश्र्चैव तथा चाक्रिकबान्दिनाम् ।
एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥१६५॥
शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः ।
भोज्यान्ना नापिताश्र्चैव यश्र्चात्मानं निवेदयेत् ॥१६६॥