अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः ॥२१७॥
व्यतीपातो गजच्छाया ग्रहणं चंद्रसूर्ययो५ ।
श्राद्धं प्रति रुचिश्र्चैव श्राद्धकालाः प्रकीर्तिताः ॥२१८॥
अग्रयाः सर्वेषु वेदेषु श्रोत्रिया ब्रह्माविद्युवा ।
वेदार्थविज्जयेष्ठसामा त्रिमधुस्त्रिसुपर्णिकः ॥२१९॥
स्वस्त्रीयऋत्विग्जामातृयाज्यश्र्वशुरमातुलाः ।
त्रिणाचिकेतदौहित्रशिष्यंसंबन्धिबान्धवाः ॥२२०॥
कर्मनिष्ठास्तपोनिष्ठाः पञ्चग्निर्ब्रह्मचारिणः ।
पितृमातृपराश्र्चैव ब्राह्मणाः श्राद्धंसंपदः ॥२२१॥
रोगी हीनातिरिक्ताङ्गः काणः पौनभर्वस्तथा ।
अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥२२२॥
भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।
मित्रध्रुक्पिशुनः सोमवविक्रयी परिविन्दकः ॥२२३॥
मातापितृगुरुत्यागी कुण्डाशी वृषलात्मजः ।
परपूर्वापतिः स्तेनः कर्मदुष्टाश्र्च निन्दिताः ॥२२४॥
निमन्त्रयेत पूर्वेद्युर्ब्राद्यणानात्मवान्शुचिः ॥
तैश्र्चापि संयतैर्भाव्यं मनोवाक्कायकर्मभिः ॥२२५॥
अपराह्णे समभ्यच्ये स्वागतेनागतांस्तु तान् ।
पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥२२६॥
युग्मान्दैव यथान्दैवे यथाशक्ति पित्र्ये युग्मांस्तथैव च ।
परिस्तृते शुचौ देशे दक्षिणाप्रवणे तथा ॥२२७॥
द्वौ दैवे प्राक्त्रयः पित्र्ये उदगेकैकमेव च ।
मातामहानामप्येवं तन्त्रं वा वैश्र्वदेविकम् ॥२२८॥
पाणिप्रक्षालनं दत्वा विष्टरार्थ कुशानपि ।
आवाहेयेदनुज्ञातो विश्र्वेदेवास इत्यृचा ॥२२९॥
यवैरन्ववकीर्याथ भाजने सपवित्रके ।
शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस्तथा ॥२३०॥
या दिव्या इति मन्त्रेण हस्तेष्वध्यर् विनिक्षिपेत् ।
दत्वोदकं गनमाल्यं धूपदानं सदीपकम् ॥२३१॥
तथाच्छादनदानं च करशौचार्थमम्बु च ।
अपसव्यं ततः कृत्वा पितृणामप्रदक्षिणम् ॥२३२॥
द्विगुणांस्तु कुशान्दत्वा ह्युशन्तस्त्वेत्यृचा पितृन् ।
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ॥२३३॥
अपहता इति तिलान्विकीर्य च समन्ततः ।
यवार्थास्तु तिलैः कार्या कुर्यादर्ध्यादि पूर्ववत् ॥२३४॥
दत्वार्ध्यं संस्रवांस्तेषां पात्रे कृत्वा विधानतः ।
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥२३५॥
अग्नौ करिष्यन्नादाय पृच्छत्यन्नं घृतप्लुतम् ॥
कुरुष्वेभ्यनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ॥२३६॥
हुतेशेषं प्रदद्यात्त भाजनेषु समाहितः ॥
यथालाभोपपन्नेषु रौप्येषु च विशेषतः ॥२३७॥
दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणम् ।
कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ॥२३८॥
सव्याहृतिकां गायत्रीं मधुवाता इति तृचम् ।
जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्तऽपि वाग्यताः ॥२३९॥
अन्नमिष्टं हविष्यं च दद्यादक्रोधनोऽवरः ।
आतृप्तेस्तु पवित्राणि जप्त्वा पूर्वजपं तथा ॥२४०॥
अन्नमादाय तृप्ताः स्थ शेषं चैवानुमान्य च ॥
तदन्नं विकिरेद्भूमौ दद्याच्चापः सकृत्सकृत् ॥२४१॥
सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ॥
उच्छिष्टसन्निधौ पिण्डान्दद्याद्वै पितृयज्ञवत् ॥२४२॥
मातामहानामप्येवं दद्यादाचमनं ततः ॥
स्वस्तिवाच्यं ततः कुर्यादक्षय्योदकमेव च ॥२४३॥
दत्वा तु दक्षिणां शक्त्य़ा स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः प्रकृतेभ्यः स्वधोच्यताम् ॥२४४॥
ब्रूयुरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलम् ।
विश्र्वेदेवाश्र्च प्रीयन्तां विप्रैश्र्चोक्ते इदं जपेत् ॥२४५॥
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ॥
श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्तु ॥२४६॥
इत्युक्त्वोक्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् ॥
वाजे वाज इति प्रीतः पितृपूर्व विसर्जयेत् ॥२४७॥
यस्मिंस्ते संस्रवाः पूर्वमर्ध्यपात्रे निवेशिताः
पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥२४८॥
प्रदक्षिणमनुव्रज्य भुंजीत पितृसेवितम् ।
ब्रह्मचारी भवेत्तां तु रजनी ब्राह्मणैः सह ॥२४९॥
एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितृन् ।
यजेत दधिकर्कन्धुमिश्रान्पिण्डान्यवैः क्रियाः ॥२५०॥
एकोद्दिष्टं देवहीनमेकार्ध्यैकपवित्रकम् ।
आवाहनाग्नौकरणरहितं ह्यपसव्यवत् ॥२५१॥
उपतिष्ठतामक्ष्यय्यस्थाने विप्रविसर्जने ॥
अभिरम्यतामिति वदेदब्रुयुस्तेऽभिरताः स्म ह ॥२५२॥
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥
अर्ध्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसिञ्चयेत् ॥२५३॥
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ॥
एतत्सपिण्डीकरणप्रेतोद्दिष्टं स्त्रिया अपि ॥२५४॥
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् ।
तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे ॥२५५॥
मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् ॥
प्रतिसवंत्सरं चैवमाद्यमेकादशेऽहनि ॥२५६॥
पिंडांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ॥
प्राक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् ॥२५७॥
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः ॥।२५८॥
एणरौरववाराहशाशैमासैर्यथाक्रमम् ।
मासवृद्ध्य़ाऽभितृप्यन्ति दत्तैरिह पितामहाः ॥२५९॥
खड्गगामिषं महाशल्कं मधु मुन्यन्नमेव च ।
लोहामिषं महाशाकं मांसं वार्ध्रींणसस्य च ॥२६०॥
यद्ददति गयास्थञ्च सर्वमानन्त्यमश्रुते ।
तथा वर्षात्रयोदश्यां मघासु च विशेषतः ॥२६१॥
कन्यां कन्यावेदिनश्र्च पशून्वै सत्सुतानपि ।
द्यूतं कृषिं च वाणिज्यं द्विशफैकशफं तथा ॥२६२॥
ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकृप्यके ।
जातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥२६३॥
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् ।
शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते ॥२६४॥
स्वर्गं ह्यपत्यमोजश्र्च शौर्य क्षेत्रं बलं तथा ।
पुत्रं श्रेठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् ॥२६५॥
प्रवृत्तचक्रतां चैव वाणिज्यप्रभुतीनपि ।
अरोगित्वं यशो वीतशोकतां परमां गतिम् ॥२६६॥
धनं वेदान् भिषक्सिद्धिं कुप्यं गाा अप्यजाविकम् ।
अश्र्वानायुश्र्च विधिवद्यः श्राद्धं संप्रयछच्ति ॥२६७॥
वसुदुद्रादितिसुताः पितरः श्राद्धदेवताः ।
प्रीणयन्ति मनुष्याणां पितृञ्श्राद्धेन तर्पिताः ॥२६८॥
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ।
प्रयच्छन्ति तथा राज्यं प्रीता नृणां पितामहाः ॥२६९॥