महोत्साहः स्थूललक्ष्यः कृतज्ञो वृद्धसेवकः ।
विनीतः सत्यसंपन्नः कुलीनः सत्यवाक्यशुचिः ॥३०९॥
अदीर्घसूत्रः स्मृतिमानक्षुद्रोऽपरुषस्तथा ।
धार्मिकोऽव्यसनश्र्चैव प्राज्ञः शूरो रहस्यवित् ॥३१०॥
स्वरन्ध्रगोप्तान्वीक्षिक्यां दण्डनीत्यां तथैव च ।
विनीतस्त्वथ वार्तायां त्रय्यां चैव नराधिपः ॥३११॥
स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्सिथराञ्शुचीन् ॥
तैः साद्धं चिन्तयेद्राज्यं विप्रेणाथ ततः परम् ॥३१२॥
पुरोहित प्रकुर्वीत दैवज्ञमुदितोदितम् ।
दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥३१३॥
श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव चर्त्विजः ।
यज्ञांश्र्चैव प्रकुर्वीत विधिवद्भूरिदक्षिणान् ॥३१४॥
भोगांश्र्च दत्वा विप्रेभ्यो वसूनि विविधानि च ॥
अक्षयोऽयं निधी राज्ञां यद्विप्रेषूपपादितम् ॥३१५॥
अस्कन्नमव्ययं चैव प्रायश्र्चित्तैरदूषितम् ।
अग्नेः सकशाद्विप्राग्नो हुतं शेषामिहोच्यते ॥३१६॥
अलब्धमीहेद्धर्मेण लब्धं यत्नेन पालयेत् ।
पालितं वर्ध्येन्नीत्या वृद्धं पात्रेषु निक्षिपेत् ॥३१७॥
दत्वा भूमिं निबन्धं वा कृत्वा लेख्यं तु करायेत् ।
आगामिभद्रनृपतिपरिज्ञानाय पार्थिवः ॥३१८॥
पटे वा ताम्रपट्टे वा स्वमुद्रोपरिचिह्नितम् ।
अभिलेख्यात्मनो वंश्यानात्मानं च महीपतिः ॥३१९॥
प्रतिग्रहपरीमाणं दानच्छेदोपवर्णनम् ।
स्वहस्तकालसंपन्नं शासनं कारयेच्छुभम् ॥३२०॥
रम्यं पशव्यमाजीव्यं जाङ्गलं देशमावसेत् ।
तत्र दुर्गाणि कुर्वीत जनकोशात्मगुप्तये ॥३२१॥
तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्शुचीन् ।
प्रकुर्यादायकर्मान्तव्ययकर्मसु चोद्यतान् ॥३२२॥
नातः परतरो धर्मो नृपाणां यद्रणार्जितम् ।
विप्रभ्यो दीयते द्रव्यं प्रजाभ्यश्र्चाभयं सदा ॥३२३॥
य आहवेषु वध्यन्ते भूम्यर्थमपराङ्मुखाः ।
अकूटैरायुधैर्यान्ति ते स्वर्ग योगिनो यथा ॥३२४॥
पदानि ऋतुतुल्यानि भग्नेष्वविनिवर्तिनाम् ।
राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥३२५॥
तवाहंवादिनं क्लीव निर्हेतिं परसंगतम् ।
न हन्याद्विनिवृत्तं च युद्धप्रेक्षणकादिकम् ॥३२६॥
कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् ।
व्यवहारांस्ततो दृष्टा स्नात्वा भुञ्जीत कामतः ॥३२७॥
हिरण्यव्यापृतानीतं भाण्डागारेषु निक्षिपेत् ।
पश्येच्चरांस्ततो दूतान्प्रेषये न्मन्त्रिसंगतः ॥३२८॥
ततः स्वैरविहारी स्यान्मान्त्रिभिर्वा समागतः ।
बलानां दर्शनं कृत्वा सेनान्या सह चिन्तयेत् ॥३२९॥
संध्यामुपास्य श्रुणुयाच्चाराणां गूढभाषितम् ।
गीतनृत्यैश्र्च भुञ्जीत पठेत्स्वाध्यायमेव च ॥३३०॥
संविशेत्तर्यघोषेण प्रतिबुध्येत्तथैव च ।
शास्त्राणि चिन्तयेद्बुध्वा सर्वकर्तव्यतास्तथा ॥३३१॥
प्रेषयेच्च ततश्र्चारान्स्वेष्वन्येषु च सादरान् ।
ऋत्विक्पुरोहिताचार्यैराशीर्भिंरभिनन्दितः ॥३३२॥
दृष्ट्वा ज्योतिर्विदो वैद्यान्दद्याद्रां काञ्चनं महीम् ।
नैवेशिकानि च ततः श्रोत्रियेभ्यो गृहाणि च ॥३३३॥
ब्राह्मणेषु क्षमी स्निग्धेष्वजिह्मः क्रोधनोऽरिषु ।
स्याद्राजा भृत्यवर्गेषु प्रजासु च यथा पिता ॥३३४॥
पुण्यात्षड्भागमादत्ते न्यायेन परिपालयन् ।
सर्वदानाधिकं यस्मात्प्रजानां परिपालनम् ॥३३५॥
चाटुतस्करदुर्वृत्तमहासाहसिकादिभिः ।
पीड्यमानाः प्रजा रक्षेत्कायस्थैश्र्च विशेषतः ॥३३६॥
आरक्ष्यमाणाः कुर्वान्ति यत्किंचित्किल्बिषं प्रजाः ।
तस्मात्तु नृपतेरर्धं यस्माद्रुह्णात्यसौ करान् ॥३३७॥
ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् ।
साधून्समानयेद्राजा विपरीतांश्र्च घातयेत् ॥३३८॥
उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् ।
सदानमानसत्कारान् श्रोत्रियान्वासयेत्सदा ॥३३९॥
अन्यायेन नृपो राष्ट्रात्स्वकोशं योऽभिवर्धयेत् ।
सोऽचिराद्विगतश्रीको नाशमेति सबान्ध्वः ॥३४०॥
प्रजापीडनसंतापात्सकुद्भूतो हुताशनः ।
राज्ञः कुलं श्रियं प्राणांश्र्चादग्ध्वा न निवर्तते ॥३४१॥
य एव नृपतेर्धर्मः स्वराष्ट्रपरिपालने ।
तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥३४२॥
यस्मिन्देशे य आचारो व्यवहारः कुलस्थितिः ।
तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥३४३॥
मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् ।
कुर्याद्यथास्य न विदुः कर्मणामाफलोदयात् ॥३४४॥
अरिर्मित्रमुदासीनोऽन्तरस्तत्परः परः ।
क्रमशो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥३४५॥
उपायाः साम दानं च भेदो दण्डस्तथैव च ।
सभ्यक्व्रयुक्ताः सिध्येयुर्दण्डस्त्वगतिका गतिः ॥३४६॥
सन्धि च विग्रहं चैव यानमासनसंश्रयौ ।
द्वैधीभावं गुणानेतान्यथावत्परिकल्पयेत् ॥३४७॥
यदा सस्यगुणोपेतं परराष्ट्रं तदा व्रजेत् ।
परश्र्च हीन आत्मा च हृश्टवाहनपूरुषः ॥३४८॥
दैवे पुरुषकारे च कर्मसिद्धिर्व्यवस्धिता ।
तत्र दैवमभिव्यक्तं पौरुषं पौर्वदैहिकम् ॥३४९॥
केचिद्दैवात्स्वभावाद्वा कालात्पुरुषकारतः ।
संयोगं केचिदिच्छन्ति फलं कुशलबुद्धयः ॥३५०॥
यथा ह्येकेन चक्रेण रथस्य न गतिर्भवेत् ।
एवं पुरुषकारेण विना दैवं न सिद्ध्य़ति ॥३५१॥
हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः ।
अतो यतेत तत्प्राप्त्यै रक्षेत्सत्यं समाहितः ॥३५२॥
स्वाम्यमात्या जनो दुर्ग कोशो दण्डस्तथैव च ।
मित्राण्येताः प्रकृतयो राज्यं सप्ताङ्गमुच्यते ॥३५३॥
तदवाप्य नृपो दण्डं दुर्वुत्तेषु निपातयेत् ।
धर्मो हि दण्डरूपेण ब्रह्मणा निर्मितः पुरा ॥३५४॥
स नेतुं न्यायतोऽशक्यो लुब्धेनाकृतबुद्धिना ।
सत्यसन्धेन शुचिना सुसहायेन धीमता ॥३५५॥
यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् ।
जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ॥३५६॥
अधर्मदण्डनं स्वर्गं कीर्ति लोकांश्र्च नाशयेत् ।
सम्यक्तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ॥३५७॥
अपि भ्राता सुतोऽर्ध्यो वा श्र्वशुरो मातुलोऽपि वा ।
नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्विचलितः स्वकात् ॥३५८॥
या दण्ड्यान्दण्डयेद्राजा सभ्यग्वध्यांश्र्च घातयेत् ।
इष्टं स्यात्क्रतुभिस्तेन समाप्तवरदक्षिणैः ॥३५९॥
इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् ॥
व्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥३६०॥
कुलानि जातीः श्रेणीश्र गणान् जानपदानपि ।
स्वधर्माच्चलितात्राजा विनीय स्थापयेत्पथि ॥३६१॥
जालसूयमरीचिस्थं त्रसरेणू रजः स्मृतम् ।
तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥३६२॥
गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः ।
कृष्णलः पंच ते माषस्ते सुवर्णस्तु षोडश ॥
पलं सुवर्णाश्र्चत्वारः पाञ्च वापि प्रकीर्तितम् ॥३६३॥
द्वे कृष्णले रूप्यमाषा धरणं षोडशैव ते शतमानं तु दशाभिर्धरणैः पलमेव तु ॥३६४॥
निष्कं सुवर्णाश्र्चत्वारः कार्षिकस्ताम्रिकः पणः ॥३६५॥
साशीतिः पणसहस्रो दण्ड उत्तमसाहसः ।
तदर्धं मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः ॥३६६॥
धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा ।
योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ॥३६७॥
ज्ञात्वापराधं देशंच कालं बलमथापि वा ।
वयः कर्म च वित्तं च दण्डं दण्ड्येषु पातयेत् ॥३६८॥