देवप्रवाहः - सुभाषित ११ - १५
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
११. हरशिरश्चन्द्रः
स वः पायादिन्दुर्नवविसलताकोटिकुटिलः
स्मरारेर्यो मूर्ध्नि ज्वलनकपिशे भाति निहितः ।
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा
कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ॥५१॥
राजशेखरस्य । (सु.र. ४६)
व्यलीके पार्वत्याः परिलघुलवैरञ्जनजुषः
पतद्भिर्बाष्पस्य क्रमलिखितलक्ष्म्या विजयते ।
लसल्लीलाचन्द्रश्चरणगतमौलेः स्मरजितः
किरद्भिः स्वज्योत्स्नानखमणिभिरापूरितकणः ॥५२॥
वामनस्य ।
शम्भोरिन्दुकला शिवं विशतु वो यस्याः प्रतिच्छायिकां
त्रिस्रोतःपतितामनेककुटिलीभावं गतां वीचिभिः ।
सेनानीरवलोकते ध्वजपटाकूतेन कात्यायनी
मल्लीदामस्मीहया निजवधूबोधेन नागाधिपः ॥५३॥
उमापतेः ।
अमुद्रकुमुदत्विषः स्फुरितफेनलक्षीस्पृशो
मरालकुलविभ्रमाः शफरफाललीलाभृतः ।
जयन्ति गिरिजापतेस्तरलमौलिमन्दाकिनी
तरङ्गचयचुम्बिनस्तुहिनदीधितेरंशवः ॥५४॥
उमापतिधरस्य ।
च्युतामिन्दोर्लेखां रतिकलहभग्नं च वलयं
द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया ।
अवोचद्यं पश्येद्त्यवतु स शिवः सा च गिरिजा
स च क्रीडाचन्द्रो दशनकिरणापूरितकलः ॥५५॥
वररुचेः । (सु.र. ४७, स्व६६, शा.प. ९६)
१२. हरजटा
ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस्तपस्तेजसो
गङ्गातोयतरङ्गसर्पवसतिर्वल्मीकलक्ष्मीरिव ।
सन्द्येवार्द्रमृणालकोमलतनोरिन्दोः सहस्थायिनी
पायाद्वस्तरुणांशुकपिला शम्भोर्जटासंहतिः ॥५६॥
रविनागस्य । (सु.र. ५५)
चूडापीडनिबद्धवासुकिफणाफूत्कारनिर्यद्विष
ज्वालाजृम्भितमत्स्यकच्चपवधूलीढेन्दुलेखामृतम् ।
अव्याद्वः स्मरसूदनस्य मदनक्रीडाकचाकर्षणश्
च्योतन्नाकसरित्सरोषगिरिजादृष्टं जटामण्डलम् ॥५७॥
भवभूतेः ।
क्वचिदमरसरित्क्वचित्कपालं
क्वचिदुरगाः क्वचिदैन्दवी च लेखा ।
इति विषमविभूषणैरुपेता
प्रमथपतेरवताज्जटाटवी ॥५८॥
दण्डिनः ।
उत्पत्रेव दृशोर्चिषा कुसुमितेवेन्दोः करैर्भोगिभिः
सारोहेव जटाटवी फलतु वः श्रेयो भवानीपतेः ।
यत्पर्यन्तविवर्तिनः सुरसरित्पूरस्य भूरिस्फुरत्
फेनेण्डूकविलासमञ्चति विधेर्जीर्णा कपालावली ॥५९॥
उमापतिधरस्य ।
मूलावनद्धभुजगेन्द्रकृतालवाल
बन्धाः स्खलत्त्रिदशसिन्धुजलौघसिक्ताः ।
उन्मुक्तचन्द्रकुसुमा जगतां हिताय
शम्भोर्जटाः कनककल्पलताः फलन्तु ॥६०॥
दङ्कस्य ।
१३. हरकपालः
शान्त्यै वोऽस्तु कपालदाम जगतां पतुर्यदीयां लिपिं
क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षरम् ।
विश्वं स्रक्ष्यति वक्ष्यति क्षितिमपामीशिष्यते शिष्यते
नागान्रागिषु रंस्यते स्यति जगन्निर्वेक्ष्यति द्यामिति ॥६१॥
कस्यचित। (सु.र. ५४)
गाढग्रन्थिप्रफुल्लद्गलविकलफणापीठनिर्यद्विषाग्नि
ज्वालानिष्टप्तचन्द्रद्रवदमृतरसप्रोषितप्रेतभावाः ।
उज्जृम्भा बभ्रुनेत्रद्युइत्मसकृदसृक्तृष्णयालोकयन्त्यः
पान्तु त्वां नागनालग्रथितशवशिरःश्रेणयो भैरवस्य ॥६२॥
भवभूतेः । (सु.र. ३९)
जयति भुजगरज्जुग्रन्थिनिष्पीडितेन्दु
स्रवदमृतनिवृत्तप्रेतभावैः कपालैः ।
विरचितनुतिबन्धो मूर्ध्नि सद्यः पुरारेः
परिणतबहुकल्पब्रह्मणां ब्रह्मघोषः ॥६३॥
कस्यचित। (स.क.आ. १.८४)
लिप्ता लालाटनेत्रस्फुरदुरुदहनज्वालजालप्रतापोत्
ताम्यत्कोटीरभारस्थिरशशिशकलप्रस्रुताभिः सुधाभिः ।
अन्तर्नृत्यप्रमोदप्रचलितशिरश्चन्द्रमौलेः कपालाः
कल्याणं वः क्रियासुः स्तुतिमभिधतस्ताण्डवाडम्बरेषु ॥६४॥
नरसिंहस्य ।
पायाद्वः स शिरांसि ताण्डवविधौ यन्मूर्ध्नि खिन्नोरग
श्वासाग्निद्रुतचूडचन्द्रसुधया प्राणन्त्यकस्माद्विधेः ।
ऋक्सामे कतिचित्पठन्ति कतिचिन्मज्जन्ति गङ्गाजले
स्वात्मानं कतिचिन्मनन्ति कतिचिन्नेत्रानले जुह्वति ॥६५॥
वामदेवस्य ।
१४. हरनयनम्
धूमश्यामककुम्भि भूधरतटत्रुय्द्यद्दृषन्ति स्फुटा
टोपोल्लुण्ठितसागराम्पि विकलव्यालोकभास्वन्ति च ।
दृप्यत्तूर्णमरुन्ति कातरतरभ्रश्यज्जगन्ति प्रभोर्
उद्यन्ति त्रिपुरान्तकृन्ति नयनादर्चींषि पुष्यन्तु वः ॥६६॥
कस्यचित।
यज्ज्योतिर्द्वादशार्कं हिमगिरिदुहितुर्यन्निशाकेलिदीपो
यत्कन्दर्पास्थिभस्मीकरणतरुणिताभ्यन्तरज्वाललेखम् ।
कल्पान्ते जुह्वतो यत्त्रिभुवनसमिधं वेधसः पुण्यवह्निर्
बिभ्राणं बभ्रुकान्तिं त्रिनयननयनज्योतिरस्तु श्रिये वः ॥६७॥
अंशुधरस्य ।
आनन्दस्तिमिताः समाधिषु मुखे गौर्या विलासालसाः
सम्भ्रान्ताः क्षणमद्भुताः क्षणमथ स्मेरा निजे वैकृते ।
क्रूराः कृष्टशरासने मनसिजे दग्धे घृणाकूणितास्
तत्कान्तारुदितेश्रुपूरतरलाः शम्भोर्दृशः पान्तु वः ॥६८॥
कस्यचित।
पक्ष्मालीपिङ्गलिम्नः कण इव तडितां यस्य कृत्स्नः समूहो
यस्मिन्ब्रह्माण्डमीषद्विघटितमुकुले कालयज्वा जुहाव ।
अर्चिर्निष्टप्तचूडाशशिगलितसुधाघोरझाङ्कारिकोणं
तार्तीयोकं पुरारेर्तदवतु मदनप्लीषणं लोचनं वः ॥६९॥
भवभूतेः । (ंं १, अफ़्तेर्५.२; शा.प. ९९)
एकं योगनियोजनान्मुकुलितं चक्षुर्द्वितीयं पुनः
पार्वत्या जघनस्थले स्तनतटे शृङ्गारभावालसम् ।
अन्यद्दूरविकृष्टचापमदनक्रोधानलोद्दीपितं
शम्भोर्भिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥७०॥
श्रीहर्षदेवस्य ।
१५. त्रिपुरदाहारम्भः
संरब्धाङ्घ्रिनिवेशनादनिभृतं सर्वंसहाविग्रहे
वीतालम्बनमारसातलमधोविस्त्रंसिनि स्यन्दने ।
याते दृक्पथदूरतां मयपुरे देवस्य भूतप्रभोर्
द्राग्विश्वम्भरबाणमोक्षविषयो यत्नः शिवायास्तु वः ॥७१॥
वैद्यगदाधरस्य ।
चापोत्क्षेपापसर्पद्वलयफणिगुणोत्तंसितापाङ्गभित्ति
प्रत्यालीढानुबन्धोच्छलितजलनिधिव्याप्तवेलोपकण्ठम् ।
उन्मीलद्भालवह्नि क्रमशिथिलजटालम्बिगङ्गेन्दुलेखं
भूयाद्वश्चन्द्रमौलेर्मयनगरभिदः सौष्ठवं मङ्गलाय ॥७२॥
जलचन्द्रस्य ।
सङ्व्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थितं
मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् ।
आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं
हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ॥७३॥
मयूरस्य । (सु.र. ६१)
वाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते
निद्रातीक्षणजाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे ।
नम्रोन्नम्रभुजङ्गपुङ्गवगुणव्याकृष्टबाणासन
क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ॥७४॥
मुरारेः । (आर्७.११४, सु.र. ३१)
दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमाच्चासुरीभिः
शान्तान्तस्तत्त्वसारैः सकरुणं ऋषिभिर्विष्णुना सस्मितेन ।
आकृष्यास्त्रं सगर्वैरुपशमितबन्धुसंभ्रमैर्दैत्यवीरैः
सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान॥७५॥
भट्टनारायणस्य । (स्१.३)
N/A
References : N/A
Last Updated : November 11, 2016
TOP