देवप्रवाहः - सुभाषित ६१ - ६५
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
६१. उत्कण्ठा
रत्नच्छायाच्छुरितजलधौ मन्दिरे द्वारकाया
रुक्मिण्यापि प्रबलपुलकोद्भेदमालिङ्गितस्य ।
विश्वं पायान्मसृणयमुनातीरवानीरकुञ्जे
राधाकेलीपरिमलभरध्यानमूर्च्छा मुरारेः ॥३०१॥
उमापतिधरस्य । (पद्या. ३७१, उ.नी. १४.१८४; Jईव अन्द्VCःत्तो भ.र.सि. २.४.१७८)
कलिन्दीमनुकूलकोमलरयामिन्दीवरश्यामलाः
शैलोपान्तभुवः कदम्बकुसुमैरामोदिनः कन्दरात।
राधां च प्रथमाभिसारमधुरां जातानुतापः स्मरन्न्
अस्तु द्वारवतीपतिस्त्रिभुवनामोदाय दामोदरः ॥३०२॥
शरणस्य । (पद्या. ३६९)
कामं कामयते न केलिनलिनीं नामोदते कौमुदी
निस्यन्दैर्न समीहते मृगदृशामालापलीलामपि ।
सीदन्नेष निशासु निःसहतनुर्भोगाभिलाषालसैर्
अङ्गैस्ताम्यति चेतसि व्रजवधूमाधाय मुग्धो हरिः ॥३०३॥
तस्यैव । (पद्या. ३७०)
प्रत्यग्रोज्झितगोकुलस्य शयनादुत्स्वप्नमूढस्य मां
मा गोत्रस्खलितादुपैतु च दिवा राधेति भीरोरति ।
रात्रावस्वपतो दिवा च विजने लक्ष्मीति चाभ्यस्यतो
राधां संस्मरतः श्रियं रमयतः खेदो हरेः पातु वः ॥३०४॥
कस्यचित। (स.क.आ.व्४४८)
तल्पीकृतस्य भुजगाधिपतेः फणायां
रत्नेषु संवलितबिम्बतस्याचलायाः ।
कृष्णावतारकृतगोपवधूसहस्र
सङ्गस्मृतिर्जयति सोत्कलिकस्य विष्णोः ॥३०५॥
कस्यचित।
६२. गोपीसन्देशः
ते गोवर्धनकन्दराः स यमुनाकच्छः स चेष्टारसो
भाण्डीरः स वमस्पतिः सहचरास्ते तच्च गोष्ठाङ्गनम् ।
किं द्वारवतीभुजङ्ग हृदयं नायाति दोषैरपीत्य्
अव्याद्वो हृदि दुःसहं व्रजवधूसन्देशशल्यं हरेः ॥३०६॥
नीलस्य । (पद्या. ३७५)
पान्थ द्वारवतीं प्रयासि यदि हे तद्देवकीनन्दनो
वक्तव्यः स्मरमोहमन्त्रविवशो गोप्योऽपि नामोज्झिताः ।
एताः केलिकदम्बधूलिपटलैरालोकशून्या दिशः
कालिन्दीतटभूमयो भवतो नायान्ति चित्तास्पदम् ॥३०७॥
गोवर्धनाचार्यस्य । (पद्या. ३७४; Sःऋङ्गारप्रकाश, छेच्क्सु.र.)
उपनय मसिं पत्रं चेदं लिखामि किमत्र वा
त्वमिति विनयभ्रंशो यूयं त्विति प्रणयक्षतिः ।
सुहृदिति मृषा नाथेत्यूनं नृपेति तटस्थता
कथमिति ततः सन्देष्टव्यो मया यदुनन्दनः ॥३०८॥
पुंसोकस्य ॥
कालिन्द्याः पुलिनं प्रदोषमरुतो रम्याः शशङ्कांशवः
सन्तापं न हरन्तु नाम नितरां कुर्वन्ति कस्मात्पुनः ।
सन्दिष्टं व्रजयोषितामिति हरेः संशृण्वतोऽन्तःपुरे
निःश्वासाः प्रसृता जयन्ति रमणीसौभाग्यगर्वच्छिदः ॥३०९॥
पञ्चतन्त्रकृतः । (पद्या. ३७६, उ.नी. १५.१६४)
मथुरापथिक मुरारेर्
उपगेयं द्वारि वल्लवीवचनम् ।
पुनरपि यमुनासलिले
कालियगरलानलो ज्वलति ॥३१०॥
वीरसरस्वत्याः । (पद्या. ३६८; उ.नी. १०.९८)
६३. सामान्यहरिः
सेयं द्योस्तदिदं शशाङ्कदिनकृच्चिह्नं नभः सा क्षितिस्
तत्पातालतलं त एव गिरयस्तेऽम्भोधरास्ता दिशः ।
इत्थं नाभिविनिर्गतेन सशिरःकम्पाद्भुतं वेधसा
यस्यान्तश्च बहिश्च दृष्टमखिलं त्रैलोक्यमव्यात्स वः ॥३११॥
वाक्पतिराजस्य । (सु.र.. १३७)
लक्ष्मीं यत्परिचारिकेति नयनं यस्येति यासां पतिं
यत्पादार्धभवेति नाकसरितं येनोद्धृतेति श्रुतिम् ।
ईशं यत्तनुभागभागिति जनः शुश्रूषते सादरं
भूयाद्विश्वनमस्यमानमहिमा भूत्यै स वः केशवः ॥३१२॥
समन्तभद्रस्य ।
संसारार्तिपरिश्रमाध्वविटपी क्षीरोदवापीपयः
क्रीडानाटकनायको विजयते सत्कर्मबीजाङ्कुरः ।
दैत्यस्त्रीस्तनपालिपाणिजपदव्यालोपिशिल्पीत्तरी
देवः श्रीवदनेन्दुबिम्बलडहज्योत्स्नाचकोरो हरिः ॥३१३॥
भानीः ॥
बीजं ब्रह्मैव देवो मधुजलनिधयः कर्णिका स्वर्णशैलः
कन्दो नागाधिराजो वियदपि विपुलः पत्रकोशावकाशः ।
द्वीपाः पत्राणि मेघा मधुपकुलमभूत्तारकागर्भधूलिर्
यस्यैतन्नाभिपद्मं भुवनमिति स वः शर्म देवो दधातु ॥३१४॥
हलायुधस्य । (सु.र. १४६)
यं लक्ष्मीरुपजीवति स्म भजते यं भारती सम्भ्रमा
देतस्मै किमु कीयतां कथमसावस्मादृशैः स्तूयताम् ।
सेव्यो वा कथमेष यस्य शिरसा धत्ते पदार्घ्यं शिव
स्तस्मात्कृत्यमजानतो मम मनोवृत्तेः प्रमाणं हरिः ॥३१५॥
तिलचन्द्रस्य ।
६४. हरिभक्तिः
बद्धेनाञ्जलिना नतेन शिरसा गात्रैः सरोमोद्गमैः
कण्ठेन स्वरगद्गदेन नयनेनोद्गीर्णबाष्पाम्बुना ।
नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनाम्
अस्माकं सरसीरुहाक्ष सततं सम्पद्यतां जीवितम् ॥३१६॥
श्रीकुलशेखरस्य । (ंउकुन्दमाला २५)
नास्था धर्मे न वसुनिचये नैव कामोपभोगे
यद्भाव्यं तद्भवतु भगवन्पूर्वकर्मानुरूपम् ।
एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरेऽपि
त्वत्पादाम्भोरुहयुगगता निश्चला भक्तिरस्तु ॥३१७॥
तस्यैव । (ंउकुन्दमाला ७)
मज्जन्मनः फलमिदं मधुकैतभारे
मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥३१८॥
तस्यैव । (ंउकुन्दमाला ३२)
नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतोः
कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् ।
रम्यारामामृदुतनुलता नन्दने नापि रन्तुं
भावे भावे हृदयभवने भावयेयं भवन्तम् ॥३१९॥
तस्यैव । (ंउकुन्दमाला ६)
मुकुन्द मूर्ध्ना प्रणिपत्य याचे
भवन्तमेकान्तमियन्तमर्थम् ।
अविस्मृतिस्त्वच्चरणारविन्दे
भवे भवे मेऽस्तु भवत्प्रसादात॥३२०॥
तस्यैव । (ंउकुन्दमाला ४)
६५. समुद्रमथने हरिः
श्रेयोऽस्याश्चिरमस्तु मन्दरगिरेर्माघानि पाश्र्वैरिय
मावष्टम्भि महोर्मिभिः फणिपतेर्मालेऽपि लालाविषैः ।
इत्याकूतजुषः श्रियं जलनिधेर् अर्धोत्थितां पश्यतो
वाचोन्तःस्फुरिता बहिर्विकृतिभिर्व्यक्ता हरेः पातु वः ॥३२१॥
वाक्पतिराजस्य । (सु.र. ११५)
पाण्डुलक्ष्मीकुचाभोगे नर्तिता हरिणा दृशः ।
औत्सुक्यादिव तेनादौ निहिता वरणस्रजः ॥३२२॥
श्रीमत्केशवसेनदेवस्य ।
पातु त्रिलोकीं हरिरम्बुराशौ
प्रमथ्यमाने कमलां विलोक्य ।
अज्ञातहस्तच्युतभोगिनेत्रः
कुर्वन्वृथा बाहुगतागतानि ॥३२३॥
त्रिभुवनसरस्वत्याः ।
ग्राव्णा नासि गिरेः क्षता न पयसाप्यार्तासि न म्लापिता
निःश्वासैः फणिनोऽसि न त्वानुगा नायासिता कापि न ।
स्वं वेश्म प्रतिगच्छतोरितो मुहुः श्रीशार्ङ्गिणोः सस्पृहं
सा पर्श्नोत्तरयुग्मपंक्तिरुभयोरत्यायता पातु वः ॥३२४॥
कस्यचित। (स.क.आ. १.९६)
पाथोधेः पर्मथ्यमानसलिलादर्धोत्थितायाः श्रियः
सानन्दोल्लसितभुवः कुटिलया दृष्ट्यैव पीताननः ।
अज्ञातस्वकरद्वयीविगलितव्यालोलमन्थोरगः
शून्ये बाहुगतागतानि रचयन्नारायणः पातु वः ॥३२५॥
सागरस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP