संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सदुक्तिकर्णामृतम्|देवप्रवाहः|
सुभाषित १५१ - १६०

देवप्रवाहः - सुभाषित १५१ - १६०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


३१. भृङ्गी

दिग्वासा यदि तत्किमस्य धनुषा सास्त्रस्य किं भस्मना
भस्माथास्य किमङ्गना यदि च सा कामं परिद्वेष्टि किम् ।
इत्यन्योन्यविरुद्धचेष्टितमिदं पश्यन्निजस्वामिनो
भृङ्गी सान्द्रशिरावनद्धपरुषं धत्तेऽस्थिशेषं वपुः ॥१५१॥

योगेश्वरस्य (सु.र. १०३, स्व२३९९)

कस्मात्त्वं तात गेहादपरमभिनवा ब्रूहि का तत्र वार्ता
देव्या देवो जितः किं वृषडमरुचिताभस्मभोगीन्द्रचन्द्रान।
इत्येवं बर्हिनाथे कथयति सहसा भर्तृभिक्षा विभूषा
वैगुण्योद्वेगजन्मा जगदवतु चिरं हारवो भृङ्गिरीटेः ॥१५२॥

तुङ्गोकस्य । (सु.र. ९८)

चर्चेयं क्षुधिता सदैव गृहिणी पुत्रोऽप्ययं षण्मुखो
दुष्पूरोदरभारमन्थरवपुर्लम्बोदरोऽपि स्वयम् ।
इत्येवं स्वकुटुम्बमेकवृषभो देवः कथं पोक्षतीत्य्
आलोक्येव विशुष्कपञ्जरतनुर्भृङ्गी चिरं पातु वः ॥१५३॥

नीलाङ्गस्य ।

भिक्षाभोजिनि कृत्तिवाससि वसुप्राप्तिः कुतः स्यादिति
प्रागर्धं वपुषः स्वयं व्यसनिनो यस्याहरत्पार्वती ।
तस्यार्धं कुपिता हठाद्यदि हरेन्मूर्ध्नि स्थिता जाह्नवी
हा नाथ क्व तदेति दुःस्थहृदयो भृङ्गी भृशं शुष्यति ॥१५४॥

भवानन्दस्य ।

सेवां नो कुरुते करोति न कृषिं वाणिज्यमस्यास्ति नो
पैत्र्यं नास्ति धनं न बान्धवबलं नैवास्ति कश्चिद्गणः ।
द्यूतस्त्रीव्यसनं न मुञ्चति तथापीशस्तदस्मात्फलं
किं मे स्यादिति चिन्तयन्निव कृशो भ्ङ्गी चिरं पातु वः ॥१५५॥

कस्यचित।

३२. गणोच्चावचम्

स्थूलो दूरमयं न यास्यति कृशो नैष प्रयाणक्षमस्
तेनैकस्य ममैव तत्र कशिपुप्राप्तिः परं दृश्यते ।
इत्यादौ परिचिन्तितं प्रतिमुहुस्तद्भृङ्गिकूष्माण्डयोर्
अन्योन्यप्रतिकूलमीशशिवयोः पाणिग्रहे पातु वः ॥१५६॥

कस्यचित। (सु.र. ९९)

चर्चायाः कथमेव रक्षति सदा सद्यो नृमुण्डस्रजं
चण्डीकेशरिणो वृषं च भुजगान्सूनोर्मयूरादपि ।
इत्यन्तःपरिभावयन्भगवतो दीर्घं धियः कौशलं
कूष्माण्डो धृतिसम्भृतामनुदिनं पुष्णाति तुन्दश्रियम् ॥१५७॥

कस्यचित। (सु.र. ९७)

देवी सूनुमसूत नृत्यत गणाः किं तिष्ठतेत्युद्भुजे
हर्षाद्भृङ्गरिटावयाचितगिरा चामुण्डयालिङ्गिते ।
अव्याद्वो हतदुन्दुभिस्वनघनध्वानातिरिक्तस्तयोर्
अन्योन्यप्रचलास्थित्पञ्जररणत्कङ्कालजन्मा रवः ॥१५८॥

योगेश्वरस्य । (सु.र. ७१, सूक्तिमुक्तावलि २.५५)

शृङ्गं भृङ्गिन्विमुञ्च त्यज गजवदन त्वं च लाङ्गूलमूलं
मन्दानन्दोऽसि नन्दिन्नलमबल महाकाल कण्ठग्रहेण ।
इत्युक्त्वा नीयमानः सुखयतु वृषभः पार्वतीपादमूले
पश्यन्नक्षैर्विलक्षं वलितगलचलत्कम्बलं त्र्यम्बकं वः ॥१५९॥

अभिनन्दस्य । (सु.र. ७७)

दिग्वासा वृषवाहनो नरशिरोधारी दधानोऽजिनं
भिक्षुर्भस्मभुजङ्गभूषिततनुर्भूतैर्भ्रमन्काननम् ।
स्मर्त्èणां शिवकृत्तथापि जगति ज्येष्ठोऽस्मदीयः प्रभुर्
धन्योऽस्मीत्यतितोषपुष्टजठरः कूष्माण्डकोऽव्याज्जगत॥१६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP