देवप्रवाहः - सुभाषित २६१ - २८०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
५३. कृष्णस्वप्नायितम्
शम्भो स्वागतमास्यतामित इतो वामेन पद्मोद्भव
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यते ।
इत्थं स्वप्नगतस्य कैटभरिपोः श्रुत्वा जनन्या गिरः
किं किं बालक जल्पसीत्यनुचितं थूथूत्कृतं पातु वः ॥२६१॥
मयूरस्य (KKआ २.५९, पद्या. १४६; बा.रा.क्५.१७५८)
धीरा धरित्रि भाव भारमवेहि शान्तं
नन्वेष कंसहतकं विनिपातयामि ।
इत्यद्भुतस्तिमितगोपवधूश्रुतानि
स्वप्नायितानि वसुदेवशिशोर्जयन्ति ॥२६२॥
अभिनन्दस्य । (पद्या. १४७)
एते लक्ष्मण जानकीविरहिणं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूराः कदम्बानिलाः ।
इत्थं व्याहृतपूर्वजन्मविरहो यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स वः सुखयतु स्वप्नायमानो हरिः ॥२६३॥
शुभाङ्कस्य । (KK २.६९(७०); सु.र. १३१, पद्या. २५२)
कालिन्दीपुलिनान्तवञ्जुललता कुञ्ज कुतश्चित्क्रमात्
सुप्तस्यैव मिथः कथाजुषि शनैः संवाहिकामण्डले ।
वैदेहीं दशकन्धरोऽपहरतीत्याकर्ण्य कंसद्विषो
हुं हुं वत्स धनुर्धनुरिति व्यग्रा गिरः पान्तु वः ॥२६४॥
विरिञ्चेः ।
निर्मग्नेन मयाम्भसि स्मरभयादाली समालिङ्गिता
केनालीकमिदं तवाद्य कथितं राधे मुधा ताम्यसि ।
इत्थं स्वप्नपरम्परासु शयने श्रुत्वा गिरं शार्ङ्गिणः
सव्याजं शिथिलीकृतः कमलया कण्ठग्रहः पातु वः ॥२६५॥
कस्यचित। (द.रू. उन्देर्४.६०, पद्या. ३७२)
५४. कृष्णयौवनम्
सोत्तापं जरतीत्भिरफुटरसं बालाभिरुन्मीलित
श्वासं वेश्म सुवासिनीभिरधिकाकृतं भुजिष्याजनैः ।
प्रत्यग्रप्रकटीकृतार्ति कुलटासार्थेन दृष्टं हरेर्
अव्याद्वो नवयौवनोत्सवदशानिर्व्याजमुग्धं वपुः ॥२६६॥
भट्टशालीयपीताम्बरस्य ।
राधायामनुबद्धनर्मनिभृताकारं यशोदाभयाद्
अभ्यर्णेष्वतिनिर्जनेषु यमुनारोधोलतावेश्मसु ।
मन्दाक्षश्लथवल्लवानुकरणक्रीडस्य कंसद्विषो
लब्धं यौवनमात्रया विजयते गम्भीरशोभं वपुः ॥२६७॥
अभिनन्दस्य ।
वत्स त्वं नवयौवनोऽसि चपलाः प्रायेण गोपस्त्रियः
कंसो भूपतिरब्जनालभिदुरग्रीवा वयं गोदुहः ।
सैषानर्थपरम्परेति भगवत्याशङ्क्तातिक्रमे
कृष्णे तद्विनयाय नन्दगृहिणीशिक्षोक्तयः पान्तु वः ॥२६८॥
वर्धमानस्य ।
आरूढान्तरयौवनस्य परितो गोष्ठीरनुभ्राम्यतस्
तत्तत्तासु मनोगतं सुनिभृतं संव्याचिकीर्षोर्हरेः ।
वेगादुच्छलितास्फुटाक्षरदशा गर्भास्त्रपागौरवात्
प्रत्यञ्चो वलिता भवन्तु भवतां कृत्याय वागूर्मयः ॥२६९॥
चक्रपाणेः ।
आहूताद्य मयोत्सवे निशि गृहं शून्यं विमुच्यागता
क्षीवः प्रेष्यजनः कथं कुलवधूरेकाकिनी यास्यति ।
वत्स त्वं तदिमां नयालयमिति श्रुत्वा यशोदागिरो
राधामाधवयोर्जयन्ति मधुरस्मेरालसा दृष्टयः ॥२७०॥
श्रीमत्केशवसेनदेवस्य । (पद्या. २०६)
५५. हरिक्रीडा
इह निचुलनिकुञ्जे मध्यमध्यास्य रन्तुर्
विजनमजनि शय्या कस्य बालप्रवालैः ।
इति निगदति वृन्दे योषितां पान्तु युष्मान्
स्मितशवलितराधामाधवालोकितानि ॥२७१॥
(पद्या. २०१)
कृष्ण त्वद्वनमालया सह कृतं केनापि कुञ्जान्तरे
गोपीकुन्तलबर्हदाम तदिदं प्राप्तं मया गृह्यताम् ।
इत्थं दुग्धमुखेन गोपशिशुनाख्याने त्रपानम्रयो
राधामाधवयोर्जयन्ति बलितस्मेरालसा दृष्टयः ॥२७२॥
लक्ष्मणसेनदेवस्य । (पद्या. २०२)
भ्रूवल्लीचलनैः कयापि नयनोन्मेषैः कयापि स्मित
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।
गर्वाद्भेदकृतावहेलविनयश्रीभाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥२७३॥
उमापतिधरस्य । (पद्या. २५९, ऱ्Kआद्१२९)
व्यालाः सन्ति तमालवल्लिषु वृतं वृन्दावनं वानरैर्
उन्नक्रं यमुनाम्बु घोरवदनव्याघ्रा गिरेः सन्धयः ।
इत्थं गोपकुमारकेषु वदतः कृष्णस्य तृष्णोत्तर
स्मेराभीरवधूनिडेधिनयनस्याकुञ्चनं पातु वः ॥२७४॥
आचार्यगोपीकस्य ।
सङ्केतीकृतकोकिलादिनिनदं कंसद्विषः कुर्वतो
द्वारोन्मोचनलोलशङ्खवलयक्वाणं मुहुः शृण्वतः ।
केयं केयमिति प्रगल्भजरतीवाक्येन दूनात्मनो
राधाप्राङ्गणकोणकोलिविटपिक्रोडे गता शर्वरी ॥२७५॥
आचार्य गोपीकस्य (पद्या. २०५; बा.रा.क्५.११५९)
५६. प्रश्नोत्तरम्
राधे त्वं कुपिता त्वमेव कुपिता रुष्टासि भूमेर्यतो
माता त्वं जगतां त्वमेव जगतां माता न विज्ञोऽपरः ।
देवि त्वं परिहासकेलिकलहेऽनन्ता त्वमेवेत्यसौ
स्मेरो वल्लवसुन्दरीमवनमच्छौरिः श्रियः वः क्रियात॥२७६॥
वाक्पतेः । (सु.र. १०८; पद्या. २८४)
कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगेणात्र किं
कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः ।
मुग्धेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम्
इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥२७७॥
शुभङ्करस्य । (सु.र. १०९, स्व. १०४, शा.प. १२२)
कस्त्वं भो निशि केशवः शिरसिजै ःय्किं नाम गर्वायसे
भद्रे शौरिरहं गुणैः पितृगतैः पुत्रस्य किं स्यादिह ।
चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम्
इत्थं गोपवधूजितोत्तरतया ह्रीणो हरिः पातु वः ॥२७८॥
कस्यचित। (पद्या. २८२)
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्विदं
वासं ब्रूहि शठ प्रकामसुभगे त्वद्गात्रसंसर्गतः ।
यामिन्यामुषितः क्व धूर्त वितनुर्मुष्णाति किं यामिनी
शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः ॥२७९॥
कस्यचित। (पद्या. २८३; भ.र.सि. २.१.८३)
कुशलं राधे सुखितोऽसि कंस कं स क्व नु सा राधा ।
इति पालीप्रतिवचनैर्विलक्षहासो हरिर्जयति ॥२८०॥
कस्यचित। (स.क.आ. २.३५१)
N/A
References : N/A
Last Updated : November 11, 2016
TOP