देवप्रवाहः - सुभाषित ३६१ - ३८०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
७३. चन्द्रकला
श्यामायाः करजक्षतं रतिपतेर्जैत्रं धनुर्बन्धकी
हृत्कम्बुककचश्चकोरखुरली सौहृद्यबीजाङ्कुरः ।
चोरग्रामगजाङ्कुशः परिलसन्मन्दाकिनीरोहितो
ध्वान्ताम्भस्तरणैकनौरुदयते बालः सुधादीधितिः ॥३६१॥
उमापतेः ।
लेखामनङ्गपुरतोरणकान्तिभाजम्
इन्दोर्विलोकय तनूदरि नूतनस्य ।
देशान्तरप्रणयिनोरपि यत्र यूनोर्
नूनं मिथः सखि मिलन्ति विलोकितानि ॥३६२॥
वसुकल्पस्य । (सु.र. ९०३, राजशेखरस्य)
विगाढदोषं तिमिरं निरस्यता
क्रमेण बिद्ध्वाग्रकलाशलाकया ।
चिकित्सकेनेव विलोकनक्षमं
पुनर्नभश्चक्षुरिवेन्दुना कृतम् ॥३६३॥
गणपतेः ।
प्रसरत्तिमिरसरित्तरिरसतीहृद्दारुदारुणक्रकचः ।
स्मरगृहकवाटविघटनराजतकुञ्जीकला शशिनः ॥३६४॥
सेह्नोकस्य ।
चैतन्यं नभसश्चकोररमणीकर्पूरपाली सुधा
निर्यासद्रवदोहदस्य कुमुदस्तोमस्य सन्धुक्षणम् ।
ध्वान्तोत्तुङ्गमतङ्गवारणसृणिः शृङ्गारबीजाङ्कुरः
पश्योदञ्चति सस्पृहं प्रणयिनि प्रालेयभानोः कला ॥३६५॥
इन्द्रज्योतिषः ।
७४. चन्द्रबिम्बः
अनलसजवापुष्पोत्पीडच्छवि प्रथमं ततः
समदयवनीगण्डच्छायं पुनर्मधुपिङ्गलम् ।
तदनु च नवस्वर्णाम्भोजप्रभं शशिनस्तत
स्तरुणि तगराकारं बिम्बं विभाति नभस्तले ॥३६६॥
कस्यचित। (सु.र. ९४३)
उद्दर्पहूणतरुणीरमणोपमर्द
भुग्नोन्नतस्तननिवेशनिभं हिमांशोः ।
बिम्बं कठोरविसकाण्डकडारगौरै
र्विष्णोः पदं प्रथममग्रकरैर्व्यनक्ति ॥३६७॥
अपराजितरक्षितस्य । (सु.र. ९२४)
स्फुटकोकनदारुणं पुरस्ताद्
अथ जाम्बूनदपत्रपिञ्जराभम् ।
क्रमलङ्घितमुग्धभावमिन्दोः
स्फटिकच्छेदनिभं विभाति बिम्बम् ॥३६८॥
भगीरथस्य । (सु.र. ९४१)
करमूलबद्धपन्नगविषाग्निधूमहतमध्यम् ।
ऐशानमिव कपालं स्फुटलक्ष्म स्फुरति शशिबिम्बम् ॥३६९॥
कस्यचित। (सु.र. ९५०, Jह्७.१७)
मध्येयामिनि पार्वणामृतरुचेर्बिम्बं स्फुरच्चन्द्रिका
तत्प्रान्तं परितो विसारिकिरणश्रेणी शलाकावलि ।
ताराग्रन्थिविसंष्ठुलं स्थलमिव ज्योत्स्नास्फुरद्वाससा
संवीतं सुखमध्यशेत जगती सुव्यक्तमालोक्यते ॥३७०॥
अंशुधरस्य ।
७५. प्रौढचन्द्रः
एतत्तर्कय कैरवक्लमहरे शृङ्गारदीक्षागुरौ
दिक्कान्तामुकुरे चकोरसुहृदि प्रौढे तुषारत्विषि ।
कर्पूरैः किमपूरि किं मलयजैरालेपि किं पारदैर्
अक्षालि स्फटिकोपलैः किमघटि द्यावापृथिव्योर्वपुः ॥३७१॥
वसुकल्पस्य । (शा.प. ३६३९, सु.र. ९००)
जनानन्दश्चन्द्रो भवतु न कथं नाम सुकृती
प्रयातोवस्थाभिस्तिसृभिरपि यः कोटिमियतीम् ।
भ्रुवोर्लीलां बालः शिर्यमलिकपट्टस्य तरुणो
मुखेन्दोः सर्वस्वं हरति हरिणाक्ष्याः परिणतः ॥३७४॥
मुरारेः । (सु.र. ४२५, सूक्तिमुक्तावलि ५३.३३)
निर्यासैः करपत्रपीडनवशान्निर्यद्भिरिन्दूपलान्
मानग्रन्थिभिरश्रमेण कठिनैस्त्रुट्यद्भिरेणीदृशाम् ।
देवोऽयं परिपष्टचक्रहृदयादुत्सर्पिभिः पावकैर्
व्यक्ताहंकृतिरभ्युदेति तमसां माराङ्कमल्लः शशी ॥३७५॥
७६. सकिरणचन्द्रः
अद्यापि स्तनशैलदुर्गविषमे किं मानिनीनां हृदि
स्थातुं वाञ्छति मान एष झगिति क्रोधादिवालोहितः ।
उद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात्
फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥३७६॥
वसुकल्पस्य । (ंन्२.४१, सु.र. ९२१, शा.प. ३६३६, सा.द. उन्देर्७.४, Kप्२३७)
सद्यः कुङ्कुमपङ्कपिच्छिलमिव व्योमाङ्गणं कल्पयन्
पश्यैरावतकान्तदन्तमुसलच्छेदोपमेयाकृतिः ।
उद्गच्छत्ययमच्छमौक्तिकमणिप्रालम्बलम्बैः करैर्
मुग्धानां स्मरलेखवाचनकलाकेलिप्रदीपः शशी ॥३७७॥
राजशेखरस्य । (सु.र. ९०८)
सलीलं लिम्पद्भिर्धवलधवलैरम्बरतलं
करौघैः कह्लारप्रसवनवकर्मस्थपतिभिः ।
चकोरस्तोमानाममृतघृतकुल्यामुपनयन्न्
अयं देवः प्राचीमवतरति ताराप्रैवृढः ॥३७८॥
हरेः ।
गोरोचनारुचकभङ्गपिशङ्ग्ताङ्गस्
तारापतिर्मसृणमाक्रमते क्रमेण ।
गोभिर्नवीनबिसतन्तुवितानगौरैर्
आढ्यम्भविष्णुरयमम्बरमावृणोति ॥३७९॥
कस्यचित। (सु.र. ९४५)
रसातलस्थानविसारिणीं हरन्
प्रभां मृणालीमिव धौतकर्दमाम् ।
समुत्पपातार्द्रतनूरुहः शनैर्
उदन्वतो हंस इव क्षपाकरः ॥३८०॥
भृङ्गस्वामिनः ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP