देवप्रवाहः - सुभाषित ४०१ - ४२०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
८१. सतारश्चन्द्रः
मृगेन्द्रस्येव चन्द्रस्य मयूखैर्नखरैरिव ।
पाटितध्वान्तमातङ्गमुक्ताभा भान्ति तारकाः ॥४०१॥
अभिनन्दस्य । (सु.र. ९४८)
तारास्तोकतमिस्रधूमपटलीव्यापारसन्ध्यानन
ज्वालालीढनभःकपालविचलल्लाजश्रियं बिभ्रति ।
किं चायं रजनीपतिः परिणतप्राग्भारतालद्रवो
न्मिश्रं चिक्कणपिण्डमण्डकलसल्लावण्यमारोहति ॥४०२॥
कस्यचित।
उदयगिरिसौधशिखरे ताराचयचित्रिताम्बरविताने ।
सिंहासनमिव निहितं चन्द्रः कन्दर्पभूपस्य ॥४०३॥
कस्यचित।
ताराकोरकराजिभाजि गगनोद्याने तमोमक्षिकाः
सन्ध्यापल्लवपातिनीः कवलयन्नेकान्ततस्तर्कय ।
एतस्मिन्नुदयान्तपर्वततरुद्वन्द्वान्तराले ततै
रेतैर्भाति गभस्तितन्तुपटलैः श्वेतोर्णनाभः शशी ॥४०४॥
हरेः । (सु.र. ९५६)
अयमुदयमहीध्रधातुरागै
ररुणकरारुणिताम्बराभिरामः ।
वितरसि न दृशौ कृशाङ्गि तारा
मिव दिवि वन्दितुमिन्दुरभ्युपैति ॥४०५॥
हरिदत्तस्य ।
८२. क्षरदमृतश्चन्द्रः
शशिनमसूत प्राची नृत्यति मदनो हसन्ति ककुभोऽपि ।
कुमुदरजःपटवासं विकिरति गगनाङ्गने पवनः ॥४०६॥
धर्मकीर्तेः । (सु.र. ९१९)
तथा पौरस्त्यायां दिशि कुमुदकेदारकलिका
कपाटघ्नीमिन्दुः किरणलहरीमुल्ललयति ।
समन्तादुन्मीलद्बहुजलबिन्दुव्यतिकरै
र्यथा पुञ्जायन्ते प्रतिगुणकमेणाङ्कमणयः ॥४०७॥
मुरारेः । (आर्२.७८, सु.र. ९१५)
स श्रीकण्ठकिरीटकुट्टिमपरिष्कारप्रदीपाङ्कुरो
देवः कैरवबन्धुरन्धतमसप्राग्भारकुक्षिम्भरिः ।
संस्कर्ता निजकान्तमौक्तिकमणिश्रेणीभिरेणीदृशां
गीर्वाणाधिपतेः सुधारसवती पौरोगवः प्रोदगात॥४०८॥
तस्यैव । (आर्. ७.६१)
आमोदं कुमुदाकरेषु विपदं पद्मेषु कालानलं
पञ्चेषोर्विशिखेषु सान्द्रशिशिरक्षारं शशिग्रावसु ।
म्लानिं मानवतीमुखेषु विनयं चेतःसु वामभ्रुवां
वृद्धिं वार्धिषु निक्षिपन्नुदयते देवस्तमीकामुकः ॥४०९॥
शङ्करदेवस्य ।
सौरातपविरहज्वललङ्घितगात्रीं कुमुद्वतीं निभृतः ।
संरक्तः परिपश्यन्विधुरयमयते प्रसादयितुम् ॥४१०॥
कस्यचित।
८३. भासः
कह्लारस्पर्शगर्भैः शिशिरपरिचयात्कान्तिमद्भिः कराग्रै
श्चन्द्रेणालिङ्गितायास्तिमिरनिवसने स्रंसमाने रजन्याः ।
अन्योन्यालोकनीभिः परिचयजनितप्रेमनिस्यन्दिनीभि
र्दूरारूढे प्रमोदे हसितमिव परिस्पष्टमाशासखीभिः ॥४११॥
पाणिनेः । (सु.र. ९२०)
उपोढरागेण विलोलतारकं
तथा गृहीतं शशिना निशामुखम् ।
यथा समस्तं तिमिरांशुकं तथा
पुरोऽपि मोहाद्गलितं न लक्षितम् ॥४१२॥
तस्यैव । (स्व१९६९, शा.प. ३६३४)
यातस्यास्तमनन्तरं दिनकृतो वेशेन रागान्वितः
स्वैरं शीतकरः करं कमलिनीमालिङ्गितुं योजयन।
शीतस्पर्शमवाप्य सम्प्रति तथा गुप्ते मुखाम्भोरुहे
हासेनेव कुमुद्वतीवनितया वैलक्ष्यपाण्डूकृतः ॥४१३॥
वसुकल्पस्य । (सु.र. ९२२, ंन्२.४२)
प्राचीमञ्चति यामिनीमनूनयत्याशाः समालम्बते
द्यामालिङ्गति सेवते कुमुदिनीं स्निग्धोऽतिमुग्धैः करैः ।
बह्वीषु प्रतिपन्नमन्मथरसं कुर्वन्मनः कामिना
मिन्दुर्वन्द्यकरः स एष भुवनानन्दः परिस्पन्दते ॥४१४॥
कस्यचित।
कलाधारो वक्रः स्फुरदधररागो नवतनु
र्गलन्मानावेशास्तरुणरमणीर्नागर इव ।
घनश्रोणीबिम्बे नयनमुकुले चाधरदले
कपोले ग्रीवायां कुचकलशयोश्चुम्बति शशी ॥४१५॥
श्रीकण्ठस्य । (सु.र. ९०१)
८४. मिश्रकचन्द्रः
उत्पल्लव इव किरणैः कुसुमित इव तारकाभिरयमिन्दुः ।
उदयत्युदयतटान्ते सुरतरुरिव शीतलच्छायः ॥४१६॥
जनकस्य ।
यात्रायामिव दत्तपूर्णकलशः कन्दर्पराज्ञः शशी
तत्रायं सहकारपल्लवतुलामङ्कः समारोहति ।
ज्योत्स्नालेपनपङ्कपूरितमिव व्योमाङ्गणं सर्वतः
क्षिप्ता मङ्गललाजमुष्टय इव भ्राजिष्णवस्तारकाः ॥४१७॥
कस्यचित।
गगनतलतडागप्रान्तसीम्नि प्रदोष
प्रबलतरवराहोत्खन्यमानश्चकास्ति ।
परिकलितकलङ्कस्तोकपङ्कानुलेपो
निजकिरणमृणालीमूलकन्दोऽयमिन्दुः ॥४१८॥
परमेश्वरस्य । (सु.र. ९३२)
चिताचक्रं चन्द्रः कुसुमधनुषो दग्धवपुषः
कलङ्कस्तस्यायं वहति मलिनाङ्गारतुलनाम् ।
अथैतस्य ज्योतिर्दरदलितकर्पूरधवलं
मरुद्भिर्भस्मेव प्रसरति विकीर्णं दिशि दिशि ॥४१९॥
राजशेखरस्य । (सु.र. ९०७)
अथोद्दामैरिन्दोः सरसविसदण्डद्युतिधरै
र्मयूखैर्विक्रान्तं सपदि परितः पीततिमिरैः ।
दिनंमन्या रात्रिश्चकितचकितं कौशिककुलं
प्रफुल्लं निद्राणैः कथमपि यथाम्भोरुहवनैः ॥४२०॥
योगेश्वरस्य । (सु.र. ९२३)
N/A
References : N/A
Last Updated : November 11, 2016
TOP