देवप्रवाहः - सुभाषित २१ - २५
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
२१. हरप्रसादनम्
निःशङ्कं शङ्कर करग्रथिताहिभोग
भोगप्रद प्रदलितामरवैरिवृन्द ।
वृन्दारकार्चित चिताभसिताङ्गराग
रागातिदूर दुरितापहर प्रसीद ॥१०१॥
बाणस्य ।
करकलितपिनाक नाकनाथ
द्विषदुरुमानसशूल शूलपाणे ।
भव वृषभविमान मानशौण्ड
त्रिजगदकारणतारक प्रसीद ॥१०२॥
सञ्चाधरस्य ।
कटुविशिखशिखिप्रपञ्च पञ्चा
नन धनदप्रियमित्र मित्रनेत्र ।
धृतसकलविकल्प कल्पशेष
प्रकटमहानट नाटय प्रसादम् ॥१०३॥
तस्यैव ।
भव शिव शवभस्मगौर गौरी
ग्रथितशरीर सरीसृपोत्तरीय ।
स्मरहर हर भीम भीमभूत
प्रकरभयङ्कर शङ्कर प्रसीद ॥१०४॥
तस्यैव ।
धृतनिधनधनुः प्रचण्ड चण्डी
मुखकमलभ्रमरामराधिनाथ ।
हर रणरणकान्त कान्तमूर्ते
गगनदुकूल विकूलयापदं नः ॥१०५॥
तस्यैव ।
२२. गौरी
यानुद्धूलयतीश्वरः सिकतिला यैर्मौलिमन्दाकिनी
यैर्बालेन्दुकणार्द्रकेतकदलोत्सङ्गे परागायितम् ।
यैः कैलासविलासकाननतटीकङ्केल्लिपुष्पोद्गम
क्रीडाकार्मणमद्रिजाचरणयोस्ते रेणवः पान्तु वः ॥१०६॥
उमापतिधरस्य ।
लाक्षारागं हरति शिखराज्जाह्नवीवारि येषां
ये तत्वन्ति स्रजमधिजटामण्डलं मालतीनाम् ।
प्रत्युत्सर्पद्विमलकिरणैर्यैस्तिरोधानमिन्दोर्
देव्याः स्थाणौ चरणपतिते ते नखाः पान्तु विश्वम् ॥१०७॥
कस्यचित। (सु.र. ८१, दक्षस्य)
भवजलधिजलावलम्बयष्टिर्
महिषमहासुरशैलवज्रधारा ।
हरहृदयतडागराजहंसी
दिशतु शिवं भवतश्चिरम् ॥१०८॥
भगीरथदत्तस्य । (सु.र. ८६)
कां तपस्वी गतोऽवस्थामिति स्मेराविव स्तनौ ।
वन्दे गौरीघनाश्लेषभवभूतिसिताननौ ॥१०९॥
भवभूतेः ।
अभिमतफलसिद्धिसिद्धमन्त्रा
वलि बलिजित्परमेष्टिनोरुपास्ये ।
भगवति मदनारिनारि वन्दे
निखिलनगाधिपभर्तृदारिके त्वाम् ॥११०॥
वामदेवस्य ।
२३. विवाहसमयगौरी
गोनासाय वियोजितागदरजाः सर्पाय बद्धौषधिः
कण्ठस्थाय विषाय वीर्यमहतः पाणौ मणीन्बिभ्रती ।
भर्तुर्भूतगणाय गोत्रजरतीनिर्दिष्टमन्त्राक्षरा
रक्षत्वद्रिसुता विवाहसमये प्रीता च भीता च वः ॥१११॥
राजशेखरस्य । (वि.शा.भ. १.३, सु.र. १०२, सूक्तिमुक्तावलि २.३६)
प्रत्यासन्नविवाहमङ्गलविधौ देवार्चनव्यस्तया
दृष्ट्वाग्रे परिणेतुरेव लिखितां गङ्गाधरस्याकृतिम् ।
उन्मादस्मितरोषलज्जितरसैर्गौर्या कथंचिच्चिराद्
वृद्धस्त्रीवचनात्प्रिये विनिहितः पुष्पाञ्जलिः पातु वः ॥११२॥
भासस्य । (सु.र. ८८, शा.प. १०२, सूक्तिमुक्तावलि २.३७)
ब्रह्मायं विष्णुरेष त्रिदशपतिरसौ लोकपालास्तथैते
जामाता कोऽत्र योऽसौ भुजगपरिवृतो भस्मरूक्षः कपाली ।
हा वत्से वञ्चितासीत्यनभिमतवरप्रार्थनाव्रीडिताभिर्
देवीभिः शोच्यमानाप्युपचितपुलका श्रेयसे वोऽस्तु गौरी ॥११३॥
कस्यचित।
धूमव्याकुलदृष्टिरिन्दुकिरणैराह्लादिताक्षी पुनः
पश्यन्ती वरमुत्सुका नतमुखी भूयो ह्रिया ब्रह्मणः ।
सेर्ष्या पादनखाच्छदर्पणगतां गङ्गां दधाने हरे
स्पर्शादुत्पुलका करग्रहविधौ गौरी शिवायास्तु वः ॥११४॥
श्रीहर्षदेवस्य । (Pरियदर्शिका १.१)
पादाग्रे स्थितया मुहुः स्तनभरेणानीतया नम्रतां
शम्भोः सस्प्रृहलोचनत्रयपथं यान्त्या तदाराधने ।
ह्रीमत्या शिरसीहितः सपुलकस्वेदोद्गमोत्कम्पया
विश्लिष्यन्कुसुमाञ्जलिर्गिरिजया क्षिप्तोऽन्तरे पातु वः ॥११५॥
तस्यैव । (ऱत्नावलि १, सूक्तिमुक्तावलि २.३८)
२४. गौरीशृङ्गारः
स्वेदस्ते कथमीदृशः प्रियतमे त्वन्नेत्रवह्नेर्विभो
कस्मात्कम्पितमेतदिन्दुवदने भोगीन्द्रभीतेर्भव ।
रोमाञ्चः कथमेष देवि भगवन्गङ्गाम्भसां शीकर
इत्थं भर्तरि भावगोपनपरा गौरी चिरं पातु वः ॥११६॥
लक्ष्मीधरस्य । (सु.र. ७५, शा.प. १०४)
शम्भो सत्यमिदं पयोधिमथने लक्ष्म्या वृते केशवे
वैलक्ष्यात्किल काककूटमशितं पीतं विषं यत्त्वया ।
सत्यं पार्वति नास्ति नः सुभगता साक्षी तथा च स्मरो
देवेनेति कृतस्मृतिः स्मितमुखी गौरी चिरं पातु वः ॥११७॥
श्रीहर्षदेवस्य ।
चर्मालम्बिदुकूलवल्लरिचिताभस्मावधूतस्तनो
न्मीलच्चन्दनमुत्तरीयभुजगव्यासक्तमुक्तावलि ।
मुग्धाया अपि शैलराजदुहितुर्गङ्गाधारालिङ्गनं
गाढप्रेमरसानुबन्धनिकषग्रावा शिवायास्तु वः ॥११८॥
जलचन्द्रस्य ।
शिरसि कुटिला सिन्धुर्दोषाकरस्तव भूषणं
सह विषधरैः प्रत्यासन्ना पिशाचपरम्परा ।
हरसि न हर प्राणानेव न वेद कथं न्विति
प्रणयकुपितक्ष्माभृत्पुत्रीवचांसि पुनन्तु वः ॥११९॥
भगवद्गोविन्दस्य ।
नादत्ते फणिकङ्कणप्रणयिनं नीईवीनिवेशे करं
नो चूणैरुपहन्ति भालनयनज्योतिर्मयीं दीपिकाम् ।
धत्ते चर्म हरेण मुक्तमपि न द्वैपं भयादित्यसौ
पायाद्वो नवमोहनव्यतिकरव्रीडावती पार्वती ॥१२०॥
आचार्यगोपीकस्य ।
२५. दुर्गा
एकं महिषशिरःस्थितम्
अपरं सानन्दसुरगणप्रणतम् ।
गिरिदुहितुः पदयुगलं
शोणितमणिरागरञ्जितं जयति ॥१२१॥
जलचन्द्रस्य ।
त्रिभुवनशुभपञ्जिकाञ्जिकेव
स्फुरति भवानि तवाङ्कुशः कराग्रे ।
डमरुरपि बिभर्ति देवि तत्तद्
विपदवसानविसर्जनीयलक्ष्मीम् ॥१२२॥
हरेः ।
ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ
प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१२३॥
अमरोः । (अमरु १; सु.र. १००)
पादावष्टम्भनम्रीकृतमहिषतनोरुल्लसद्बाहुमूलं
शूलं प्रोल्लासयन्त्याः सरलितवपुषो मध्यभागस्य देव्याः ।
विश्लिष्टस्पष्टदृष्टोन्नतविरलबहुव्यक्तगौरान्तरालास्
तिस्रो वः पान्तु रेखाः क्रमवशविकसत्कञ्चुकप्रान्तमुक्ताः ॥१२४॥
बाणस्य ।
विद्राणे रुद्रवृन्दे सवितरि तरले वज्रिणि ध्वस्तवज्रे
जाताशङ्के शशाङ्के विरमति मरुति त्यक्तवैरे कुबेरे ।
वैकुण्ठे कुण्ठितास्ते महिषमतिरुषं पौरुषोपघ्निविघ्नं
निर्विघ्नं निघ्नती वः शमयतु दुरितं भूरिभावा भवानी ॥१२५॥
तस्यैव ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP