देवप्रवाहः - सुभाषित ५६ - ६०
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
५६. प्रश्नोत्तरम्
राधे त्वं कुपिता त्वमेव कुपिता रुष्टासि भूमेर्यतो
माता त्वं जगतां त्वमेव जगतां माता न विज्ञोऽपरः ।
देवि त्वं परिहासकेलिकलहेऽनन्ता त्वमेवेत्यसौ
स्मेरो वल्लवसुन्दरीमवनमच्छौरिः श्रियः वः क्रियात॥२७६॥
वाक्पतेः । (सु.र. १०८; पद्या. २८४)
कोऽयं द्वारि हरिः प्रयाह्युपवनं शाखामृगेणात्र किं
कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णः कथं वानरः ।
मुग्धेऽहं मधुसूदनो व्रज लतां तामेव पुष्पान्विताम्
इत्थं निर्वचनीकृतो दयितया ह्रीणो हरिः पातु वः ॥२७७॥
शुभङ्करस्य । (सु.र. १०९, स्व. १०४, शा.प. १२२)
कस्त्वं भो निशि केशवः शिरसिजै ःय्किं नाम गर्वायसे
भद्रे शौरिरहं गुणैः पितृगतैः पुत्रस्य किं स्यादिह ।
चक्री चन्द्रमुखि प्रयच्छसि न मे कुण्डीं घटीं दोहनीम्
इत्थं गोपवधूजितोत्तरतया ह्रीणो हरिः पातु वः ॥२७८॥
कस्यचित। (पद्या. २८२)
वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्विदं
वासं ब्रूहि शठ प्रकामसुभगे त्वद्गात्रसंसर्गतः ।
यामिन्यामुषितः क्व धूर्त वितनुर्मुष्णाति किं यामिनी
शौरिर्गोपवधूं छलैः परिहसन्नेवंविधैः पातु वः ॥२७९॥
कस्यचित। (पद्या. २८३; भ.र.सि. २.१.८३)
कुशलं राधे सुखितोऽसि कंस कं स क्व नु सा राधा ।
इति पालीप्रतिवचनैर्विलक्षहासो हरिर्जयति ॥२८०॥
कस्यचित। (स.क.आ. २.३५१)
५७. वेणुनादः
कृष्णः पातु स यस्य संसदि गवां वेणुप्रणादोर्मयो
गोपीनामनुवासरं नवनवा घूर्णन्ति कर्णोदरे ।
तद्वक्त्रासववासिता इव तदाकूतिप्रपञ्चा इव
भ्राम्यत्तत्करपल्लवाङ्गुलिगलल्लावण्यलिप्ता इव ॥२८१॥
लक्ष्मीधरस्य ।
तिर्यक्कन्धरमंसदेशमिलितश्रोत्रावतंसं स्फुरद्
बर्होत्तम्भितकेशपाशमनृजुभ्रूवल्लरीविभ्रमम् ।
गुञ्जद्वेणुनिवेशिताधरपुटं साकूतराधानन
न्यस्तामीलितदृष्टि गोपवपुषो विष्णोर्मुखं पातु वः ॥२८२॥
लक्ष्मणसेनदेवस्य । (पद्या. २६०)
सायं व्यावर्तमानखिलसुरभिकुलाह्वानसंकेतनामान्य्
अभीरीवृन्दचेतो हठहरणकलासिद्धमन्त्राक्षराणि ।
सौभाग्यं वः समन्ताद्दधतु मधुभिदः केलिगोपालमूर्तेः
सानन्दकृष्टवृन्दावनरसिकमृगश्रेणयो वेणुनादाः ॥२८३॥
उमापतिधरस्य । (पद्या. ५)
मन्द्रक्वाणितवेणुरह्नि शिथिले व्यावर्तयन्गोकुलं
बर्हापीडकमुत्तमाङ्गरचितं गोधूलिधुम्रं दधत।
म्लायन्त्या वनमालया परिगतः श्रान्तोऽपि रम्याकृतिर्
गोपस्त्रीनयनोत्सवो वितरतु श्रेयांसि वः केशवः ॥२८४॥
कस्यचित। (Kव्स्२२, SKं १.५७.४, सु.र. ११०, पद्या. २५६)
अंसासक्तकपोलवंशवदनव्यासक्तबिम्बाधर
द्वन्द्वोदीरितमन्दमन्दपवनप्रारब्धमुग्धध्वनिः ।
ईषद्वक्रिमलोलहारनिकरः प्रत्येकरोकानन
न्यञ्चच्चञ्चदुदञ्चदङ्गुलिचयस्त्वां पातु राधाधवः ॥२८५॥
केशरकीलीयनाथोकस्य । (पद्या. २६१, नाथोकस्य)
५८. गीतम्
सञ्जाते विरहे कयापि हृदये सन्दानिते चिन्तया
कालिन्दीतटवेतसीवनघनच्छायानिषण्णात्मनः ।
पायासुः कलकण्ठकूजितकला गोपस्य कंसद्विषो
जिह्वावर्जिततालुमूर्च्छितमरुद्विस्फारिता गीतयः ॥२८६॥
कस्यचित। (पद्या. २४०)
कालिन्दीजलकुञ्जवञ्जुलवनच्छायानिषण्णात्मनो
राधाबद्धनवानुरागरसिकस्योत्कण्ठितं गायतः ।
तत्पायादपरिस्खलज्जलरुहापीडं कलस्पृङ्नत
ग्रीवोत्तानितकर्णतर्णककुलैराकर्ण्यमानं हरेः ॥२८७॥
उद्भटस्य ।
देवस्त्वामेकजङ्घावलयितगुडीमूर्ध्नि विन्यस्तबाहुर्
गायन्गोयुद्धगीतिरुपरचितशिरःशेखरः प्रग्रहेण ।
दर्पस्फूर्जन्महोक्षद्वयसमरकलाबद्धदीर्घानुबन्धः
क्रीडागोपालमूर्तिर्मुररिपुरवतादात्तगोरक्षलीलः ॥२८८॥
योगेश्वरस्य । (सु.र. १२९, सोन्नोकस्य; पद्या. १५२)
याते द्वारवतीपुरं मुररिपौ तद्वस्त्रसंव्यानया
कालिन्दीतटकुञ्जवञ्जुललतामालाम्ब्य सोत्कण्ठया ।
उद्गीतं गुरुबाष्पगद्गदगलत्तारस्वरं राधया
येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥२८९॥
कस्यचित। (ध्व्, Vअक्२.५९; एत्च्.; पद्या. ३७३ अपराजितस्य, उ.नी. १४.१८८)
यानि तच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा शैशवचापल्यव्यतिकरा राधावरोधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥२९०॥
कस्यचित। (KKआ १.१०६)
५९. कृष्णभुजः
भ्राम्यद्भास्वरमन्दराद्रिशिखरव्याघट्टनाद्विस्फुरत्
केयूराः पुरुहूतकुञ्जरकरप्राग्भारसंवर्धिनः ।
दैत्येन्द्रप्रमदाकपोलविलसत्पत्राङ्कुरच्छेदिनो
दोर्दण्डाः कलिल्कालकल्मषमुषः कंसद्विषो पातु वः ॥२९१॥
कस्यचित। (पद्या. ३८६)
लक्ष्म्याः केशप्रसवरजसां बिन्दुभिः सान्द्रपातैर्
उद्वर्णश्रीर्घननिधुवनक्लान्तिनिद्रान्तरेषु ।
दोर्दण्डोऽसौ जयति जयिनः शार्ङ्गिणो मन्दराद्रि
ग्रावश्रेणिकषमसृणक्षुण्णुकेयूरपत्रः ॥२९२॥
भगीरथस्य । (सु.र. १४२)
ये गोवर्धनमूलकर्दमरसव्यादष्टबर्हच्छदा
ये वृन्दावनकुक्षिषु व्रजवधूलीलोपधानानि च ।
ये चाभ्यङ्गसुगन्धयः कुवलयापीडस्य दानाम्भसा
ते वो मङ्गलमादिशन्तु सततं कंसद्विषो बाहवः ॥२९३॥
शुभाङ्कस्य । (पद्या. ४)
जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमैः
स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव ।
भुजापीडक्रीडाहतकुवलयापीडकरिणः
प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजितः ॥२९४॥
जयदेवस्य । (ङ्ग्११.३५)
पान्तु वो जलदश्यामाः
शार्ङ्गज्याघातकर्कशाः ।
त्रैलोक्यनगरस्तम्भाश्
चत्वारो हरिबाहवः ॥२९५॥
श्रीव्यासपादानाम् । (शा.प. ११३)
६०. गोवर्धनोद्धारः
सत्रासर्ति यशोदया प्रियगुणप्रीतेक्षणं राधया
लग्नैर्वल्लवसूनुभिः सरभसं सम्भावितात्मोर्जितैः ।
भीतानन्दितविस्मितेन विषमं नन्देन चालोकितः
पायाद्वः करपद्मसुस्थितमहाशैलः सलीलो हरिः ॥२९६॥
सोल्लोकस्य । (सु.र. १४० सोन्नोकस्य; पद्या. २६४ सोह्नोकस्य)
एकेनैव चिराय कृष्ण भवता गोवर्धनोऽयं धृतः
श्रान्तोऽसि क्षणमास्स्व साम्प्रतममी सर्वे वयं दध्महे ।
इत्युल्लासितदोष्णि गोपनिवहे किञ्चिद्भुजाकुञ्चन
न्यञ्चच्छैलभरार्दिते विरुवति स्मेरो हरिः पातु वः ॥२९७॥
शरणस्य । (पद्या. २६५)
स्नेहादंसतटेऽवलम्ब्य चरणावारोप्य तत्पादयोर्
दूरादस्तमहीधरस्य तनुतामाशङ्क्य दोष्णो हरेः ।
शैलोद्धारसहायतां जिगमिषोरप्राप्तगोवर्धना
राधायाः सुचिरं जयन्ति गगने बन्ध्याः करभ्रान्तयः ॥२९८॥
शतानन्दस्य ॥
दूरं दृष्टिपथात्तिरोभव हरेर्गोवर्धनं विभ्रतस्
त्वय्यासक्तदृशः कृशोदरि करस्रस्तोऽस्य मा भूदयम् ।
गोपीनामिति जल्पितं कलयतो राधानिरोधाश्रयं
श्वासाः शैलभरश्रमभ्रमकराः कंसद्विषः पान्तु वः ॥२९९॥
शुभाङ्कस्य । (पद्या. २६७)
मुग्धे नाथ किमात्थ तन्वि शिखरिप्राग्भारभुग्नो भुजः
साहाय्यं प्रिय किं भजामि सुभगे दोर्वल्लिमायासय ।
इत्युल्लासितबाहुमूलविचलच्चेलाञ्चलव्यक्तयो
राधायाः कुचयोर्जयन्ति चलिताः कंसद्विषो दृष्टयः ॥३००॥
शङ्करस्य ।
N/A
References : N/A
Last Updated : November 11, 2016
TOP