पूर्वखण्डः - अध्याय ४

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


पश्यति देवमन्त्री
नीतो अथवा रात्रीकरः प्रपूर्णः ।
स्वोच्चाश्रितः केन्द्रगतः स्ववर्गे
सुशुद्धवीर्यस्य भवेत्  प्रसूतिः ॥१॥
लग्नाश्रिते शीतकरे बुधे वा
नीचाश्रीते वा गुरुणा तु दृष्टे ।
अन्येन जातं प्रवदन्ति मानवं
॥२॥
शनैश्चरे लग्नगते च नीचगे
पापांशके पपयुते च दृष्टे ।
पापस्य लग्ने गुरुणा विमुक्ते
पापात् प्रसूतिं प्रवदन्ति चन्द्रे ॥३॥
स्वमीनसंस्थे रवीणा समन्विते
लग्ने चरे सूर्यसुतेन वक्रे ।
व्ययस्थिते वा धनगे च चन्द्रे
पितुः परोक्षस्य भवेत् प्रसूतिः ॥४॥
द्वारं वदेत् केन्द्रमुपगताश्च
तत्र ग्रहाभावत एव लग्नात् ।
दीपोऽर्कतो लग्नवशेन वर्तिः
स्नेहं शशाङ्कात् प्रवदेद्यथावत् ॥५॥
विलग्नभावोद्भवमूर्तिकाः स्यु
र्नानाद्वदेद्वर्णविशेषमेषाम् ।
शस्या त्रीभागाद्गृहमुच्चनीचात्
तेषां वरङ्गगनि तथा परेषाम् ॥६॥
यदा शनिः पंचमधर्मगोऽथवा
भौमोऽथ बन्धुव्ययगः कचंचन ।
तदाङ्गभङ्गं प्रवदेत् समग्रम्
कृष्टं बलोनं प्रवदन्ति किंचित् ॥७॥
हिमांशुमाली स्वनवांशकास्थितः
स्वोच्चेऽथ केन्द्रे सुरनाचपूजितः ।
तुल्यं तदा धातुविवृदगात्रं
शुक्रेण बध्नाटी समन्वितश्च ॥८॥
भौमेऽष्टमे सूर्यसुते विलग्ने
नभस्तलस्थे हिमराश्मिजे च ।
बने प्रसूतिं प्रवदन्ति योषितां
सूर्येण मार्गे मनुजैर्वीवर्जिते ॥९॥
शनैश्चरे मूर्तिगते हिमांशुजे
व्ययस्थिते नीचगते प्रभाकरे ।
विलोमजन्म प्रवदन्ति भूमिजे
सभर्गवे नालविवेस्टितस्य ॥१०॥
चन्द्रेऽम्बरस्थे शशिजे च कामे
बृहस्पतौ मूर्तिगते स्तनान्तरे ।
गर्भस्य तल्लांछनमुक्तमाद्यै
र्विपर्यये पृष्ठाविभागतश्च ॥११॥
जिवे विलग्ने भृगुजे व्ययस्थे
शशङ्कजे लाभमुपाश्रिते च ।
बामाङ्गसंस्थस्तिलकः प्रवाच्यः
षड्वर्गशुद्धौ त्वथ दक्षिणस्थः ॥१२॥
व्यये शशि लभगतः खरांशु
स्त्रिकोणगः सूर्यसुतः सपापः ।
हीनाङ्गतां तत्र वदन्ति भूमिजे
गात्रान्धिकत्वं प्रवदन्ति भागतः ॥१३॥
शनैश्चरे वीर्ययुते तु नै॥
सूर्येण नाम्नोद्भवमेव भूषणम् ।
चन्द्रेण माणिक्यभवं हिरण्यजं
सौम्येन शुक्रेण च रीतिसम्भवम् ॥१४॥
जीवेन नानाविधमिष्टक्रामदे
भौमेन विन्द्याद्बहुवस्त्रसम्भवम् ॥१५॥
गृहं शशाङ्केन सुदारसम्भवं
मनोशरूपं विविधान्वितं च ।
सुसूत्रमुक्तं मणिकूङ्टिमान्वितं
षड्वर्गशुद्धेन च तुङ्गगेन ॥१६॥
भौमेतु दग्धं स्वनवांशकस्थे
परांशकस्थे शिथिलस्वभावम् ।
कुवस्तुयुक्तं बहुपपदृष्टे
सौम्येक्षिते वा धनधान्ययुक्तम् ॥१७॥
सूर्येण चित्रं बहुगैरिकाद्यैः
प्रभासमेतं बहुभूमिकं च ।
एकत्र रम्यं त्वपरत्र शिर्णं
पापेक्षिते वा तपनस्वभावम् ॥१८॥
बुधेन रम्यं वा बहुवंशयुक्तं
पटावृनं भूरिवनाढ्यमेव ।
शुचिप्रगल्भैः पुरुषैः समेतं
विचित्ररूपं प्रभया समेतम् ॥१९॥
जीवेन नानाविधरत्नयुक्तं
सुभूरिशालं बहुमण्डलाढ्यम् ।
वितानचूलाध्वजसर्वदिक्ष
प्रमण्डितं धातुरसैर्वशलैः ॥२०॥
स्वभावरस्यं सुविदग्धलोकं
मनोरमं स्फाटिककांचनाढ्यम् ।
तुङ्गं विशालं सुविभक्तमार्गं
विचित्रकाष्ठप्रभवं नितान्तम् ॥२१॥
शीर्णी कुचेलैः मनुजैः समेतं
रक्तान्वितं स्त्रीरहितं सदैव ।
भवेद्गृहं कन्टकसंघयुक्तं
रौद्रं करालं विकृतप्रतापम् ॥२२॥
शनैश्चरे केन्द्रगते स्वनीचगे
सुतस्थिते भूतनये सभास्करे ।
गृहं तृणैः सर्वत एव युक्तं
जीर्णं नितन्तं तपनस्वभावम् ॥२३॥
शनैश्चरांशे हिमरश्मिपुत्रे
यदा तनुस्थः स्वगृहे शशाङ्कः ।
तदा गृहं नूतनविरुधावृतं
क्रचित् सुकाष्टैः परीतो विपश्चिताम् ॥२४॥
जीवो यदा बन्धुगतः स्वभावगो
नभस्तलस्थो भृगुनन्दनस्तदा ।
चन्द्रोऽस्तगो मूर्तिगतः शनैश्चर
स्तदावृतं वस्त्रवरैः सुमन्दिरम् ॥२५॥
शनैश्चरे मूर्तिगते कुजेऽथवा
पापांशकस्थे बहुपापवीक्षिते ।
गृहाग्नयं जन्म वदेच्छुभांशके
कुटारके छिरयुते विरूपके ॥२६॥
इति श्रीवृद्धयवने जन्माध्यायचतुर्थः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP