पूर्वखण्डः - अध्याय ३३
सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.
कर्माश्रितस्तीक्ष्णकरः स्वतुङ्गे
करोति कर्म व्रतकृत्यमेव ।
तदंशकस्थो वधबन्धजं च
षड्वर्गशुद्धः सकलं कलाजम् ॥१॥
नीचाश्रितस्तीक्ष्णकरोऽम्बरस्थो
नृणां विधत्ते बहुदासकर्म ।
तस्यैव भागे वणिजोद्भवं च
वर्गोत्तमस्थो वणिजप्रसूतम् ॥२॥
मित्राश्रयस्थो दिनकृत् खसंस्थः
करोति पुंसां कृषिजं च कर्म ।
मित्रस्य भगे कुनृपस्य सेवजं
पापस्य वर्गे वधबन्धजं ॥३॥
शत्र्वाश्रयस्थो दिनपो नराणा
ददाति कर्माशुभमेव नित्यम् ।
तस्यिअव भागे जनगर्हितं च
मूलत्रिकोणे खरसेवजं च ॥४॥
कर्माश्रितः शीतकरः स्वतुङ्गे
करोति कर्म प्रथितं नृलोके ।
तस्यैव भागे द्विजदेवजं च
षद्वर्गशुद्धो वरदानभाजम् ॥५॥
नीचाश्रितः शीतकरोऽम्बरस्थो
ददाति कर्मतिसलज्जमेव ।
तस्यैव भागे क्रयविक्रयोत्थं
पापस्य वर्गे व्यसनोद्भवं च ॥६॥
मित्राश्रयस्थो यदि शीरश्मिः
कर्माश्रितः कर्म ददाति सौम्यम् ।
तस्यिव भागे बहुशास्त्रभाजं
वर्गोत्तमस्थो मखजं सदैव ॥७॥
शत्र्वाश्रयस्थोऽम्बरगो निशेशः
कर्म प्रसूते सुतरां नृशंसम् ।
तस्यैव भागे वनितोद्भवं च
मूलत्रिकोणे नृपदैत्यजातम् ॥८॥
भौमोऽम्बस्तस्थो यदि तुङ्गसंस्थो
युद्धोद्भवं कर्म ददाति पुंसाम् ।
तस्यांशके द्यूतसमुद्भवं च
षड्वर्गशुद्धः स्मरजं नितान्तम् ॥९॥
नीचाश्रितो भूतनयोऽम्बरस्थः
कर्म प्रसूते परदारजातम् ।
तदंशकस्थो गणिकोद्भवं च
पापस्य वर्गे ह्युभयं सदैव ॥१०॥
मित्राश्रयस्थः क्षितिजोऽम्बरस्थः
कर्म प्रसूतेऽक्षममुद्धवं च ।
तस्यांशकस्थो बहुभारजातं
वर्गोत्तमस्थः प्रणयेन हीनम् ॥११॥
शत्र्वाश्रयस्थः क्षितिजो नभोगः
कर्म प्रसूते बहुदैन्यजातम् ।
तस्यिव भागे त्वथ भिक्षजं च
मूलत्रिकोणेऽम्बरकाष्ठजातम् ॥१२॥
सौम्यः स्वतुङ्गे यदि कर्मसंस्थः
कर्म प्रसूते धनधान्यजातम् ।
तस्यैव भागे च चतुष्पदोत्थं
षड्वर्गौद्धो गजवाजिजातम् ॥१३॥
नीचाश्रितः सोमसुतोऽम्बरस्थः
कर्म प्रसूते निजमेव पुंसाम् ।
तस्यैव भागे परदेशजातं
पापस्य वर्गे खलजं सदैव ॥१४॥
मित्राश्रयस्यः शशिजोऽम्बरस्थः
कर्म प्रसूते हयविक्रयोत्थम् ।
तस्यैव भागे रजतं नराणां
वर्गोत्तमस्थोऽद्भुतमित्रजातम् ॥१५॥
शत्र्वाश्रयस्थः शशिजोऽम्बरस्थः
कर्म प्रसूते बहुकष्टजातन् ।
तस्यैव भागे गुणवर्जितं च
मूलत्रिकोणे सुयशोद्भवं च ॥१६॥
जीवोऽम्बरस्थो यदि तुङ्गसंस्थो
ददाति कर्म प्रचुरं प्रधानम् ।
तदंशकस्थो द्विजपूजनोत्थं
षड्वर्गशुद्धः सुजनार्थनोत्थम् ॥१७॥
नीचाश्रितो देवगुरुः ससंस्थः
करोति कर्माधमलोकसेव्यम् ।
तदंशकस्थोऽद्भुतचौर्यजातं
पापस्य वर्गेऽर्थविवर्जितं च ॥१८॥
मित्राश्रयस्थो दशमे सुरेज्यः
करोति कर्माणि शुभानि नित्यम् ।
तदंशसंस्थो नृपतेः समुत्थं
वर्गोत्तमस्थो महिषीगवोत्थम् ॥१९॥
शत्र्वाश्रयस्थो दशमे सुरेज्यः
कर्म प्रसूते सततं कृतघ्नम् ।
तस्थैव भागे परवंचनेन
मूलत्रिकोणे नृपतेरभीष्टम् ॥२०॥
तुङ्गाश्रयस्थोऽम्बरगो भृगुश्च
मर्म प्रसूते जनवल्लभं च ।
तस्यैव भागे मणिमौक्तिकाढ्यं
षड्वर्गशुद्धः कनकोद्भवं च ॥२१॥
नीचाश्रयस्थः भृगुजः खसंस्थः
कर्म प्रसूते वनिताश्रितं च
तस्यैव भागेऽल्पसुखं नितान्तं
पापस्य वर्गे गुरुदुःखजं च ॥२२॥
मित्राश्रयस्थो भृगुजोऽम्बरस्थः
करोति कर्म प्रभुतासमेतम् ।
तस्यिअव भागे निजबन्धुजातं
वर्गोत्तमस्थो बहुगौरवाढ्यम् ॥२३॥
शत्र्वाश्रयस्थो भृगुजोऽम्बरस्थः
कर्म प्रसूते विरजं नृशंसम् ।
तस्यैव भागे बहुचिन्तयाढ्यं
मूलत्रिकोणेऽनृतसंयुतं च ॥२४॥
तुङ्गाश्रितः सूर्यसुतोऽम्बरस्थः
कर्म प्रसूतेऽतिमृदुस्थिरं च ।
तस्यैव भागे बहुशिल्पजं च
षद्वर्गशुद्धः प्रियसाध्वसं च ॥२५॥
नीचाश्रितः सूर्यसुतोऽम्बरस्थः
कर्म प्रसूते द्विजद्रोहजातम् ।
तस्यैव भागे नृपसेवजं च
पापस्य वर्गे सनृशंसरूपम् ॥२६॥
मित्राश्रितो भास्करजश्च खस्थः
करोति कर्म प्रभुताविहीनम् ।
तस्यैव भागे नृपसेवजं च
वर्गोत्तमस्थो मृगया समेतम् ॥२७॥
शत्र्वाश्रयस्थोऽर्कौतोऽम्बरस्थः
कर्म प्रसूते बहुकष्टजातम् ।
तस्यैव भागे परपौशुनोत्थं
मूलत्रिकोणे भिषजोद्भवं च ॥२८॥
इति श्रीवृद्धयवने कर्मस्थानचिन्ता ॥
N/A
References : N/A
Last Updated : November 10, 2011
TOP