पूर्वखण्डः - अध्याय ३४

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


लाभाश्रितस्तीक्ष्णकरः स्वतुङ्गे
लाभं विधत्ते गजवाजिजं च ।
तस्यैव भागे महिषिसमुत्थं
षड्वर्गशुद्धः कनकोद्भवं च ॥१॥
नीचाश्रितो वासरपस्तु लाभे
लाभं विधत्ते जलपादपानाम् ।
तस्यैव भागे च कुधान्यकानां
पापस्य वर्गे परयोषितां च ॥२॥
मित्राश्रयस्थो दिनपस्तु लाभे
लाभं प्रसूते सुहृदां सदैव ।
मित्रांशकस्थः कुलयोषितानो
वर्गोत्तमस्थ प्रवरार्यकाणाम् ॥३॥
शत्र्वाश्रयस्थो दिनकृश्च लाभे
लाभं प्रसूते रथकम्बलानाम् ।
तदंशकस्थः खलमानवानां
मूलत्रिकोणे गुणिनां नितान्तम् ॥४॥
लाभाश्रितः शीतकरः स्वतुङ्गे
लाभं विधत्ते मणिमौक्तिकानाम् ।
तस्यैव भागे द्रविणान्नकानां
षड्वर्गशुद्धः प्रियमानुषाणाम् ॥५॥
नीचाश्र्यस्थो हिमगुश्च लाभे
लाभं प्रसूते कुकलत्रकाणाम् ।
तदंशकस्थस्तु सुसेवकानां
पापस्य वर्गे परपैशुनानाम् ॥६॥
मित्राश्रयस्थो हिमगुश्च लाभे
लाभं विधत्ते बहुबन्धवानाम् ।
तस्यैव भागे नदनर्तकानां
वर्गोत्तमस्थः प्रवरार्थकानां ॥७॥
शत्र्वाश्रयस्थो हिमगुश्च लाभे
लाभं प्रसूते बहुकन्दजानाम् ।
तदंशकस्थो हि महीरुहाणां
मूलत्रिकोणे क्षितिमृद्गृहाणाम् ॥८॥
भौमः स्वतुङ्गे यदि लाभसंस्थो
लाभं विधत्ते च चतुष्पदानाम् ।
तस्यैव भागेऽत्र सुभक्षकाणां
षड्वर्गशुद्धो नृपमण्डलानाम् ॥९॥
लाभाश्रितो भूतनयस्तु नीचे
लाभं विधत्ते बहुशौर्यजातम् ।
तस्यैव भागे बहुवंचनोत्थं
पापस्य वर्गे वधबन्धुजातम् ॥१०॥
मित्राश्रयस्थः क्षितिजस्तु लाभे
लाभं विधत्ते नृपलोकजातम् ।
तदंशकस्थस्तु महाजनोत्थं
वर्गोत्तमस्थो ह्युभयं सदैव ॥११॥
शत्र्वाश्र्यस्थः क्षितिजस्तु लाभे
लाभं सुवाते बहुवचकानाम् ।
तस्यैव भागे पर्तर्ककानां
मूलत्रिकोणेऽद्भुतभूषणानाम् ॥१२॥
सौम्यः स्वतुङ्गे यदि लाभसंस्थो
लाभं सुवाते बहुशास्त्रजातम् ।
तस्यैव भागे विविधैरुपायैः
षड्वर्गशुद्धस्त्वथ सर्वविधाम् ॥१३॥
लाभाश्रितः सोमसुतस्तु नीचे
लाभं विधत्ते बहुनीचसङ्गात् ।
तस्यैव भागे कृतकानुसङ्गात्
पापस्य वर्गेऽन्त्यजलोकपार्श्चात् ॥१४॥
मित्राश्रयस्थः शशिजस्तु लाभे
लाभं विधत्ते परलोकजातम् ।
तस्यैव भागे निजविधयातो
वर्गोत्तमस्थो व्यवहारतश्च ॥१५॥
शत्र्वाश्रयस्थः शशिजस्तु लाभे
करोति लाभं वितथोपचारात् ।
तस्यैव भागे कपटैरनेकै
र्मूलत्रिकोणे क्रयविक्रयाभ्याम् ॥१६॥
जीवः स्वतुङ्गे यदि लाभसंस्थो
नरेन्द्रलाभं कुरुते नराणाम् ।
तस्यैव भागे नृपसेवकानां
षड्वर्गशुद्धः प्रचुरप्रभावात् ॥१७॥
नीचाश्रितो देवगुरुश्च लाभे
लाभं नराणां कुरुते धनं च ।
नीचांशकस्थो भृतकाह्वयानां
पापस्य वर्गे बहुकष्टतश्च ॥१८॥
मित्राश्रयथः कुरुते सुरेज्यो
लाभं च लाभे रजतोद्भवं च ।
तस्यांशकस्थो बहुधातुजातं
वर्गोत्तमस्थः सुजनोद्भवं च ॥१९॥
शत्र्वाश्र्यस्थः कुरुते सुरेज्यो
लाभं च लाभे पुरुषाधमानाम् ।
तस्यैव भागे गुणवर्जितानां
मूलत्रिकोणे विविध जानाम् ॥२०॥
शुक्रः स्वतुङ्गे यदि लाभसंस्थो
लाभं सुवाते सुतबान्धवोत्थम् ।
तस्यांशकस्थो नृपकन्यकोत्थं
षड्वर्गशुद्धो द्वितयस्य चास्य ॥२१॥
नीचाश्रयस्थो भृगुजस्तु लाभे
लाभं विधत्ते च कुपश्यकानाम् ।
तदंशकस्थस्तु कुबुद्धिकानां
पापस्य वर्गे द्विजनिन्दितानाम् ॥२२॥
मित्राश्रयथो भृगुजस्तु लाभे
करोति लाभं वरवाहनानाम् ।
तस्यैव भागे वरसुन्दरीणां
वर्गोत्तमस्थः प्रियदर्शनानाम् ॥२३॥
शत्र्वाश्रय्थो भृगुजश्च लाभे
करोति लाभं हतबान्धवानाम् ।
तस्यैव भागे गतसौहृदानां
मूलत्रिकोणे सुखिनां सदैव ॥२४॥
सौरोच्चसंस्थो यदि लाभसंस्थो
लाभं विधत्ते पुरुषोत्तमानाम् ।
तस्यैव भागे धनधान्यकानां
वर्गोत्तमस्थः प्रवरार्चितानाम् ॥२५॥
नीचाश्रितः सूर्यौतस्तु लाभे
लाभं विधत्ते बहुपातकानाम् ।
तस्यैव भागे जननर्डितानां
पापय वर्गे मतिवर्जितानाम् ॥२६॥
मित्राश्रयस्थोऽर्कसुतस्तु लाभे
लाभं विधत्ते बहुमित्रनातम् ।
तस्यिव भागे वनितासमुत्यं
वर्गोत्तमस्थः शुभकर्यलाभम् ॥२७॥
शत्र्वाश्रयस्थोऽर्कसुतस्तु लाभे
लाभं विधत्ते बहुवित्तजं च ।
तस्यैव भागे कृमिजं सदैव
मूलत्रिकोणे स्थिरधर्मजातम् ॥२८॥
इति श्रीवृद्धयवने लाभस्थानचिन्ता ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP