पूर्वखण्डः - अध्याय २१

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.


मेषे गुरुर्देवनरं प्रसूते
दुर्मर्षणं शौर्यबलस्वभवम् ।
विख्यातकर्माणमतिप्रगल्भ
मोजस्विनं बुद्धिगुणैरुपेतम् ॥१॥
वृषे गुरुः पाण्डुयशः प्रतारं
नरं प्रसूते सुभगं सुवेषम् ।
कान्तं स्वदाराभिरतं विनीतं
देवविजाचार्यकृतोपचारम् ॥२॥
तृतीयराशौ च सुरेज्यमन्त्री
नैपुण्यदाक्षिण्यपरं प्रसूते ।
सुमेधसं वाह्मिनमाहितार्थं
कृपापरं बुद्धिगुणान्वितं च ॥३॥
तिष्ठन् गुरुः कर्कटके सुरूपं
विद्वांसमोजोबलवीर्ययुक्तम् ।
प्राज्ञं प्रसूते प्रियधर्मभाजं
यशन्वितं लोकपुरस्कृतं च ॥४॥
सिंहं गतो देवगुरुः प्रवीरं
नरं प्रसूते स्थिरहऽसत्त्वम् ।
विद्वांसमालक्ष्यमुदारनुग्र
शूरं बहुस्निग्धसुहृज्जनं च ॥५॥
षष्ठे क्रियाज्ञानविशुद्धबुद्धिं
मेधाविनं कर्मकथाभिरामम् ।
शास्त्रार्थशिल्पश्रुतिकाव्यचिन्तं
सुदर्शनं देवगुरुः प्रसूते ॥६॥
तुले विचित्रार्थबहुप्रलापं
गुरुः प्रसंख्यातधियं प्रसूते ।
कान्तं शुभाचाररतं विनीतं
प्राज्ञं वणिक्सार्थमहत्तरं च ॥७॥
गुरूर्नरं वृश्चिकमभ्युपेतः
क्षुद्रं प्रसूते बहुशत्रुपक्षम् ।
सुहृच्छलद्रोहरतं कुशीलं
प्रपंचकं हिंस्रमनिष्टदारम् ॥८॥
धनुधरस्यस्तु गुरुः प्रसूते
प्रियोपहारंश्रुतधर्मशीलम् ।
यज्ञव्रताचार्यमसंस्थितार्थं
दातारमार्यं बहुमित्रपक्षम् ॥९॥
गुरुर्मृगे मार्दवमल्पवीर्यं
नीचक्रियाचाररतं दुरन्तम् ।
मूर्खं पराज्ञकरमर्थहीनं
बहुश्रमं क्लेशसहं प्रसूते ॥१०॥
कुम्भे तु जीवः नृशस
विद्वेशशीलं जनयत्यसत्यम् ।
कुशिल्पिनोपाश्रयकर्कशं च
मुख्यं गणानामतिनीचचेष्तम् ॥११॥
मीनद्वयस्थो गुरुगौरवज्ञं
गुरुर्नरं श्लाघ्यधनं प्रसूते ।
हृष्टं स्थिरारम्भमनिष्टदर्पं
वेदार्थशस्त्रश्रूतिकाव्यवित्तम् ॥१२॥
होरां रवेर्देवगुरुः प्रयातः
करोति मर्त्यं बहुरोषयुक्तम् ।
लुब्धं स्ववाग्दोषयुतं सुतीव्रं
सुगुप्तपापं परतर्ककं च ॥१३॥
चन्द्रस्य होराधिगतः सुरेज्यो
नरं प्रसूते सुभगं मनोज्ञम् ।
स्थिरक्रियारम्भधनं शरण्यं
धर्मस्वभावं दृढसौहृदं च ॥१४॥
भागे तृतीये सुरराजमन्त्री
सूर्यस्य सूते कृपणं मनुष्यम् ।
क्रूरं क्रियाहीनमनप्रधृष्यं
निन्द्यं कुकर्मार्जितसंपदं च ॥१५॥
जीवस्त्रिभागे रजनीकरस्य
तिष्ठन् प्रसूते सुमनोश्चरूपम् ।
॥।ऽरं प्रसिद्धं बहुमानवित्तं
प्रगल्भचिन्तं द्विजदेवभक्तम् ॥१६॥
त्र्यंशे गुरुर्भुमिसुतस्य धत्तो
नृणां भयं बन्धुजनैः प्रसूते ।
आक्षिरोगं
प्रपोषणं  ॥१७॥
॥सामसुतस्य तिष्ठन्
करोति मर्त्यं प्रवरं प्रसिद्धम् ।
विद्याविनीतं बहुधर्मसक्तं
सौम्याकृतिं सौम्यगुणैः समेतम् ॥१८॥
त्र्यंशे स्वके देवगुरुः प्रसूते
॥ सुशील विजितारिपक्षम् ।
क्षमन्वितं पार्थिवमानयुक्तं
चतुष्पदाढ्य प्रणतं गुरूणाम् ॥१९॥
द्रेष्काणसंस्थो भृगुजस्य जीवो
॥प्रसूते बहुकांचनाढ्यम् ।
॥ वरर्त्नयुक्तं
सुखान्वितं पार्थिवव्ल्लभं च ॥२०॥
रौद्रं परस्वापहरं कुबुधिं
कनिष्टःअकर्माणममित्रवन्तम् ।
द्रेष्काणसंस्थो रविजय जीवो
नरं प्रसूते बहुशोकभाजम् ॥२१॥
प्रेष्यः कुकर्मातिखलस्वभावो
धनैर्विहीनस्त्वथ मन्दसत्त्वः ।
नवांशके वासरपस्य जीवो
यदा तदा स्यान्मनुजः प्रचण्डः ॥२२॥
नवांशके रात्रिपतेः सुरेज्य
स्तिष्ठन् प्रसूते सुभगं मनुष्यम् ।
प्रियातिथिं प्रीतिकरं नराणां
प्रसन्नचिन्तं प्रमदास्वभीष्टम् ॥२३॥
मुखादिरोगं व्यसनोपतप्तं
भायान्वितं पापरतं प्रकामम् ।
नवांशके भूमिसुतस्य जीव
स्तिष्ठन् प्रसूतेऽतिखलं मनुष्यम् ॥२४॥
बुधस्य भागे नवम सुरेज्य
स्तिष्ठन् प्रसूते सदयं मनोज्ञम् ।
वित्तान्वितं धर्मपरं सुवेषं
शास्त्रर्थरक्तं सुतसौख्ययुक्तम् ॥२५॥
जीवो नवांशे विचरन् स्वकीये
करोति मर्त्यं नृपतुल्यवेषम् ।
पुत्रान्वितं शुद्धकलत्रयुक्तं
शास्त्रार्थयुक्तं सुजनार्थवन्तम् ॥२६॥
शुक्रस्य भागे नवमे सुरेज्य
तिष्ठन् प्रसूते सुखिनं मनुष्यम् ।
तेजस्विन कीर्तिकरं कृतज्ञं
पुण्यात्मकं धर्मरतं सदैव ॥२७॥
भाराक्षिरोगव्यसनैः समेतं
प्रियाविहीनं विगतप्रतापम् ।
नवांशकस्थोरविज्यस्य जीवो
नरं सुवाते नृपपीडितं च ॥२८॥
सूर्यांशके वासरपय जीवो
नरं प्रसूते विधनं विरूपम् ।
अकीर्तिवन्तं बहुशत्रुपक्षं
मित्रैर्वियुक्तं विसुखं विशीलम् ॥२९॥
सूर्यांशके देवगुरुः प्रसूते
चन्द्रस्य तिष्ठन् धनिनं मनुष्यम् ।
प्रियातिथिं पुत्रसुतार्थयुक्तं
भूपालपूज्यं दयितं जनानाम् ॥३०॥
बृहस्पतिर्द्वादशभागसंस्थो
भौमस्य सूते प्रखलं मनुष्यम् ।
विधर्मशीलं व्यसनैरुपेतं
रोगार्दितं बन्धनभागन च ॥३१॥
अर्कांशसंस्थः शशिजस्य जीवो
नरं प्रसूते प्रथितं नृलोके ।
सत्याधिकं सर्वगुणैरूपेतं
प्रभुप्रियं बन्धुजनस्य नित्यम् ॥३२॥
अर्कांशके वे प्रकरोति जीव
स्तिष्ठन् नरं सर्वसमृद्धिमतम् ।
पुष्टं जितारिं भयरोहयुक्तं
रामास्वभीष्टं सततं सुशिलम् ॥३३॥
जीवो भृगोर्द्वादशभागसंस्थो
नरं प्रसूते हयकांचनाढ्यम् ।
प्रियातिथिं भोगिनमार्यशीलं
प्रमाथिनं वैरिजनय नित्यम् ॥३४॥
सूर्यांशके भास्करनन्दन
जीवः कुचैलं कुरुते मनुष्यम् ।
दीनं विरूपं बहुदुःखभाजं
प्रपीडितं दस्युभिरेव भूपैः ॥३५॥

नरं प्रसूते कुटिलं मनुष्यम् ।
हीर्ष्यापरं पीडितलोकवर्गं
विहीनशिलं परवादरक्तम् ॥३६॥
त्रिम्शल्लवे सूर्यसुतस्य जीव
स्तिष्ठन् विधत्ते विभृतं ॥।म् ।
पापानुरक्तं परदारशीलं
स्वबन्धुहीनं कुटिलस्वभावम् ॥३७॥
त्रिंशांशके स्वे सुरराजमन्त्री
मनीषिणं वाक्चतुरं करोति ।
मर्त्यं सुरक्तं द्विजदेवभक्तं
सन्तुष्टचिन्तं सततं सुशिलम् ॥३८॥
त्रिंशांशके सोमसुतस्य जीवः
करोति विज्ञं सततं मनुष्यम् ।
अध्यात्मविधागमसक्तचिन्तं
क्षमान्वितं ब्रह्मविदां वरिष्ठम् ॥३९॥
त्रिंशांशके भार्गवनन्दनस्य ॥
जीवश्चरन् वित्तयुतं विधत्ते ।
नरं विनीतंउतलाभयुक्तं
स्त्रीणामभीष्टं नृलोकमान्यम् ॥४०॥
सुहृद्धली देवगुरुः प्रसूते
नरं विनीतं सततं सुशीलम् ।
ख्यातं स्थिरस्फीतधनं सुमित्रं
सद्वृत्तयुक्तं च तथा जितारिम् ॥४१॥
वक्षेत्रवीर्येण युतः सुरेज्यो
नरं प्रसूते गुणशीलवन्तम् ।
मेधाविनं देवगुरुप्रसक्तं
प्रख्यातकर्माणमन्ल्पवीर्यम् ॥४२॥
स्वतुङ्गवीर्येण युतः सुरेज्यः
करोति नानार्थयुतं मनुष्यं ।
र्वशिल्पव्यवहारकाव्य
माधुर्यदाक्षिण्यपतुं दयालुम् ॥४३॥
॥४४॥
शुभग्रहलोकनवीर्ययुक्तो
जीवो विधत्ते विरुजं मनुष्यम् ।
पापैरनार्थैः प्रखलैर्विरुध्ये
दभ्यर्चितं ज्ञातिभिरेव भूपैः ॥४५॥
पुंक्षेत्रवीर्येण युतस्तु जीवो
गाम्भीर्यधैर्यप्रवरं मनुष्यम् ।
चतुष्पदाढ्यं कुलदैवमुख्यं
सुधर्मशीलं नृपवल्लभं च ॥४६॥
बृहस्पतिर्दिग्बलवान् प्रसूत
सुपण्डितं भूरिगुणैः समेतम् ।
वस्त्रान्नपानैः सहितं मनोज्ञं
गतातिपक्षं गतसाध्वसं च ॥४७॥
चेष्टाबलाढ्यः सरराजमन्त्री
॥।तिष्ठं संजनयेन्मनुष्यम् ।
मन्त्रान्वितं सौरतलब्धसौख्यं
शूरं महाश्चानयुतं सहिष्णुम् ॥४८॥
देवाबलाढ्यः प्रकरोति जीवो
नरं प्रसिद्धं बहुवित्तयुक्तम् ।
प्रसन्नमूर्तिं प्रणतारिपक्षं
सुखान्वितं तन्त्रविदां वरिष्ठम् ॥४९॥
स्ववारवीर्येण युतस्तु जीवो
विद्याधिकं संजनयेन्मनुष्यम् ।
स्त्रीलाभयुक्तं सुजनानुकूलं
प्रियंवदं सर्वकलासु दक्षम् ॥५०॥
गुरुर्यदा वर्षबलेण युक्त
स्तदा प्रसूते सुभगं मनुष्यम् ।
अत्यार्यशीलं बहुवीर्ययुक्तं
चेष्टं नृपाणां प्रचुरान्नपानम् ॥५१॥
स्वमासवीर्येण युतः सुरेज्य
करोति मर्त्यं सुभगं कृतज्ञम् ।
कान्तं विनीतं प्रचुराङ्गनाढ्यं
स्वबन्धुपूज्यं सततं धनाढ्यम् ॥५२॥
होराबलाढ्यः प्रकरोति जीवो
नरं महाज्ञानयुतं पशान्तम् ।
विज्ञानशास्त्रश्रुतसौख्ययुक्तं
प्रियातिथिं मानधनैः समेतम् ॥५३॥
जीवो यदा पक्षबलेन युक्तो
नरं प्रसूतेऽतिबलं कृतज्ञम् ।
विधान्वितं सर्वसुखाधिवासं
रत्नान्वितं वाजिगजैरुपेतम् ॥५४॥
जीवो यदा मित्रबलेन हीन
स्तदा प्रसूते कृपणं मनुष्यम् ।
शत्रुप्रहार ज्वरपानदोष
स्त्रीरोगबन्धादिनिपीडिताङ्गम् ॥५५॥
स्वस्थानवीर्येण विवर्जितस्तु
जीवः प्रसूते कठिनस्वभावम् ।
मृताङ्गनं कुक्षिरुगार्तदेहं
मित्रैर्विहीनं भयविक्लवं च ॥५६॥
जीवोश्चवीर्येण विवर्जितस्तु
करोति नीचप्रकृतिं मनुष्यम् ।
पुत्रार्थहीनं कठिनं कृतघ्नं
प्रपीडितं पार्थिवचौरसंघैः ॥५७॥
नवांशवीर्येण विवर्जितस्तु
सुरेन्द्रमन्त्री कुरुते भयार्तम् ।
पामादिरोगैः सहितं ॥
बुद्धा विहीनं विसुखं सशोकम् ॥५८॥
शुभग्रहालोकनवीर्यहीनो
जीवः प्रसुतेऽतिकुरूपदेहम् ।
स्वबन्धुहीनं जठरस्वभावं
वैरप्रियं क्रोधपरं कुशिलम् ॥५९॥
पुंवीर्यहीनः सुरराजमन्त्री
नरं प्रसूते ललनस्वभावम् ।
भीरुं शठं नैकृतिकप्रकारं
श्लेष्मात्मदेहं वृजिनात्मकं च ॥६०॥
दिग्वायहिनः कुरुते सुरेज्या
नरं विहीनं धनधान्यजातैः ।
विदेशरक्त प्रचलस्व ॥
ंइत्यम् ॥६१॥
चेष्टाबलेनैव विना सुरेज्यः
करोति पापात्मकमुग्ररूपम् ।

संपीड्यते वा नृपतिर्मनुष्यैः ॥६२॥
करोति जीवो द्युबलेन हीनो
नरं प्रकृत्या पिशुनस्वभावम् ।
कन्याप्रजं वातरुजाभितप्तं
नीचारिविद्वेषविवृद्धदोषम् ॥६३॥
स्ववारवीर्येण विना सुरेज्यो
नरं प्रसूते परिभूतवीर्यम् ।
पित्ताग्निदाहज्वरशस्त्रचौरैः
प्रपीडितं धर्मविवर्जितं च ॥६४॥
स्ववर्षवीर्येण विना सुरेज्यः
करोति मर्त्यं धनबुद्धिहीनम् ।
कृशं कृतघ्नं चपलस्वभावं
कफानिलाभ्यं सततं च युक्तम् ॥६५॥
विवर्जितो मासबलेन जीवः
करोति मिथ्यात्मकमुग्ररूपम् ।
परापवादेषू रतं कृतघ्नं
परान्नरक्तं परयोषिताढ्यम् ॥६६॥
करोति होराबलहानमूर्तिः
सुरेज्य बहुशाठ्ययुक्तम् ।
गतत्रपं हीनबलं कुरूपं
वधात्मकं शङ्करकारकं च ॥६७॥
बृहस्पतिः पक्षबलेन हीनः
करोति मर्त्यं निजपक्षहीनम् ।
रोगाभिभूतं प्रविहीनसत्यं
प्रभूतशत्रुपरदाररक्तम् ॥६८॥
इति श्रीवृद्धयवने गुरुचारः ॥

N/A

References : N/A
Last Updated : November 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP