पूर्वखण्डः - अध्याय २४अ
सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.
तनुस्थितो वासरपः स्वतुङ्गे
तीव्रां तनुं संजनयेन्नराणाम् ।
तुङ्गांशके वा दृढतासमेतां
षड्वर्गशुद्धो बहुधार्यतां च ॥१॥
नीचाश्रितस्तीक्ष्णक॥
कायं विधत्ते सरुजं सदैव ।
।ंयहीनं भृशनिचभागे
॥वर्गे नतये प्रयुक्तम् ॥२॥
मित्राश्रयस्थो यदि वासरेशो
मूर्तिं गवो दीर्घतरं प्रसूते ।
मित्रस्य भागे जतिलं नितान्तं
वर्गोत्तमे वाधिकशासिनं च ॥३॥
शत्रोर्गृहे वा यदि तीक्ष्णरश्मि
र्लग्नाश्रितो हीनशरीरकं च ।
नरं प्रसूते त्वथ शत्रुभागे
हीनक्षकोणं नयवर्जितं च ॥४॥
चन्द्रो विलग्ने परिपूर्णदेह
स्तुङ्गस्थितः सौम्यतनुं प्रसूते ।
तुङ्गस्य भागे सुमनोहरां च
षड्वर्गशुद्धोऽपरनेत्रयुक्ताम् ॥५॥
नीचाश्रितः क्षीणतनुः शशाङ्कः
काणां तनुं लग्नगतः प्रसूते ।
निशान्धकं नीचनवांशशंस्थः
पापोत्थवर्गे तिमिरेण युक्ताम् ॥६॥
मित्रगृह शीतकरा विलग्ने
तनुं सुवाते सुभगां मनोज्ञाम् ।
मित्रस्यभागे वरवक्त्रयुक्तां
वर्गोत्तमस्थः सुशरितकान्तिम् ॥७॥
निशान्धकं शत्रुगृहाश्रिते च
लग्नं गतः स्थूलरुडं प्रसूते ।
शत्रोर्विभागे पृथुदीर्घकं च
मूलत्रिकोणेषु शुभाधरौष्ठम् ॥८॥
भौमः स्वतुङ्गे मूर्तिसंस्थः
करोति संरक्तननीशमर्त्यम् ।
तुङ्गांशके वा चिपिटस्वभावं
षड्वर्गशुद्धस्त्वथ कर्कशाख्यम् ॥९॥
नीचश्रितो भूतनयो विलग्ने
करोति सान्द्रं मदनं सदैव ।
नीचांशके तैमिरिकं निशान्धं
पापस्य वर्गे त्वथ वक्रदृष्टिम् ॥१०॥
॥॥
मित्रांशके रोगसमेतदृष्टिं
वर्गोत्तमे दूरविलोकनं च ॥११॥
शत्रोर्गृहे वा यदि भूमिपुत्रो
मित्रं प्रसूते बहुदृ॥
समीपदृष्टिं च नवांशके वा
मूलत्रिकोणे च जलार्ददृष्टिम् ॥१२॥
बुधा विलग्न याद तुङ्गसंस्थो
नरं सुवाते सुमुखोरुनासम् ।
तुङ्गांशके वा सुरदाधरैष्ठं
षड्वर्गशुद्धः सुशरिरकान्तिम् ॥१३॥
नीचाश्रितो वा यदि सोमपुत्र
स्तनुस्थितो वक्त्रकुगन्धभाजम् ।
नीचांशके दीर्घकराकजिह्वं
॥१४॥
मित्राश्रयस्था यदि सोमपुत्रो
लग्नं गतः शुभ्रशिरोरुहं च ।
मित्रस्य भागे त्वथ शुभ्रदृष्टि
वर्गित्तमस्थः सुहनुं सदैव ॥१५॥
शत्रोर्गृहे वा यदि सोमपुत्रः
करोति मर्त्यं तनुगः करालम् ।
शत्रोर्विभागे चपलस्वभावं
त्रिकोणगो रोगविवृद्धकायम् ॥१६॥
सुरेज्यमन्त्री यदि तुङ्गसंस्थो
लग्ने मनोज्ञं जनयेन्मनुष्यम् ।
उच्चऽंशके वा शुभबाहुहस्तं
षड्वर्गशुद्धः शुभचर्मभाजम् ॥१७॥
नीचाश्रितो देवगुरुर्विलग्ने
खंजं सुवाते निरुजं नितान्तम् ।
नीचांशके खंजननासकं च
॥ वर्गे च सुभूषणाढ्यम् ॥१८॥
मित्राश्र्यस्थो यदि मूर्तिसंस्थो
गुरुः प्रसूते वरवस्त्रभाजम् ।
मित्रांशके वा सुकटिं सुनाभिं
वर्गोत्तमस्थः सुभगोदरं च ॥१९॥
शत्रोर्गृहे ता यदि देवपूज्यो
मूर्तिस्थितः स्वोदरिकं प्रसूते ।
शत्रोर्विभागे त्वथ फुल्लमेव
मूलत्रिकोणे प्रजनत्यलिङ्गम् ॥२०॥
शुक्रः स्वतुङ्गे यदि लग्नसंस्थः
सुरूपजानुं मनुजं प्रसूते ।
स्वोच्चांशकस्थः शुभपाणिपादं
षड्वर्गशुद्धः सुविभक्तगात्रम् ॥२१॥
नीचस्थितो वा यदि दानवेज्यो
मूर्तिस्थितः स्वल्पकचं प्रसूते ।
स्वल्वाटकं वा यदि नीचहागे
पापात्थवर्गे बलिरोमभाजम् ॥२२॥
मित्रगृहस्थो यदि दैत्यपूज्यः
सौभाग्ययुक्तं शुभकीर्तिभाजम् ।
नरं प्रसूते सुनखं विभागे
वर्गोत्तमस्थो बहुरुपिणं च ॥२३॥
शुक्रो यदा शत्रुगृहं प्रपन्नो
लग्नं गतः कुब्जतनुं प्रसूते ।
शत्रोर्विभागेऽतिकृशं विग॥।
मूलत्रिकोणे नयनाभिरामम् ॥२४॥
शनैश्चरो मूर्तिगतः स्वतुङ्गे
लग्नं गतः श्यामतनुं मनुष्यम् ।
तुङ्गांशके स्वे त्वथ भिन्नवर्णं
षड्वर्गशुद्धस्त्वथ गौर ॥ऽत्रम् ॥२५॥
नीचस्थितः सूर्यसुतो विलग्ने
कासार्तमर्त्यं जनयेनमनुष्यम् ।
नीचाशकस्थः कफवातपातं
पापस्य वर्गे त्वथ पित्ततां च ॥२६॥
मित्राश्रयस्थो यदिसूर्यसूनु
र्लग्नस्थितो गौरवपुं प्रसूते ।
मित्रांशकस्थोऽस्थसायसार
वर्गोत्तमस्थस्त्वथ पीवराङ्गम् ॥२७॥
शत्रोर्गृहस्थो रविजोऽतिरूप्यं
लग्नाश्रितः स्थूलनखं प्रसूते ।
सुस्थूलदन्तं रिपुभागसंस्थो
मूलत्रिकोणे तु सुदीर्घजानुम् ॥२८॥
स्वोच्चस्थितः स्वभवने क्षितिपालतुल्यो
लग्नेऽर्कजे भवति देशपुराधिनाथः ।
शेषेषु दुःखमदपीडित एव बाल्ये
दारिद्र्यकामव्यसनो मलिनोऽलसश्च ॥२९॥
इति श्रीवृद्धयवने तनुस्थानचिन्ता ॥
N/A
References : N/A
Last Updated : November 10, 2011
TOP