रसार्णव - प्रथमः पटलः

रसार्णव नामक ग्रंथात विभिन्न रासायनिक प्रक्रियांद्वारे उत्पन्न होणारे तत्कालीन उत्प्रेरक शिवाय रासायनिक अभिक्रियांमध्ये तीव्रता प्रदान करणार्‍या पदार्थांमध्ये ज्यात अधिकांश वानस्पतिक श्रोत वापरले जातात त्यांचा खास उल्लेख आहे.


यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥१॥
कैलासशिखरे रम्ये नानारत्नविभूषिते ।
नानाद्रुमलताकीर्णे गुप्तसम्बन्धवर्जिते ॥२॥
देवदेवं सुखासीनं नीलकण्ठं त्रिलोचनम् ।
प्रणम्य शिरसा देवी पार्वती परिपृच्छति ॥३॥
श्रीदेव्युवाच
देवदेव महादेव काल कामाङ्गदाहक ।
कुलकौलमहाकौल सिद्धकौलादिनाशन ॥४॥
त्वत्प्रसादाच्छ्रुतं सर्वं अशेषमवधारितम् ।
यदि तेऽहं अनुग्राह्या यद्यहं तव वल्लभा ॥५॥
सूचिता सर्वतन्त्रेषु या पुनर्न प्रकाशिता ।
जीवन्मुक्तिरियं नाथ कीदृशी वक्तुमर्हसि ॥६॥
श्रीभैरव उवाच
साधु साधु महाभागे साधु पर्वतनन्दिनि ।
साधु पृष्टं त्वया देवि भक्तानां हितकाम्यया ॥७॥
अजरामरदेहस्य शिवतादात्म्यवेदनम् ।
जीवन्मुक्तिर्महादेवि देवानामपि दुर्लभा ॥८॥
पिण्डपाते च यो मोक्षः स च मोक्षो निरर्थकः ।
पिण्डे तु पतिते देवि गर्दभोऽपि विमुच्यते ॥९॥
यदि मुक्तिर्भगक्षोभे किं न मुञ्चन्ति गर्दभाः ।
अजाश्च वृषभाश्चैव किंन मुक्ता गणाम्बिके ॥१०॥
तस्मात्संरक्षयेत्पिण्डं रसैश्चैव रसायनैः ।
शुक्रमूत्रपुरीषाणां यदि मुक्तिर्निषेवणात् ॥११॥
किंन मुक्ता महादेवि श्वानशूकरजातयः ।
षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने ॥१२॥
करामलकवत्सापि प्रत्यक्षं नोपलभ्यते ।
अकथ्यमपि देवेशि सद्भावं कथयामि ते ॥१३॥
शून्यपापो मन्त्रयाजी न पिण्डं धारयेत्क्वचित् ।
देवानामपि देवेशि दुर्लभं पिण्डधारणम् ॥१४॥
किं पुनर्मानुषाणां तु धरणीतलवासिनाम् ।
धर्मे नष्टे कुतो धर्मः धर्मे नष्टे कुतः क्रिया ॥१५॥
क्रियानष्टे कुतो योगः योगे नष्टे कुतो गतिः ।
गतिनष्टे कुतो मोक्षो मोक्षे नष्टे न किंचन ॥१६॥
श्रीदेव्युवाच
जीवन्मुक्तिस्वरूपं तु देवदेव श्रुतं मया ।
तत्प्रत्युपायं मे ब्रूहि यद्यस्ति करुणा मयि ॥१७॥
श्रीभैरव उवाच
कर्मयोगेन देवेशि प्राप्यते पिण्डधारणम् ।
रसश्च पवनश्चेति कर्मयोगो द्विधा मतः ॥१८॥
मूर्छितो हरति व्याधिं मृतो जीवयति स्वयम् ।
बद्धः खेचरतां कुर्यात्रसो वायुश्च भैरवि ॥१९॥
ज्ञानान्मोक्षः सुरेशानि ज्ञानं पवनधारणात् ।
तत्र देवि स्थिरं पिण्डं यत्र स्थैर्ये रसः प्रभुः ॥२०॥
अचिराज्जायते देवि शरीरं अजरामरम् ।
मनसश्च यथा ध्यानं रसयोगादवाप्यते ॥२१॥
सत्यं स लभते देवि ज्ञानं विज्ञानपूर्वकम् ।
तस्य मन्त्राश्च सिध्यन्ति योऽश्नाति मृतसूतकम् ॥२२॥
यावन्न शक्तिपातस्तु न यावत्पाशकृन्तनम् ।
तावत्तस्य कुतो बुद्धिः जायते मृतसूतके ॥२३॥
मद्यमांसरता नित्यं भगलिङ्गेषु ये रताः ।
तेषां विनष्टबुद्धीनां रसज्ञानं सुदुर्लभम् ॥२४॥
कुलशासनहीनानां सद्दर्शनं अकाङ्क्षिणाम् ।
न सिध्यति रसो देवि पिबन्ति मृगतृष्णिकाम् ॥२५॥
गोमांसं भक्षयेद्यस्तु पिबेदमरवारुणीम् ।
कुलीनं तमहं मन्ये रसज्ञमपरेऽधमाः ॥२६॥
न गर्भः सम्प्रदायार्थे रसो गर्भो विधीयते ।
तेनायं लभते सिद्धिं न सिद्धिः सूतकं विना ॥२७॥
यावन्न हरबीजं तु भक्षयेत्पारदं रसम् ।
तावत्तस्य कुतो मुक्तिः कुतः पिण्डस्य धारणम् ॥२८॥
मद्यमांसरताप्रज्ञा मोहिताः शिवमायया ।
जल्पन्ति च वयं मुक्ता यास्यामः शिवमन्दिरम् ॥२९॥
पिण्डधारणयोगे च निस्पृहा मन्दबुद्धयः ।
खण्डज्ञानेन देवेशि रञ्जितं सचराचरम् ॥३०॥
स्वदेहे खेचरत्वं च शिवत्वं येन लभ्यते ।
तादृशे तु रसज्ञाने नित्याभ्यासं कुरु प्रिये ॥३१॥
श्रीदेव्युवाच
अवतारं रसेन्द्रस्य माहात्म्यं तु सुरेश्वर ।
श्रोतुमिच्छामि देवेश वक्तुमर्हसि तत्त्वतः ॥३२॥
श्रीभैरव उवाच
साधु पृष्टं महाभागे गुह्याद्गुह्यतरं त्वया ।
अनुग्रहकरं ध्यानं लोकानामुपकारकम् ॥३३॥
त्वं माता सर्वभूतानां पिता चाहं सनातनः ।
द्वयोश्च यो रसो देवि महामैथुनसम्भवः ॥३४॥
स्वैरतः सम्भवाद्देवि पारदः कीर्तितो महः ।
पारदो गदितो यश्च परार्थं साधकोत्तमैः ॥३५॥
सूतोऽयं मत्समो देवि मम प्रत्यङ्गसम्भवः ।
मम देहरसो यस्मात्रसस्तेनायमुच्यते ॥३६॥
दर्शनात्स्पर्शनात्तस्य भक्षणात्स्मरणादपि ।
पूजनाच्च प्रदानाच्च दृश्यते षड्विधं फलम् ॥३७॥
केदारादीनि लिङ्गानि पृथिव्या यानि कानि च ।
तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥३८॥
चन्दनागुरुकर्पूर कुङ्कुमान्तर्गतो रसः ।
मूर्छितः शिवपूजायां शिवसांनिध्यसिद्धये ॥३९॥
भक्षणात्परमेशानि हन्ति पापत्रयं रसः ।
तथा तापत्रयं हन्ति रोगान्दोषत्रयोद्भवान् ॥४०॥
दुर्लभं ब्रह्मनिष्णातैः प्राप्यते परमं पदम् ।
हृद्व्योमकर्णिकान्तःस्थ रसेन्द्रस्य महेश्वरि ॥४१॥
स्मरणान्मुच्यते पापैः सद्यो जन्मान्तरार्जितैः ॥४२॥
स्वयंभूलिङ्गसाहस्रैः यत्फलं सम्यगर्चनात् ।
तत्फलं कोटिगुणितं रसलिङ्गार्चनाद्भवेत् ॥४३॥
अधमः खगवादस्तु विलवादस्तु मध्यमः ।
उत्तमो मन्त्रवादस्तु रसवादो महोत्तमः ॥४४॥
मन्त्रतन्त्रपरिज्ञाने रसयोगस्य दूषकाः ।
प्रयान्ति नरकं सर्वे छित्त्वा सुकृतसंचयम् ॥४५॥
रसविद्या परा विद्या त्रैलोक्येऽपि सुदुर्लभा ।
भुक्तिमुक्तिकरी यस्मात्तस्माद्देया गुणान्वितैः ॥४६॥
अस्तीति भाषते कश्चित्कश्चिन्नास्तीति भाषते ।
आस्तिके तु भवेत्सिद्धिः तस्य सिध्यति भूतले ॥४७॥
नास्तिकेनानुभावेन नास्ति नास्तीति यो वदेत् ।
तस्य नास्ति प्रिये सिद्धिर्जन्मकोटिशतैरपि ॥४८॥
ब्रह्मज्ञानेन मुक्तोऽसौ पापी यो रसनिन्दकः ।
नाहं त्राता भवे तस्य जन्मकोटिशतैरपि ॥४९॥
श्वानोऽयं जायते देवि यावत्जन्मसहस्रकम् ।
त्रिकोटिजन्मलक्षाणि मार्जारो जायते रसात् ।
रासभो लक्षजन्मानि लक्षजन्मानि वायसः ॥५०॥
कृमिको लक्षजन्मानि कुक्कुटो जन्मलक्षकम् ।
गृध्रको लक्षजन्मानि यः पापी रसनिन्दकः ॥५१॥
आलापं गात्रसंस्पर्शं यः कुर्याद्रसनिन्दकैः ।
यावज्जन्मसहस्रं तु स भवेद्दुःखपीडितः ॥५२॥
रसवीर्यविपाके च सूतकस्त्वमृतोपमः ।
तेन जन्मजराव्याधीन्हरते सूतकः प्रिये ॥५३॥
गुरुमाराधयेत्पूर्वं विशुद्धेनान्तरात्मना ।
सम्प्रदायं प्रयच्छन्ति गुरौ तुष्टे मरीचयः ॥५४॥
गुरुसेवां विना कर्म यः कुर्यान्मूढचेतनः ।
स याति निष्फलं कर्म स्वप्नलब्धं धनं यथा ॥५५॥
यः कर्म कुरुते दृष्टं तस्य लाभः पदे पदे ।
कारयेद्रसवादं तु तुष्टेन गुरुणा प्रिये ॥५६॥
सिद्ध्युपायोपदेशोऽयं उभयोर्भोगमोक्षदः ।
रसार्णवं महातन्त्रं इदं परमदुर्लभम् ॥५७॥
गोप्यं गुरुप्रसादेन लब्धं स्यात्फलसिद्धये ।
लब्ध्वात्र रसकर्माणि नाहंकारं समाचरेत् ॥५८॥
अनुज्ञातश्च गुरुणा लब्ध्वा चाज्ञां रसाङ्कुशीम् ।
भैरवीं तनुं आश्रित्य साधयेद्रसभैरवम् ॥५९॥
एवमुक्ता रसोत्पत्तिः माहात्म्यं च सुरेश्वरि ।
तन्ममाचक्ष्व देवेशि किमन्यच्छ्रोतुमिच्छसि ॥६०॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP